संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ पंचमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ऋषभ उवाच

नायं देहो देहभाजां नृलोकं

कष्टान कामानहीते विडभुजां ये ।

तपो दिव्यं पुत्रका येन सत्त्वं

शुद्धयेद्यस्मद ब्रह्मासौख्य त्वनन्तम ॥१॥

महत्सेन्वां द्वारमाहुर्विमुक्ते

स्तमोद्वारं योषितां संगिसंगम ।

महन्तस्ते समाचित्ताः प्रशान्ता

विमन्यवः सुहृदःसाधवो ये ॥२॥

ये वा मयीश एकृतसौहृदार्था

जनषु देहम्भरवारिकेषु ।

गृहेषु जायात्मजरातिमस्तु

नप्रतियुक्त यावदर्थाश्च लोके ॥३॥

नुनं प्रमत्तः कुरुते विकर्म यादिन्द्रियप्रीतय आपृणोति ।

न साधु मन्ये यत आमनोऽय मसन्नपि क्लेशद आस देहः ॥४॥

पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम ।

यावत्क्रियास्तावदिद मनो वैकर्मात्मकं येन शरीरबन्धः ॥५॥

एवं मनः कर्मवशं प्रयुडक्ते अविद्यायऽऽत्मन्युपधीयमाने ।

प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत ॥६॥

यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित ।

गतस्मृतिर्विन्दति तत्र तापा नासाद्य मैथुन्यमगारमज्ञः ॥७॥

पुंसः स्त्रिया मिथुनीभावमेतं तयार्मिथो हृदयग्रन्थिमाहुः ।

अतो गृहक्षेत्रत्रसुताप्तवित्पै र्जनस्य मोहोऽयमहं ममेति ॥८॥

यदा मनोहृदयग्रन्थिरस कार्मानुबद्धो दृढ आश्लथेत ।

तदा जनः सम्परिवर्ततेऽस्माद मुक्तः परं यात्यतिहाय हेतुम ॥९॥

हंसे गुरौमयि भक्त्यानुवृत्या वितृष्णय द्वन्द्वतितिक्षया च ।

सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्या ॥१०॥

मत्कर्मभिर्मत्कथया च नित्यं मद्देवसंगाद गुणकीर्तनान्मे ।

निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः ॥११॥

अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्माभिजयेन सध्र्यक ।

सच्छ्रद्धया ब्रह्माचर्येण शश्वद असम्प्रमादेन यमेन वाचाम ॥१२॥

सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन ।

योनेन धृत्यद्यमसत्त्वयुक्तो लिंग व्यपोहेत्कुशलोऽहमाख्यम ॥१३॥

कर्माशयं हृदयग्रन्थिबन्ध मविद्ययाऽऽसादितमप्रमत्तः ।

अनेन योगेन यथोपदेश सम्यग्वापोह्योपरमेत योगात ॥१४॥

पुत्रांश्च शिष्यांश्च नृपो गुरुवं मल्लोककामो मदनुग्रहार्थः ।

इथं विमन्युरनुशिष्यादतज्ज्ञान न योजयेत्कर्मसु कर्ममुढन ।

कं योजयन्मनुजो‍ऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते ॥१५॥

लोकः स्वयं श्रेयसि नष्टदृष्टिर्यो‍ऽर्थान समीहेत निकामकामः ।

अन्योन्यवैरः सुखलेशहेता रतन्तदुःखं च न वेद मुढः ॥१६॥

कस्तं स्वयं तदभिज्ञो विपश्चिद अविद्यायामन्तरे वर्तमानम ।

दृष्ट्वा पुनस्त सघॄणः कुबुद्धिं प्रयोजयेदुप्तथगं यथान्धम ॥१७॥

गुरुर्न स स्यत्स्वजनो न स स्यत पिता नस स्याज्जननी न सा स्यात ।

दैवं न तत्स्यान्न पतिश्च स स्या न्न मोचयेद्यः समुपेतमुत्युम ॥१८॥

इदं शरीर मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः ।

पृष्ठे कृतो मे यदधर्म आराद अतो हि मामृषभं प्राहुरार्याः ॥१९॥

तस्माद्भवन्तोहृदयेन जाताः सर्वे महीयांसममुं सनाभम ।

अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रुषणं तद्भरणं प्रजनाम ॥२०॥

भुतेषु वीरुद्दभ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः ।

ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये ॥२१॥

देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम ।

भवः परः सोऽथ विरित्र्जवीर्य स मप्तरोऽहं द्विजदेवदेवः ॥२२॥

न ब्राह्मणैस्तुलये भुतमन्यत पश्यामि विप्राः किमतः परंतु ।

यस्मिन्नृभिः प्रहुतं श्रद्धयह मश्रामि कामं न तथाग्निहोत्रे ॥२३॥

धृत तनुरुशती मे पुराणी येनेह सत्वं परमं पवित्रम ।

शमो दमः सत्यमनुग्रहश्च तपस्थितिक्षानुभवश्च यत्र ॥२४॥

मत्तोऽप्यनन्तात्परतः परस्मात स्वर्गापर्गाधिपतेर्न किंचित ।

येष किमु स्यादितरेण तेषा मिकिंचनानां मयि भक्तिभाजाम ॥२५॥

सर्वाणि मद्धिष्णयतय भवद्भि श्चराणि भुतानि सुता ध्रुवाणि ।

सम्भावितव्यनि पदे पदे वो विविक्तदृग्भिस्तदुहार्हण मे ॥२६॥

मनोवचोदृक्करणेहितस्य साक्षात्कृतं मे परिबर्हणं हि ।

विना पुमान येन महाविमोहात कृतन्तपाशान्न विमोक्तुमीशेत ॥२७॥

श्रीशुक उवाच

एवमनुशास्यत्मजान स्वयमनुशिष्टानपि लोकानुशासनार्थं महनुभावः परमसुहृदभगवानृष

भापदेद्शौपशमशीलानामुपरतकर्मणां महामुनींनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्म

मुपशिक्षमाणः स्वतनयशतज्येष्ठं परमभवतं भगवज्जनपरायणं भरतं धरणिपालनायाभिषिच्य

स्व्यं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिता

हवनीयो ब्रह्मावर्तात्प्रवव्राज ॥२८॥

जडान्धमुकबधिरपिशाचोन्मादकवदवधूत वेषोऽभिभाष्यमाणॊऽपि

जनानां गृहितमौनव्रतस्तृष्णीं बभुव ॥२९॥

तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरिवना

श्रमादिष्वनुपथमवनिचरापसदैः परिभुयमानो मक्षिकाभिरिव

वनगजस्तर्जताडनावमेहनष्टीवनग्रावशकृद्रजः

प्रक्षेपपुतिवातदुरुक्तेस्तदविगणयन्नेवासत्संस्थान

एतस्मिन देहोपलक्षणे सदपदेश उभयानुभव

स्वरुपेण स्वमहिमावस्थानेनासमारोपिताहममा

भिमानत्वादविखण्डितमनाः पृथिवीमेकचरः परिबभ्राम ॥३०॥

अतिसुकुमारकचरणारेः स्थलविपुलबाह्वंस

गलवदनाद्यवयवविन्यासः प्रकृतिसुन्दरस्वभाव

हाससुमुखो नवनलिनदलायमानाशिशिरतारारुणा

यतनयनरुचिरः सदृशसुभगव्कपोलकर्णकण्ठनासो

विगुढस्मितवदनमहोत्सवेन पुरवानितानां मनासि

कुसुमशरासनमुपदधानः परागवलम्बमानकुटिल

जटिलकपिशकेशभुरिभारोऽवधुतमलिन निजशरीरेण

गअहगृहीत इवादृश्यत ॥३१॥

यर्हि वाव स भगवान लोकमिमं योगस्याद्धा

प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्मबीभत्सितम

इति व्रतामजगरमास्थितःशयान एवश्रान्ति पिबति

खादत्यवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः ॥३२॥

तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं

देशं दशयोजनम समन्तात सुरभिं चकार ॥३३॥

एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः

शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥३४॥

इति नानायोगचर्याचरणो भगवान कैवल्यपतिऋषभाऽविरतपरमहाहानन्दानुभवा आत्मनि

सर्वेषा भुतानामात्मभुते भगवति वासुदेव आत्मनोऽव्यवधाननन्तरोदरभावेन सिद्ध

समस्तार्थपरिपुर्णो योगैश्वर्याणि वैहायसमनोजवा

न्तर्धानपरकायप्रवेशदुरग्रहणादीनि यदृच्छ योगपतानि नात्र्जसा नृप हृदयोनाभ्यनन्दत ॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमस्कन्धे ऋषभदेवानुचारिते पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP