संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान

अन्गीध्रो जम्बुद्वीपौकसः प्रजा औरसवधर्मावेक्ष

माणः पर्यगोपायत ॥१॥

स च कदाचिप्तितृलोककामः सुरवर

वनिताक्रिडाचलद्रोण्यांभगवन्तं विश्वसृजां

पतिमाभृतपरिचर्योपकरण आत्मैकाग्रयेण

तपस्व्याराधयाम्बभुव ॥२॥

तदुपलभ्य भगवानादिपुरुषः सदसि गायन्ती

पुर्वर्चिति नामापसरसमभियापयामास ॥३॥

सा च तदाश्रमोपवनमतिमणीयं विविध

निबिडविटपिविट्रनिकरसंश्लिपुरटलतारुढ

स्थलविहग्गंममिथुनैः प्रोच्यमनश्रुतिभिः प्रति

बोध्यमानसलिलकुकुटकारण्डवकलहंसादिभि

र्विचित्रमुपक जितामलजलाशयकमलाकरमुप

बभ्राम ॥४॥

तस्या सुललितगमनपदविन्यासगति

विलासायाश्चानुपदं खणखणायमानरुचिर

चरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः

समाधियोगेनामीलितनयननलिनमुकुलयुगल

मीषद्विकचय्य व्यचष्ट ॥५॥

तामैवाविदुरे मधुकरीमिव सुमनस उप

जिघ्रन्तींदिवीजम्नुजमनोनयनाह्वाददुघैर्गति

विहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि

नृणां कुसुमायुधस्य विदधतीं विवरं निजमुख

विगलितामृतासवसहसभाषनामोदमदान्धमधुकर

निकरोपरोधेन द्रुपपदविन्यासेन वल्गुस्पन्दनस्तन

क्लशकबरभाररशनां देवीं तदवलोकनेने विवृता

वसरस्य भगवतो मकरध्वजस्य वशमुपनीतो

जडवदिति होवाच ॥६॥

का त्वं चिकीर्षसि च किं मुनिवर्य शैले

मायाऽसि कापि भगवत्परदेवतायाः ।

विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे

किं वा मृगान्मृगयसे विपिने प्रमत्तान ॥७॥

बाणविमौ भगवतः शतपत्रपतेरे

शान्तावपुंखरुचिरावतितिग्मदन्ती ।

कस्मै युयुगंसि वने विचरन्न विद्यः

क्षेमाय नो जडधिया तव विक्रमोऽस्तु ॥८॥

शिष्या इमे भगवतः परितः पठन्ति

गायन्ति साम सरहस्यमजस्रमीशम ।

युष्माच्छिखाविलुलिताः सुमनोऽभिवृष्टीः

सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥९॥

वाचं परं चरणपत्र्जरतित्तिरीणां

ब्रह्मान्नरुपमुखरां श्रृणवाम तुभ्यम ।

लब्धा कदम्बरुचिरकंविटकंबिम्बे

यस्यामलातपरिधिः क्व च वल्कलं त ॥१०॥

किं सम्भृतं रुचिरयोर्द्विज श्रृंगायोस्ते

मध्ये कृशो बहर्सि यत्र दृशिः श्रिता मे ।

पंकोऽरुणः सरभिरात्मविषाण इदृग

येनाश्रमं सुभग मे सुरभीकरोषि ॥११॥

लोकं प्रदर्शन सुहृत्तम तावकं मे

यत्रत्य इत्थमुरसावयावावपुर्वे ।

अमद्विधस्य मनौन्नयनौ बिभर्ति

बह्वद्भुतं सरसराससुधादि वक्त्रे ॥१२॥

का वाऽऽत्मवृत्तिरदनाद्धविरंग वाति

विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ ।

उद्विगनमीनयुगलं द्विजपडक्तिशोचे

राजन्नभृगंनिकरं सर इन्मुखं ते ॥१३॥

योऽसौ त्वया करसरोजहत पंतगो

दिक्षु भमन भ्रमत एजयतेऽक्षिणी मे ।

मुक्तं न ते स्मरसि वक्रजटावरुथं

कष्टोऽनिलो हरति लम्पट एष नीवीम ॥१४॥

रुपं तपोधन तपश्चरतां तपोध्नं

ह्योतत्तु केन तपसा भवतोपलब्धम ।

चर्तु तपोऽर्हसि मया सह मित्र मह्यां

किं वा प्रसीदति स वै भवभावनो मे ॥१५॥

न त्वां त्यजामि दयितं द्विजदेवदत्तं

यस्मिन्मनो दृगपि नो न वियाति लग्नम ।

मां चारुश्रृंगर्हसि नेतुमनुव्रतं ते

चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥१६॥

श्रीशुक उवाच

इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया

परिभाषया तां विबुधवधुं विबुधमातिरधि

सभाजयामास ॥१७॥

सा च ततस्तस्य वीरयुपतेर्बुद्धीशील

रुपवयः श्रियौदार्येण पराक्षिप्तमनास्तेन सहा

युतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना

भौमस्वर्गभोगान बुभुजे ॥१८॥

तस्यामु ह वा आत्मजान स राजनव आग्नीध्रो

नाभिकिमुरुषहरिवर्षेलावृतरम्यक हिरण्यम

कुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजयत ॥१९॥

सा सुत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय

पुर्वचित्तिर्भुय एवाज देवमुपतस्थे ॥२०॥

आग्नीध्रसुतास्ते मातुरनुग्रहादौप्तत्तिकेनैव

संहननबलोपेता पित्रा विभक्ता आत्मतुल्यानामानि

यथाभांग जाम्बुद्वीपवर्षाणि बुभुजुः ॥२१॥

आग्नीध्रो राजा‍ऽतृप्तः कामानामप्सरमेवानुदिन

मधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध

यत्र पितरो मादयन्ते ॥२२॥

सम्परेते पितरि नव ब्रातरो मेरुदुहितृमेंरुदेवीं

प्रतिरुपामुग्रदंष्टी लतां रम्यां श्यामां नारी भद्रां

देववीतिमितिसंज्ञा नवोदवहन ॥२३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP