संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ चतुर्दशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सहोवाच

य एष देहात्ममानिनां सत्त्वदिगुणविशेष -

विकल्पितकुशलाकुशलसमवहारविनिर्मित -

संसारानुभवस्य द्वारभुतेन षडिन्द्रियवर्गेण

तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य

भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं

यथा वणिक्सार्थोऽ‍र्थपरः स्वदेहनिष्पादितकर्मानुभवः

श्मशानवदशिवतमायां संसाराटव्या गतो नाद्यापि

विफलबहुन्प्रतियोगेहस्तत्तपोपशमनीं हरिगुरु

चरणारविन्दमह्दुरकरानुपदवीमनरुन्धे यस्यामु हवा

एते . एडिन्द्रियनामानःकर्मणा दास्यव एव ते ॥१॥

तद्यथा पुरुषस्य धनं यत्कित्र्चिद्धमौपयिकं

बहुकृच्छ्रधिगतं साक्षात्परमपुरुषाराध्नलक्षणो

योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति ।

तद्धर्म्यं धनं दर्शनस्पर्शन श्रवणास्वादनावघ्राणसंकल्पव्यवसाय

गृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा

सार्थस्य विलुम्पन्ति ॥२॥

अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्रा

कर्मणा वृकसृगामा एवानिश्चातोऽपि कदर्यस्य

कुटुम्बिना उरणकवत्सरंक्ष्यमाणं मिषतोऽपिहरन्ति ॥३॥

यथा ह्र्यानुवत्सरं कृष्यमाणमप्यदग्धबीजं

क्षेत्रं पुनरेवावपनकाले गुल्मतृणईरद्भिर्गह्ररमिव

भवत्ये वमेव गृहाश्रमः कर्मक्षेत्रं यस्मित्र हि

कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथ ॥४॥

तत्र गतो दंशमशकसामापसदैर्मनुजैः शलभ

शकुन्ततस्करमुषकादिभिरुपरुध्यमानबहिः प्राणः

क्वचितपरिवर्तमानोऽस्मिन्नध्वन्य्तविद्याकामकर्मभि

रुपरक्तमनसानुपपन्नार्थ नरलोकं गन्धर्वनगर

मुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥५॥

तत्र च क्वचिदातपोदकनिभान विषयानुपधावति

पानभोजनव्यवायादिव्यसनलोलुपः ॥६॥

क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं

तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादितस्त्यागि

कामकातर इवोल्मुकपिशाचम ॥७॥

अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोप

जीवनाभिनेवेश एतस्यां संसाराटव्याम इतस्ततः परिधावति ॥८॥

क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोह

मारोपितस्तत्काअलरजसा रजनीभुत इवासाधुमर्यादो

रजस्वलाक्षोपि देग्देवता अतिरजस्वलमतिर्न विजानाति ॥९॥

क्वचित्सकृ दवगतविषयवैतथ्यः स्वयं

पराभिध्यानेन विभ्रशितस्मृतिस्तयैव मरीचि

तोयप्रायांस्तानेवाभिधावति ॥१०॥

क्वचिदुलुकझिल्लीस्वनवदतिपरुषरभसाटोपं

प्रत्यक्षं परोक्ष वा रिपुराजुकलनिर्भत्सितेना

तिव्याथितकर्णमुलहृदयः ॥११॥

स यदा दुग्धपूर्वकृतस्तदा कारस्करकाक

तुण्डाद्यपुण्यद्रुमलताविषोदपानवदुभयार्थशुन्य

द्रविणात्र्जीवन्म्रुतान स्वयं जीवन्म्रुयमाण उपधावति ॥१२॥

एकदाऽसप्रसंगन्निकृतमतिर्व्युदकस्तोत ।

स्खलनवदुभयतोऽपिदुःखदं पाखण्डमभियाति ॥१३॥

यदा तु परबाधयान्ध्य आत्मने नोपनमति

तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान वा स खलु भक्षयति ॥१४॥

क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरम

असुखोदर्कं शोकग्निना दह्यामानो भृशं निर्वेद मुपगच्छति ॥१५॥

क्वचित्कालविषमितराजकुलरक्षसापहृत

प्रियतमधनसुः प्रमृतक इव विगतजीवलक्षण आस्ते ॥१६॥

कदाचिन्मनोरथोपगतापितृपितामहाद्यसत्सदिति

स्वप्ननिर्वृतिलक्षणमनुभवति ॥१७॥

क्वचिद गृहाश्रमकर्मचोदनातिभरगिरि

मारुरुक्षणाणो लोकव्यसनकर्षितमनाः कण्टक

शर्कराक्षेत्रं प्रविशन्निव सीदति ॥१८॥

क्वचिच्च दुःसहेन कायाभ्यन्तर्विह्निना

गृहीतसरः स्वकुटुम्बाय क्रुध्याति ॥१९॥

स एव पुनर्निद्राजगरगृहोतोऽन्धे तमसि मग्नः

शुन्यारण्य इव शेते नान्यत किचंन वेद शव इवापविद्धः ॥२०॥

कदाचिद भग्नमानंद्रष्ट्रो दरुजनदन्दशुकै

रलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाण

विज्ञानोऽन्धकूपेऽन्धवत्पति ॥२१॥

कर्हि स्म चित्कामामह्दुलवान विचिन्व यदा

परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा

निहतः पतत्यपारे निरये ॥२२॥

अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः \

संसारावपनमुदाहरन्ति ॥२३॥

मुक्तस्ततो यदि बन्धोद्देवदत्त उपाच्छिनत्ति

तस्मादपि विषुमित्र इत्यनवस्थितिः ॥२४॥

क्वचिच्च शीतवाताध्यनेकाअधिदैविक

भौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो

दुरन्तचिन्तया विषण्ण आस्ते ॥२५॥

क्वचिन्मिथो व्यवहरन यत्किचिद्धनमन्य्भो

वा काकिणिकामात्रमप्यपहरन यत्कित्र्चिद्वा

विद्वेषमेति वित्तशाठ्यात ॥२६॥

अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःख

रागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभ

मात्सर्येष्यावमानक्षुप्तिपासाधिव्याधिजन्मजरा मरणादयः॥२७॥

क्वापि देवमायया स्त्रिया भुजलतोपगुढः

प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदय

स्तदाश्रयावसक्तसौतदुहितृकलत्रभाषितावलोक

विचेष्टितपहृतहृदय आत्मानमजितात्मऽपारे

ऽन्धे तमसि प्रहिणोति ॥२८॥

कदाचिईश्वरस्य भगवतो विष्णोश्चक्रात

परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात

परिवर्तितेन वयसा रंहसा हरत आब्रहातृण

स्तम्बादीनां भुतानामनिमिषतो मिषतां वित्रस्त

हृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं

यज्ञपुरुषमनादृत्य पाखण्डदेवताः कंकगृध

बकवटप्राया आर्यसमयपरिहृता शाकेत्येन अभिधत्ते ॥२९॥

यदा पाखण्डिभिरात्मवचितैस्तैरुरु वचितो

ब्रहाकुलं समवस्तेषां शीलमुपनयनादि

श्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुष

स्याराधनमेव तदारोचयन शुद्रकुलं भजते

निगमाचारेऽशुद्धितो यस्य मिथुनीभावः

कुटुम्बभरणं यथा वानरजातेः ॥३०॥

तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपण

बुद्धीरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव

वैस्मृतकालावधिः ॥३१॥

क्वचिद दुम्रवदैहिकार्थेषु गृहेषु रंस्यय यथा

वानरः सुतदारवत्सलो व्यवायक्षणः ॥३२॥

एवमधन्यवरुन्धानो मृत्युगजभयात्तमासि

गिरिकन्दरप्राये ॥३३॥

क्वच्चिच्छीतवाताद्यनेकदैविकभौतिका

त्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्त

विषयविष्ण्ण आस्ते ॥३४॥

क्वचिन्मिथो व्यवहरण यत्किचिद्धनमुपयाति

वित्तशाठ्येन ॥३५॥

क्कचित्क्षीणधनः शय्यासनशनाद्युपभोग

विहिनो यावदप्रतिलब्धमनोरथोपगतादाने

ऽवसितमतिस्ततस्ततोऽवमानादीनि जनाद

अभिलभते ॥३६॥

एवं वित्तवतिषगंविवृद्धवैरानुबन्धोऽपि

पुर्ववासनया मिथ उद्वहत्यथापवहति ॥३७॥

एतस्मिन संसाराध्वनि नानाक्लेशोपसर्ग

बाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतस्तत्र

विसृज्य जातं जातमुपादाय शोचन्मुह्रामानः

बिभ्यद्विवदन क्रन्दन संहृष्यन गायन्नह्यमानः

साधुवर्जितो नैवावर्ततेऽध्यापि यत आरब्ध एष

नरलोकसार्थो यमध्वनः पारमुपदिशन्ति ॥३८॥

यदिदं योगानुशासनं न वा एतदवरुन्धते

यन्नस्तदण्डा मुनय उपशमशीला उपरतत्मानः

समवगच्छन्ति ॥३९॥

यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः

किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति

कृतवैरानुबन्धा यां विसृज्य स्वयमुपसंहृताः ॥४०॥

कर्मवल्लीमवल्म्ब्य तत आपद्यः कथ

चिंन्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो

नरलोकासार्थमुपयाति एवमुपरि गतोऽपि ॥४१॥

तस्येदमुपगायन्ति

आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।

नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥४२॥

यो दुस्त्यजान्दारसुतान सृहृद्राज्यं हृदिस्पृशः ।

जहौ युवैव मलवदुत्तमश्लोकलालसः ॥४३॥

यो दुस्त्यजान क्षितिसुतस्वजनार्थदरान

प्रार्थ्या श्रियं सुरवरैः सदयावलोकाम ।

नैच्छन्नृपस्तदुचितं महतां मधुद्विट

सेवानुरक्तमनसामभवोऽपि फल्गुः ॥४४॥

यज्ञाय धर्मपतये विधिनैपुणाय

योगाय सांख्यशिरसे प्रकृतीश्वराय ।

नारायणाय हरये नम इत्युदारं

हास्यन्मृगत्वमपि यः समुदाजहार ॥४५॥

य इदं भागवत सभाजितावदातगुणकर्मणॊ

राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्य धन्यं

यशस्य स्वर्ग्यापवर्ग्य वानुश्रृणोत्याख्या

स्यत्यभिनन्दति च सर्वा एवाशिष आत्मन

आशास्ते न कात्र्चन परत इति ॥४६॥

इति श्रीमद्धागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम चर्तुशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP