संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ चतुर्थोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

अथ ह तमुप्तर्त्यैवाभिव्यज्यमनभगवल्लक्षणं

साम्योपशमवैराग्यैश्वर्यमहाविभुतिभिरब्रनुदिनमेध

मानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधुः ॥१॥

तस्य हवा इत्थं वर्ष्मणा वरीयसा बृहच्छ्रलोकेन

चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां चं

पिता ऋषभ इतीदं नाम चकार ॥२॥

तस्य हिन्द्रः स्पर्धमानो भगवान वर्शे न ववर्ष

तदवधार्य भगवानृषभदेवो योगेश्वरः प्रहस्यात्म

योगमायया स्ववर्षमजनाभं नामाभ्यवर्षत ॥३॥

नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्ललो गद्गदाक्षरया गिरा

स्वैरं गृहतनरलोकसधर्म भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुराग

मुपलालयन परां निर्वृतिमुपगतः ॥४॥

विदितानुरागमापौरप्रक्रुति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य

ब्राह्मणेषुपनिधाय सह मेरुदेव्या विशालायां

प्रसन्ननिपुणेन तपस समाधियोगेन नरनारायणाख्यं

भगवन्तं वासुदेवमुपासीनः कालेन

तन्महिमानमवाप ॥५॥

यस्य ह पाण्डवेय श्लोकावुदाहरन्ति को

नु तत्कर्म राजर्षेर्नोआभेरन्वाचरेत्पुमान ।

अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥६॥

ब्रह्माण्योऽन्यः कृतो नाभेर्विप्रा मंगलपुजिताः ।

यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥७॥

अथ ह भगवानुषभदेवः स्ववर्ष कर्मक्षेत्रमनु

मन्यमानः प्रदर्शितगुरुकुलवासो लब्धवैरर्गुरुभि

रनुज्ञातो ग्रुहमेधिनां धर्माननुशिक्षमाणो

जयन्त्त्यामिन्द्रदत्तायामुभयलक्षणं कर्मसमाम्नाया

म्रातमभियुत्र्जन्नात्मजानामात्मसमानानां शतं

जनयामास ॥८॥

येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण

आसीद्येनेदं वर्षे भारतमिति व्यपदिशन्ति ॥९॥

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः

केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव

नवतिप्रधानः ॥१०॥

कविर्हरिरन्तरिक्षाः प्रबुद्धः पिप्पलायनः ।

आविर्होत्रोऽथ दिमिलश्चमसः करभाजनः ॥११॥

इति भागवतधर्मदर्शना नव महाभागवताः

तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारद

संवादमुपशमायनमुपरिष्टाद्वर्णयिष्यमः ॥१२॥

यवीयांस एकाशीतिर्जायन्तेयां पितृरादेश

करा महाशालीनां महाश्रोत्रिया यज्ञशीलाः

कर्मविशुद्धा ब्राह्मना बभुवुः ॥१३॥

भगवानृषभसंज्ञ आत्मतन्त्रःस्वयम नित्य

निवृत्तानर्थपरम्परः केवलानन्दानुभव ईश्वर एव

विपरीतवत्कर्माण्यारभमाणः कलेनानुगतं

धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो

मैत्रःकारुणिको धर्मार्थयशःप्रजानन्दाम्रुतावरोधेन

गृहेषु लोकं नियमयत ॥१४॥

यद्यच्छिर्षण्याचरितं तत्तदनुवर्तते लोकः ॥१५॥

यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्नां

ब्राह्मणैर्दर्शितमार्गेण सामदिभिरुपायैर्जनतामनुशशास ॥१६॥

द्रव्यदेशकालवयः श्रद्धर्त्विग्विविधोद्देशोपचितैः

सवैरपि क्रपुर्भिर्यथोपरेशं शतकृत्व इयाज ॥१७॥

भगवतर्षभेण परिरक्ष्यमाण एतस्मिन वर्षे न

कश्चन पुरुषो वात्र्छत्यविद्यामानमिवात्मनोऽन्यस्मात्कर्थत्र्चन

किमपि कर्हिचिदवेक्षते

भर्तर्यनुसवनं विजृम्भितस्नेहातिशयमन्तरेण ॥१८॥

स कादाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो

ब्रह्मार्षिप्रवरसभायां प्रजानां निशांमयन्तीना

मात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रिता

नप्युपशिक्षयन्निति होवाच ॥१९॥

इति श्रीमद्भागवते महपुराणे पारमहंस्या संहितायां पंचमस्कन्धे चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP