संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

स्त्रीनपुंसकशेषसंग्रहः - श्लोक १०१६ ते १०३२

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१०१६) स्त्रीनपुंसकयोर्भावक्रिययोः व्यञ् क्वचिच्च वुञ्

१०१७) औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः

१०१८) षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः

१०१९) स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक्

१०२०) आबन्नन्तोत्तरपदो द्विगुश्चाऽपुंसि नश्च लुप्

१०२१) त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि

इति स्त्रीनपुंसकशेषसंग्रहः

१०२२) त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ

१०२३) इति त्रिलिङ्गशेषसंग्रहः

१०२४) परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत्

१०२५) अर्थाऽन्ताः प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः

१०२६) तद्धिताऽर्थो द्विगुः संख्यासर्वनामतदन्तकाः

१०२७) बहुर्व्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम्

१०२८) गुणद्रव्यक्रियायोगोपाधयः परगामिनः

१०२९) कृतह्कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि

१०३०) अणाद्यन्तास्तेन रक्ताद्यर्थे नानाऽर्थभेदकाः

१०३१) षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङ्व्ययम्

१०३२) परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः

इति लिङ्गाऽदिसंग्रहवर्गः: ५, अत्र मूलश्लोकाः ४६

इत्यमरसिंहकृतौ नामलिङ्गाऽनुशासने

सामान्यकाण्डस्तृतीयः साऽङ्ग एव समर्थितः

इति तृतीयः सामान्यकाण्डः समाप्तः

इत्यमरसिंहकृतं नामलिङ्गाऽनुशासनम्

काण्डत्रयात्मकं साङ्गोपाङ्गं संपूर्णतामगात् ।

अत्र मूलश्लोकाः: ४८०, क्षे. श्लोकाः:२५ सर्वे च मिलित्वा:५१३

अमरकोशस्थश्लोकानां कोष्टकम्

प्र. काण्डे मू. श्लो. २८१, क्षे. श्लो. १८, सर्वे च मिलित्वा २९९

द्वि. काण्डे मू. श्लो. ७३५, क्षे. श्लो. १४, सर्वे च मिलित्वा ७५०

त्रि. काण्डे मू. श्लो. ४८०, क्षे. श्लो. २५, सर्वे च मिलित्वा ५१३

एवं सर्वेषां काण्डानां योगः मू. श्लो. १४९७, क्षे. श्लो. ५८, सर्वे च

मिलित्वा १५६३

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP