संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

नानार्थवर्गः - श्लोक ८४९ ते ८९१

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


८४९) दलेऽपि बर्हं निर्बन्धोपरागाऽर्कादयो ग्रहाः

८५०) द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके

८५१) तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च

८५२) पत्नीपरिजनादानमूलशापाः परिग्रहाः

८५३) दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः

८५४) व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः

८५५) परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे

इति हान्ताः

८५६) आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे

८५७) आप्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः

८५८) पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः

८५९) चाऽन्वाचयसमाहारेतरेतरसमुच्चये

८६०) स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति

८६१) स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे

८६२) सकृत् सहैकवारे चाप्याराद्दूरसमीपयोः

८६३) प्रतीच्यां चरमे पश्चादुताऽप्यर्थविकल्पयोः

८६४) पुनस्सहाऽर्थयोः शश्वत् साक्षात्प्रत्यक्षतुल्ययोः

८६५) खेदाऽनुकम्पासंतोषविस्मयामन्त्रणे बत

८६६) हन्त हर्षेनुकम्पायां वाक्यारम्भविषादयोः

८६७) प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः

८६८) इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु

८६९) प्राच्यां पुरस्तात्प्रथमे पुराऽर्थेऽग्रत इत्यपि

८७०) यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे

८७१) मङ्गलाऽनन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ

८७२) वृथा निरर्थकाऽविध्योर्नानाऽनेकोभयाऽर्थयोः

८७३) नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु

८७४) प्रश्नाऽवधारणाऽनुज्ञाऽनुनयामन्त्रणे ननु

८७५) गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि

८७६) उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते

८७७) अमा सह समीपे च कं वारिणि च मूर्धनि

८७८) इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये

८७९) तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने

८८०) नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने

८८१) अलं भूषणपर्याप्तिशक्तिवारणवाचकम्

८८२) हुं वितर्के परिप्रश्ने समयाऽन्तिकमध्ययोः

८८३) पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः

८८४) स्यात्प्रबन्धे चिराऽतीते निकटागामिके पुरा

८८५) ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्

८८६) स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल

८८७) निषेधवाक्याऽलङ्कारजिज्ञासाऽनुनये खलु

८८८) समीपोभयतश्शीघ्रसाकल्याऽभिमुखेऽभितः

८८९) नामप्राकाश्ययोः प्रदुर् मिथोऽन्योन्यं रहस्यपि

८९०) तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु

८९१) अहहेत्यद्भुते खेदे हि हेताववधारणे

इति नानाऽर्थवर्गः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP