संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

नपुंसकशेषसंग्रहः - श्लोक ९८२ ते १००२

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


९८२) द्विहीनेऽन्यच्च खाऽरण्यपर्णश्वभ्रहिमोदकम्

९८३) शीतोष्णमांसरुधिरमुखाऽक्षिद्रविणं बलम्

९८४) फलहेमशुल्बलोहसुखदुह्खशुभाऽशुभम्

९८५) जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम्

९८६) कोट्याः शतादिसंख्याऽन्या वा लक्षा नियुतं च तत्

९८७) द्वयष्कमसिसुसन्नन्तं यदनाऽन्तमकर्तरि

९८८) त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययाऽन्वितम्

९८९) पात्राद्यदन्तैरेकाऽर्थो द्विगुर्लक्ष्याऽनुसारतः

९९०) द्वन्द्वैक्त्वाव्ययीभावौ पथः संख्याऽव्ययात्परः

९९१) शड्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा

९९२) शालाऽर्थाऽपि परा राजाऽमनुष्याऽर्थादराजकात्

९९३) दासीसभं नृपसभं रक्षस्सभमिमा दिशः

९९४) उपज्ञोपक्रमाऽन्तश्च तदादित्वप्रकाशने

९९५) कोपज्ञकोपक्रमादि कन्थोशीनरनामसु

९९६) भावे न णकचिद्भ्योऽन्ये समूहे भावकर्मणोः

९९७) अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः

९९८) क्रियाऽव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके

९९९) चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम्

१०००) राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः

१००१) माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम्

१००२) लोकायतं हरितालं विदलस्थालबाह्लिकम्

इति नपुंसकशेषसंग्रहः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP