संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथहोमद्रव्याणि

धर्मसिंधु - अथहोमद्रव्याणि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथहोमद्रव्याणिव्रीहिश्यामाकयवानांतण्डुलाःपयोदधिसर्पिर्यवव्रीहिगोधूमप्रियंगवःस्वरूपेणापिहोम्याः

तिलास्तुस्वरूपेणैव तण्डुलादयः शतसंख्याहस्तेनहोतव्याः दध्यादिद्रवद्रव्यं स्रुवेण सर्वत्रोत्तराहुतिःपूर्वतोभूयसी

समिधश्चार्कपकाशखदिरापामार्गपिप्पलोदुम्बरशमीदुर्वादर्भमयादशद्वादशाङ्गुलाःसत्वचः वटप्लक्षबिल्वादिजाहेमाद्रौ

होमाहुत्योःसंसर्गे यत्रवेत्थेतिमन्त्रेणाग्नयेसमिध्दोमः नित्यहोमेत्वतिक्रान्तेआज्यंसंस्कृत्यचतुर्गृहीत्वामनोज्य्तिर्जुषतामिति

जुहुयात द्वादशदिनपर्यन्तंहोमलोपेइदमेवप्रायश्चित्तम ततः परमग्निनाशः

एवंहोमलोपप्रायश्चित्तकृत्वातिक्रान्तहोमार्थद्रव्यंसंस्कृत्यसायंप्रातः क्रमेणद्वेद्वेआहुतीदिनगणनयाजुहुयात अग्निसूर्य

प्रजापतीनुपतिष्ठेन्नवाजुहुयात्प्रायश्चित्तेनचारितार्थ्यात सूतकादिनाहोमलोपेप्येवम हिरण्यकेशीयानामप्येवम

आपस्तम्बादीनांत्रिरात्रात्परमग्निनाशोभवतीतिसूतकेपिस्वयंहोमःकार्यः

समारोपोत्तरंसूतकपातेप्रत्यवराहोसंभवेनत्रिरात्रंहोमलोपेपुनराधानम्‍ ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP