संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
ज्येष्ठायामग्निः

धर्मसिंधु - ज्येष्ठायामग्निः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ज्येष्ठायामग्निसमीपस्थायांकनिष्ठयासहयजमानप्रवासोनदोषाय दंपतीउभावपिग्रामगृहयोःसीम्नोर्बाहर्गत्वा

होमकालात्पूर्वमागतोचेन्नदोषः यजमानेऽग्निसमीपस्थेपिहोमकालेपत६न्याग्रामान्तरस्थितोपुनराधानमाहुः

प्रवासेऽन्यतरेणसमारूढाग्नेरन्वारम्भासत्वेनदीसीम्नोरुल्लङ्घने पुनराघानम

अग्निंविहाययजमानस्यशतयोजनगमनेवर्षपर्यन्तस्वयंहोमाभावेवाग्निनाशः

तत्रपुनराधानंपवित्रेष्टिर्वा विनाग्निभिर्यदापत्‍नीनदीमम्बुधिगामिनीम ।

अतिक्रमेत्तदाग्नीनांविनाशः स्यादितिश्रुतिः १ अग्निसमीपेपत्यौपत्‍न्यन्तरेवापत्‍न्यानदीलङ्घनेदोषोन

पतिप्रवासेपत्‍न्याअग्निमिः सहसीमोल्लङ्घनेऽग्निनाशः एवंपत्युरपिपत्नीप्रवासे

जलेनहेतुनाग्निरुपशान्तश्चेत्पुनराधेयम तदेवपुनराधेयमग्नावनुगतेसति ।

असमाधायचेत्स्वामीसीमामुल्लङ्घ्यगच्छति १ समारोपणंविनाशम्यापरासादूर्ध्वमग्नीनांहरणेनाशः

रजोदोषेसमुत्पन्नेसूतकेमृतकेपिवा । प्रवसन्नग्निमान्विप्रःपुनराधानमर्हति १ बव्हीनामपिचैकस्यामुदक्यायांनतुव्रजेत ।

एकादहेचतुर्थेन्हिगन्तुमिच्छेन्निमित्ततः २ नचाग्निहोमवेलायांप्रवसेन्नचपर्वणि ।

होमद्वयात्ययेदर्शपूर्णमासात्यये पुनराधेयमापस्तम्बादिविषयम पचनाग्नौपदेचन्नंसूतकेमृतकेपिवा ।

अपक्त्वातुवसेद्रात्रिपुनराधानर्महति १ इदंकात्यायनादिपरम पत्‍नीप्रवासेपुनराधानमुक्तंतदेकभार्यस्य

बहुभार्यस्यतुज्येष्ठाप्रवासएवपुनराधानैतिकेचित एतेषुनिमित्तेषुस्थितानग्नीनुत्सृज्यान्येषामाधानम

आरादुपकारकाङ्गलोपेकर्मसमाप्तेःप्रक्‌प्रायश्चित्तंकृत्वादङ्गंकुर्यात कर्मसमाप्तौप्रायश्चित्तमेवनाङ्गवृत्तिः

सन्निपत्योपकारकाङ्गस्यद्रव्यसंस्काररूपस्यलोपेप्रधानात्प्राकतत्कार्यम प्रधानोत्तरंप्रायश्चित्तमेवनावृत्तिः ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP