संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
द्वितीयभागेवेदशास्त्राभ्यासः

धर्मसिंधु - द्वितीयभागेवेदशास्त्राभ्यासः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


द्वितीयभागेवेदशास्त्राभ्यासः पठेदध्यापयेद्वेदानजपेच्चैवविचारयेत ।

अवेक्षेतचशास्त्राणिधर्मादीनिद्विजोत्तमः १

देवार्चनमपिप्रातर्ह्मोत्तरंवाचतुर्थभागेब्रह्मयज्ञोत्तरंवाकार्यम् विधायदेवतापूजांप्रातर्होमादनन्तरम ।

कुर्वीतदेवतापूजांजपयज्ञादनन्तरम् इत्यादिद्विविधस्मृतेः देवार्चनंप्रकर्तव्यंत्रिकालेपियथाक्रमम् ।

अशक्तौविस्तरात्प्रातर्मध्याह्नेगन्धमादितः १ सायंनीराजनंकुर्यात्रिकालेतुलसीदलम् ।

यथासंध्यातथापूजात्रिकालेमोक्षदास्मृता २

इतिकमलाकरः तत्रविष्णुशिवब्रह्मसूर्यशक्तिविनायकादिष्वभिमतांदेवतामर्चयेत

तत्रापिकलौहरिहरयोःपूजाप्रशस्ता नविष्ण्वाराधनात्पुण्यंविद्यतेकर्मवैदिकम् ।

तस्मादनादिमध्यान्त्म्नित्यमाराधयेद्धरिम् १ अथवादेवमीशानंभगवन्तंसनातनम् ।

प्रणवेनाथवारुद्रगायत्र्यात्र्यंम्बकेनवा २ तथोन्नमः शिवायेतिमंत्रेणानेनवाजयेत ।

तत्रापिप्रतिमास्थण्डिलादिभ्यः शालिग्रामेबाणलिङ्गेचप्रशस्ता आवाहनादिकंविनासदादेवतासन्निधधानात्

श्रीमद्भागवते उद्वासावाहनेनस्तःस्थिरायामुद्धवार्चने । अस्थिरायांविकल्पःस्यात्स्थण्डिलेतुभवेद्‌द्वयम् ॥१॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP