संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथपञ्चमभागकृत्यम्

धर्मसिंधु - अथपञ्चमभागकृत्यम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपञ्चमभागकृत्यम् वैश्वदेवःप्रकतर्व्यःपञ्चसूनापनुत्तये ।

कण्डनीपेषणीचुल्लीजल कुम्भोपमार्जनी १ इतिपञ्चहिंसास्थानानिपञ्चसूनाः

वैश्वदेवस्यप्रातरेवप्रारम्भोनत्वग्रिहोत्रादिवत्सायम् तेनप्रातःसायंवैश्वदेवेत्यादिरेवसंकल्पः

पञ्चमहायज्ञाअहरहःकर्तव्याः तेचब्रह्मयज्ञदेवयज्ञभूतयज्ञपितृयज्ञमनुष्ययज्ञाख्याः

तत्रब्रह्मयज्ञउक्तः बहवृचादीनांवैश्वदेवोदेवयज्ञादियज्ञत्रयरुपः

मनुष्ययज्ञस्तुमनुष्येभ्योन्नदानम् गृहपक्वहविष्यान्नैस्तैलक्षारादिवर्जितैः ।

जुहुयात्सर्पिषाभ्यक्तैर्गृह्येऽग्रौलौकिकेऽपिवा १ यस्मिन्नग्रौपचेदन्नंतस्मिन्होमोविधीयते ।

वैश्वदेवान्तर्गतपितृयज्ञेनैवनित्यश्राद्धसिध्येर्ननित्यश्राद्धार्थंविप्रभोजनम्

अनेनैवदर्शश्राद्धस्यापिसिध्यादर्शश्राद्धमप्यशक्तैः संवत्सरमध्येसकृदेवकार्यमितिभट्टोजीये

सूतकेपञ्चमहायज्ञानांलोप इत्युक्तम्सचायंवैश्वदेव आत्मसंस्कारार्थोन्नसंस्कारार्थश्चतेनाविभक्तानां

पाकैक्येपृथग्वैश्वदेवोन विभक्तानांतुपाकैक्यैपिहविष्यान्तरेणपृथगेव अविभक्तानांपाकभेदेपृथक्‌वैश्वदेवः

कृताकृतइति भट्टोजीये पाकासंभवीकादश्यादौतण्डुलैर्वापयोदधिघृतफलोदकादिभिर्वाकार्यः

हस्तेनान्नादिभिः कुर्यादद्भिरञ्जलिनाजले । कोद्रवंचणकंमाषंमसूरंचकुलित्थकम् १ क्षारंचलवणंसर्वंवैश्वदेवेविवर्जयेत् ।

प्रवसतागृहेपुत्रर्त्विगादिद्वारावैश्वदेवः कारयितव्यः गृहेकर्त्रन्तराभावेप्रवासेस्वयंकार्यः

वैश्वदेवोबव्हृचैस्तैत्तिरीयैश्चदिवारात्रौचेतिद्विवारंकार्यः अशक्तैस्त्वेककालीवद्विरावृत्त्यासहवाकार्यः

बव्हृचतैत्तिरीययोर्लोकिकाग्रौपाकोवैश्वदेवश्चेतिप्रायेणाचारः ॥

N/A

References : N/A
Last Updated : June 23, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP