संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथौपासना प्रायश्चित्तं

धर्मसिंधु - अथौपासना प्रायश्चित्तं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथौपासनाग्न्यनुगमनेगृह्याग्नेरनुगमनप्रायश्चित्तंकरिष्ये इतिसंकल्प्य आयतनस्थं

भस्मदूरीकृत्योपलेपादिकृत्वाग्निप्रतिष्ठाप्याज्यंसंस्कृत्य अयाश्चेतिमन्त्रेणैकामाज्याहुतिसर्वप्रायश्चित्तंच

हुत्वादंपत्योरन्यतरेणापरहोमकालपर्यंतमुपोषितेनस्थातव्यम एवंद्वादशात्रपर्यन्तम

केचिदुपवासमयाश्चेतिहोमंवाकुर्यातनद्वयमित्याहुः एतदवृत्तिकारमतम

केचित्तुयद्यग्न्यनुगमनेहोमकालद्वयातिक्रमस्तदानष्टाग्निसंधानम तत्रत्रिरात्रमग्निनाशेप्राणायामशतम

तत आविंशतिरात्रमेकदिनोपवासः तत आमासद्वयंत्रिरात्रोपवासः ततऊर्ध्वसंवत्सरपर्यन्तंप्राजापत्यकृच्छ्रम

ततःप्रतिवर्ष कृच्छ्रावृत्तिः एवंप्रायश्चित्तं कृत्वा आधानोक्तसंभारान्निधायनष्टस्यग्रुह्याग्नेःप्रायश्चित्तंकरिष्ये

इतिसंकल्प्यायाश्चेत्याज्येनस्रुवाहुतिपत्‍न्युपवासादिपूर्ववत्र लाजाहोमादिकंवा एवंद्वादशरात्रपर्यन्त

मन्युत्पत्तिरित्याहुः द्वादशदिनोत्तरंविच्छेदप्रायश्चित्तंहोमादिद्रव्यदानंचकृत्वाविवाहहोमादिविधिनायथास्वस्वगृह्यंपुनःसंधानम ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP