संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथाधानविचारः

धर्मसिंधु - अथाधानविचारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकाम्यनैमित्तिकविचारः अवश्यंप्रत्यहंकृत्यमुक्त्वातच्छेषउच्यते ।

काम्यंनैमित्तिकं चापिप्रायःसिन्धुक्रमादथ ॥

तत्राधाननक्षत्रादिकालविचारःप्रथमपरिच्छेदेउक्तः

आवसथ्याधानंतुदारकालेदायविभागकालेवाअग्निर्वैवाहिकोयेननगृहीतःप्रमादिना ।

पितर्युपरतेतेन गृहीतव्यःप्रयत्नतः १ गृह्याग्निहीनस्यान्नमभोज्यम्

पितरिज्येष्ठभ्रातरिवासाग्निकेकनिष्ठादरेविभक्तस्यनिरग्निकत्वदोषोन

एवंज्ञानाध्ययनादिनिष्ठस्यापिनदोषः गृहस्थस्यपयध्ययनोक्तेः

स्मार्ताधानमपिज्येष्ठेभ्रातरिअकृताधानेसतिनकार्यमितिनिर्णयसिन्ध्वादौगार्ग्योक्तिः

अत्रैवंनिर्णयोभाति यत्रज्येष्ठेनदायाद्यपक्षमवलम्ब्य

विवाहकालेयावज्जीवमौपासनंकरिष्येइत्येवंसंकल्पपूर्वकंविवाहाग्निर्नगृहीतस्तद्विषयोऽयंकनिष्ठस्यनिषेधः

येनज्येष्ठेनविवाहकालेतथासंकल्पपूर्वकमग्निःपरिगृहीतः

सपश्चात्परिचरणाभावेनाविद्यमानाग्निकोऽपिउच्छिन्नाग्निरेवनत्वकृताधानइतितवकनिष्ठस्याधानेदोषोनेति

अत्राधिकारिणोऽपिभ्रातुरनुज्ञयाकनिष्ठस्याधानंभवति विवाहस्तुअनुज्ञयापिन

एवंपितुरनुज्ञयाप्याधानम् संन्यस्तेछिन्नहस्तादौयद्वाषण्ढादिदूषणे ।

जनकेसोदरेज्येष्ठेकुर्यादेवेतरः क्रियाम् १ इत्यादिविशेषः विवाहप्रकरणेपरिवेत्तुप्रसङ्गेउक्तः ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP