संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
वैश्वदेवस्यसहकरणपक्षेतन्त्रयोगः

धर्मसिंधु - वैश्वदेवस्यसहकरणपक्षेतन्त्रयोगः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथप्रातः सायं वैश्वदेवस्यसहकरणपक्षेतन्त्रयोगः

तत्रवैष्णवैर्भगवतेषोडशोपचारेषुदीपान्तानुपचारान्समर्प्यसर्वान्नात्पुरुषाहारपर्याप्तंनैवेद्यंसमर्प्यशेषान्नेनवैश्वदेवःकार्यः

वैष्णवभिन्नैस्तुवैश्वदेवान्तेतच्छेषेणनैवेद्यः कार्यः विष्णोर्निवेदितान्नेनयष्टव्यंदेवतान्तरम् ।

पितृभ्यश्चापितद्देयंतदानन्त्यायकल्पते १ इत्यादिवचनानांवैष्णवविषयकत्वस्यनिबन्धकारैरुक्तत्वात्

अत्रवैष्णवानारायणाष्टाक्षरादिवैष्णवमन्त्रदीक्षोपदेशजपवन्तोमुख्याः उपदेशः कलौयुगइति स्मृत्यौपदेशमात्रस्यापिदीक्षासमफलत्वात्

गौणाश्चपारंपर्यागतारुणोदयविध्दैकादश्यनुपवासशुक्लकृष्णैकादश्युपवासादियत्किंचिध्दर्ममात्रपरामन्त्रोपदेशादिरहिताः

ननुपाञ्चरात्राद्यागमोक्तदीक्षांप्राप्तोहिवैष्णवः । इत्युक्तेः किंचिध्दर्ममात्रानुष्ठानेनकथंवैष्णवत्वमितिचेत्

गायत्र्यध्ययनादिक्षत्रियवैश्यसाधारणधर्मवतांयाजनाध्यापनप्रतिग्रहरुपासाधारणधर्मशून्यानां

पित्रादिपरंपरयावैश्यादिवृत्तिपराणामप्यव्यभिचरितैकगोत्रत्वादियत्किंचिद्‌ब्राह्मणधर्ममात्रेण

यथाब्राह्मणत्वंतदुचितसूतकाद्याचारश्चतथाकलियुगेकिंचिद्धर्मेणापिवैष्णवत्वंतदुचिताचारश्चयुज्यते

क्षत्रियाणांहिपुरोहितभेदेनगोत्रभेदस्तेनयदुवंशेषुपरस्परंविवाहोनैवं ब्राह्मणेष्वितिस्पष्टम्

एवंश्राद्धेपिनैवेद्यंसमर्प्यपितृभ्योन्ननिवेदनंज्ञेयम् ममात्मान्नसंस्कारपञ्चसूनाजनितदोषपरिहारद्वाराश्रीपर०

प्रातर्वैश्वदेवंसायंवैश्वदेवंचसहतंत्रेणकरिष्ये कुण्डेस्थण्डिलादौवापचनाग्निंव्याहृतिभिः

पावकनामानंप्रतिष्ठाप्यचत्वारिशृङ्‌गेतिध्यात्वापरिसमुह्यपर्युक्ष्यविश्वानिनइत्यर्चंनादिविधायघृताक्तमन्नमग्रावधिश्रित्यप्रोक्ष्योद्वास्याग्नेः

पञ्चान्निधायत्रिधाविभज्यप्रथमभागंदेवेभ्यो जुहुयात् तद्यथा हृदिसव्यंकरंनिधायोत्तानहस्तेन

सूर्यायस्वाहासूर्यायेदंन मम प्रजापतये० सोमायवनस्पतये० अग्नीषोमाभ्यां० इन्द्राग्निभ्यां०

द्यावापृथिवीभ्यां० धन्वन्तरये० इन्द्राय० विश्वेभ्योदेवेभ्यः० ब्रह्मणे० इतिदशप्रातर्वैश्वदेवाहुतयः ।

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP