प्रथम: पाद: - सूत्र २३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


नातिचिरेण विशेषात् ॥२३॥

नातिचिरेण विशेषात् । तत्राकाशादिप्रतिपत्तौ प्राग्त्रीहयादिप्रतितपत्तेर्भवति विशय: ।
किं दीर्घं दीर्घं कालं पूर्वपूर्वसाद्दश्येनावस्थायोत्तरोत्तरसाद्दश्यं गच्छन्त्युताल्पमल्पमिति ।
तत्रनियमो नियमकारिण: शास्त्ररयाभात्रादिति ।
एवं प्राप्त इदमाह ।
नातिचिरेणेति । अल्पमल्पं कालमाकासादिभावेनावस्थाय वर्षधाराभि: सहेमां भुवमापतन्ति ।
कुत एतत् ।
शिशेषदर्शनात् ।
तथा हि व्रीहयादिभावापतेरनन्तरं विशिनष्टि ।
अतो वै खलु दुनिष्प्रपतरमिति ।
तकार एकश्छान्द्स्यां प्रक्रि ।
यां लुप्तौ मन्तव्य: ।
दुर्निष्प्रपतर दु:खतरमस्मादव्रीहयादिभावान्नि:  सरणं भवतीत्यर्थ: ।
तदत्र दु:खं निष्प्रपतनं प्रदर्शयन्पूर्वेषु सुखं निमिप्प्रपतनं दर्शथति ।
सुखदु:खताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्त: ।
तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासंभावात् ।
तस्मादव्र दय दिभावापत्ते: प्रागल्पेनैव कालेनावरोह: स्यादिति ॥२३॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP