प्रथम: पाद: - सूत्र १०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥१०॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ स्यादेतत् ।
 कस्मात्पुनश्चरणशब्देन श्रौतं शीलं बिहाय लाक्षणिकोऽनुशय: प्रत्याय्यते ।
ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्ति: फळं भविप्यति ।
अवश्यं च शीलस्यापि किंचित्फलमभ्युपगन्तव्यम् ।
अन्यथा हयानर्थक्यमेव शीलस्य प्रसज्येतेति चेत् ।
नैष दोष: ।
कुत: । तदपेक्षत्वात् ।
इष्टादि हि कर्मजातं चरणापेक्षम् ।
न हि सदाचारहीन: कश्चिदधिकृत: स्यात् ।
आचारहीनं न पुनन्ति वेदा इत्यादिस्मृतिभ्य: ।
पुरुषार्थत्वादप्याचारस्य नानर्थक्यम् ।
इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचरस्तत्रैव कंचिदतिशयमारप्स्यते ।
कर्म च सर्वार्थकारिति श्रुतिस्मृतिप्रसिद्धि: ।
तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् ।
न हि कर्मणि संभवति शीलाद्योन्यापत्तिर्युक्ता ।
न हिपद्भयां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हतीति ॥१०॥


Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP