प्रथम: पाद: - सूत्र १७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


विद्याकर्मणोरिति तु प्रकृतत्वात् ॥१७॥

पञ्चाग्निविद्यायां वेत्थ यथासौ लोको न संपूर्यते इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते - अथैतयो: पथोर्न करतेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानिभवन्ति जायस्य म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यत इति ।
तत्रैतयो: पथोरिति विद्याकर्मणोरित्येतत् ।
कस्मात् ।
प्रकृतत्वात् ।
विद्याकर्मणीहि देवयानपितृयाणयो: पथो: प्रतिपत्तौ प्रकृते ।
ददिथं विदुरिति विद्या तया प्रतिपत्तया देवयान: पन्था: प्रकीर्तित: ।
इष्टापूर्ते दत्तमिति कर्म तेन प्रातपत्तव्य: पितृयाण: पन्था: प्रकीर्तित: ।
तत्प्रक्रियायामथैतयो: पथोर्न कतरेणचनेति ।
श्रुतम् ।
एतदुक्तं भवति ।
येन विद्यासाधनेन देवयानेन देवयाने पथ्यधिकृता नापि कर्मणा पितृयाणे तेषामेव क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीय: पन्था भवतीति ।
तस्मादपि नानिष्टादिकारिभिश्चन्द्रमा: प्राप्यते ।
स्यादेतत् ।
तेऽपि चन्द्रबिम्बमारुहय ततोऽवरुहय क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति ।
तापि नास्ति ।
आरोहानर्थक्यात्र ।
अपि च सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्स्वसौ लोक: प्रयद्भि: संपूर्येतेत्यत: प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत ।
तथा हि प्रतिवचनं दातब्यं यथासौ लोको न संपूर्यते ।
अवरोहाभ्युपगमादसंपूरणोपत्तिरिति चेत् । न ।
अश्रुतत्वात् ।
सत्यमवरोहादप्यसंपूरणमुपपद्यते ।
श्रुतिस्तु तृतीयस्थानसंकीर्तनेनासंपूरणं दर्शयत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यत इति ।
तेनानारोहादेवासंपूरणमिति युक्तम् ।
अवरोहस्येष्टादिकारिष्वप्यविष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् ।
तुशब्दस्तु शाखान्तरीयवाक्यप्रभबामशेषगमनाशङ्कामुच्छिनत्ति ।
एवं सत्यधिकृतापेक्ष: शाखान्तरीये वाक्ये सर्वंशब्दोऽवतिष्ठते ।
ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥१७॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP