प्रथम: पाद: - सूत्र २२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


साभाव्यापत्तिरुपपत्ते: ॥२२॥

साभाव्यापत्तिरुपपत्ते: ॥ इष्टादिकारिणश्चन्द्रमसमासाद्य तस्मिन्यावत्सम्पातजुषित्वा तत: सानुशया अवरोहन्तीत्युक्तम् ।
अथावरोहप्रकार: परीक्ष्यते ।
तत्रेयमवरोहश्रुतिर्भवति - अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशामाकाशाद्वायुं वायुर्भूत्वा भूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षतीति ।
तत्र संशय: किमाकाशदिस्वरूपमेवावरोहन्त: प्रतिपद्यन्ते किमाकाशादिसाम्यमिति ।
तत्र प्राप्तं तावदाकाशादिस्वरूपमेव प्रतिपद्यन्त इति ।
कुत: । एवं हि श्रुतिर्भवति ।
इतरथालक्शणा स्यात् ।
श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा ।
तथा च बायुर्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत्तत्स्वरूपापत्तावाञ्जस्येनावकल्प्यन्ते ।
तस्मादाकाशादिस्वरूपोपपतिरिति ।
एवं प्राप्ते ब्रूम: ।
आकाशादिसाम्यं प्रतिपद्यन्त इति ।
चन्द्रमण्डले यदम्मयं शरीरमुपभोगार्थमारब्धं तदुषभोगक्षये सैत प्रविलीयमानं सूक्ष्ममाकाशासमं भवति ततो वायोर्वशमेति ततो मादिदिभि: संपृच्यत इति ।
तदेतदुच्यते यथेतमाकाश्माकाशाद्वायु मित्येवमादिना ।
कुत एतत् । उपपत्ते: ।
एवं हयेतदुपपद्यते ।
न हयन्यरयान्यभावो मुख्य पपद्यते ।
आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते ।
विभुत्त्वाच्चाकाशेन नित्यसंबन्धवत्वान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटते ।
श्रुत्यसंभवे च लक्षणाश्रयर्ण न्याय्यमेव ।
अत आकाशादितुल्यतापत्तिरेवात्राकाशादिभाव इत्युपचर्यते ॥२२॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP