प्रथम: पाद: - सूत्र ११

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सुकृतदुष्कृते एवेति तु बादरि: ॥११॥

सुकृतदुष्कृते देवति तु बादरि: ॥ बादरिस्त्वाचार्य: सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते ।
चरणमनुष्ठानं कर्मेत्यनथ न्तरम् ।
तथा हयविशषेण कर्ममात्रे चरति: प्रयुज्थमानो दृश्यते ।
यो हीष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येप महात्मेति ।
आचारोऽपि च धर्मविशेष एव ।
भेदब्यपदेशस्तु कर्मचरणयोर्ब्राम्हाणपरित्राजकन्यायेनाप्युपपद्यते ।
तस्माद्रमणियचरणा: प्रशस्तकर्माण: कपूयचरणा निन्दितकर्माण इति निर्णय: ॥११॥

अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥

अनिष्टादिकारिणामपि च श्रृतम् ।
इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् ।
ये त्वितरेऽनिष्टादिकारिणस्तेपि किं चन्द्रमसं गच्छन्त्युत न गच्छन्तीति चिन्त्यते ।
तत्र तावदाह ।
इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतन्न ।
कस्मात् ।
यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् ।
तथा हयविशेषेण कौषीतकिज: समामनन्ति ये वै के चास्मालोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ।
देहारम्भोऽपि च पुनर्जायमानानां नान्तरेण चन्द्रप्राप्तिमवकल्पते ।
पञ्चम्यामाहुतावित्याहुतिसंख्यानियमात् ।
यस्मात्सर्व एव चन्द्रमसमासीदेयु: ।
इष्टादिकारिणामितरेथां च समानगतित्वं न युक्तमिति चेत् ।
न । इतरेषां चन्द्रमण्डले भोगाभावात् ॥१२॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP