प्रथम: पाद: - सूत्र ३-४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


प्राणगतेश्च ॥३॥

प्रागतेश्च ॥ पाणानां च देहान्तरप्रतिपत्तौ गति: श्राव्यते ।
तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूक्तामन्तीत्यदिड्रुतिभि: ।
सा च प्राणानां गतिनीश्रयमन्तरेण संभवतीत्यत: प्राणगतिप्रयुक्ता तदाश्रयभूतानामपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते ।
न हि निराश्रया:  प्राणा: क्वचिद्नच्छन्ति तिष्ठन्ति वा जीवतोऽदर्शनात् ॥३॥


अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥४॥

अग्न्यादिगतिशृतेरिति चेन्न भाक्तत्वात् ॥ स्यादेतत् ।
नैव प्राणा देहान्तरप्र तिपत्तौ सह जीवेन गच्छन्ति ।
अग्न्यादिगतिश्रुते: ।
तथा हि श्रुतिर्मरणकालेवागादय: प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राण इत्यादिनेति चेन्न भाक्तत्वात् ।
वागादीनामन्ग्यादिगतिश्रुतिर्गौणी ।
लोमसु केशेषु चादर्शनात् ।
ओषधीर्लोमानि वन्रपतीन्केशा इति हि तत्रान्नायते ।
न हि लोमानि केशाश्चोत्प्लुत्यौषधीर्वनस्पतींश्च गच्छन्तीति संभवति ।
न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्प्यते ।
नापि प्राणौर्विना देहान्तर उपभोग पपद्यते ।
विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् ।
अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥४॥


Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP