प्रथम: पाद: - सूत्र १३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्नतिदर्शनात् ॥१३॥

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्रतिदर्शनात् ॥
तुसब्द: पक्षं व्यावर्तयति ।
नैतदस्ति सर्वे चन्द्रमसं गच्छन्तीति ।
एतत्कस्मात् ।
यतो भोगायैव हि चन्द्रांरोहणं न निष्प्रयोजनं नापि प्रत्यवरोहायैव ।
य्था कश्चिद्व्टक्षमारोहति पुष्पफलोपादानायैव न निष्प्रयोजनं नापि पतनायैव ।
भोगश्चानिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् ।
तस्मादिष्टादिकारिण एव चन्द्रमसमारोहन्ति नेतरे ।
ते तु संयमनं यमालमवगाहय स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोहन्ति ।
एवम्भूतौ तेषामारोहावरोहौ भवत: \
कुत: । तद्नतिदर्शनात् ।
तथा हि ।
यमबचनसरूपा श्रुति: प्रयतामनिष्टादिकारिणां यमवश्यतां दर्शयति ।
न साम्पराय: प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुन: पुनर्वशमापद्यते म इति ।
वैवस्वतं सङ्गमनं जगानामित्येवंजातीयकं च बहवेव यमवश्तताप्राप्तिलिङ्गं भवति ॥१३॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP