प्रथम: पाद: - सूत्र ५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


प्रथमेऽश्रवणादिति चेन्न ता एव हयुपपत्ते: ॥५॥

प्रथमेऽश्रवणादिति चेन्न ता एव हयुपपत्ते: ॥  स्यादेतत् ।
कथं पुन: पञ्चम्याहुतावाप: पुरुषवचसो भवन्तोत्येतन्निर्धारयितुं पार्यते ।
यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति ।
इह हिद्युलोकप्रभृतय: पञ्चाग्नय: पञ्चानामाहुतीनामाधारत्वेनाधीता: ।
तेषां च प्रमुखं अऔ वाव लोके गौतमाग्निरित्युपन्यस्य तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुहवतीति श्रद्धा ह्ॐयद्रव्यस्वेनावंवदिता ।
न तत्रापो हौम्यद्रव्यतया श्रुता: ।
यदि नाम प्पजन्यादिषूत्तरेषु चतुर्ष्त्रग्निष्वपां हौम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम तेषु होतव्यतयोपात्तानां सोमादिणामब्बहुलत्वोपपत्ते: ।
प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्याश्रुता आप: परिकल्प्यन्त इति साहसमेतत् ।
श्रद्धा च नाम प्रत्ययविशेष: प्रसिद्धिसामर्थ्यात ।
तस्मादयुक्त: पञ्चम्यामाहुतावपां पुरुषभाव इति चेत् ।
नैष दोष: ।
यतस्तत्रापि प्रथमेऽग्नौ ता एवाप: श्रद्धाशब्देनाभिप्रयन्ते ।
कुत: । उपपत्ते: ।
एवं हयादिमध्यावसानसंगानादनाकुलमेतदेकवाक्यमुपपद्यते ।
इतरथा पुन: पञ्चम्यामाहुतावपां पुरुषवचस्स्वप्रकारे पृष्ठे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो हौम्यद्रव्यं श्रद्धां नामावतारयेत्ततोऽन्यथा प्रश्नाऽन्यथा प्रतिवचनीमत्येकवाक्यता न स्यात् ।
इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति चोपसंहरन्नेतदेव दर्शयति ।
श्रद्धाकार्यं च सोमवृष्टयादिस्थूलीभवदब्बहूलं लक्ष्यते ।
सा च श्रद्धाया अप्त्वे युक्ति: ।
कारणानुरुपं हि कार्यं भवति ।
न च श्रद्धाख्य: प्रत्ययो मनसो जीवस्य वा धर्म: सन्धर्मिणो निष्कृष्य होमायोपादातुं शक्यते पश्वादिभ्य इव ह्रदयादीनीत्याप एव श्रद्धाशब्दा भवेयु: ।
श्रद्धाशाब्दश्चाप्सूपपद्यते वैदिकप्रयोगदर्शनात् - श्रद्धा वा आप इति ।
तनुत्वं स्रद्धासारूप्यं गच्छन्त्यापो देहबीजभूता इत्यत: श्रद्धाशब्दा: स्यु: ।
यथा सिंहपराक्रमो नर: सिंहशब्दो भवति ।
श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते मञ्चशब्द इव पुरुषेषु ।
श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिरपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मण इति श्रुते: ॥५॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP