प्रथम: पाद: - सूत्र ६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते: ॥६॥

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते: ॥
अथापि स्यात्प्रश्रप्रतिवचनाभ्यां नामप: श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन् ।
न तु तत्संपरिष्वक्ता जीवा रंहेयु: ।
अश्रुतत्वात् ।
न हयत्रापामिव जीवनां श्रावयिता कश्चिच्छब्दोऽस्ति ।
तस्माद्रहंति संपरिष्वक्त इत्ययुक्तमिति चेत् ।
नैष दोष: ।
कुत: । इष्टादिकारिणां प्रतीते: ।
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिंभवन्तीत्युपकम्येष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति - आकाशाच्चन्द्रमसमेष सोमो राजेति त एवेहापि प्रतीयन्ते तस्मिन्नेत्स्मिन्नग्नौ देवा: श्रद्धां जुहृति तस्या आहुते: सोमो राजा संभवतीति श्रुतिसामान्यात् ।
तेषांचाग्निहोइर्शपूर्णमासादिकर्मसाधनभूता दधिपय: प्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रक्षमेवाप: सन्ति ।
ता आहवनीये हुता: सूक्ष्मा आहुत्योऽपूर्वरूपा: सत्यस्तानिष्टादिकारिण आश्रयन्ति ।
तेषां च शरीरं नैधनेन विधानेनान्त्येऽग्नावृत्विजो जुव्हत्यसौ स्वर्गाय लोकाय स्वाहेति ।
ततस्ता: श्रद्धापूर्वककर्मसमवायिन्य आहुतिमप्य आपोऽपूर्वरूपा: सत्यस्तानिष्टाअदिकारिणो जीवान्परिवेष्टयामुं लोकं फलदानाय नयन्तीति यतदत्र जुहोति नाभिधीयते श्रद्धां जुहवतीति ।
तथा चाग्निहोत्रे ष‍ट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ते वा एते आहुतीहुते उत्कामत इत्येवमादिनाऽग्निहोत्राहुत्यो: फलारम्भाय लोकान्यरप्राप्ति: प्रदर्शिता ।
तस्मादाहुतीमयीभिरद्भि: संपरिष्वक्ता जीव रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते ॥६॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP