प्रथम: पाद: - सूत्र २५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अशुद्धमिति चेन्न शब्दात् ॥२५॥

अशुद्धमिति चेन्न शब्दात् ॥ यत्पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वारिकं कर्म त्स्यानिष्टमपि फलमवकल्पत इत्यो मुख्यमेवेहानुशयिनां व्रीहयादिजन्मास्तु तत्र गौणी कल्पनाऽनर्थिकेति तत्परिहिरयते ।
न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य ।
अयं धर्गोऽयमधर्म इति सास्त्रमेव विज्ञाने कारणमतीन्द्रियत्वात्तयो: ।
अनियतदेशकालनिमित्तत्वाच्च ।
यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति ।
तेन शास्त्राद्दते धर्माधर्मविषयं विज्ञानं न कस्यचिदस्ति ।
शास्त्राञ्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारित: स कथमशुद्ध इति शक्यते वक्तुम् ।
ननु न हिंस्यात्सर्वा भूतानीति शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति ।
बाढम् ।
उत्सर्गस्तु स: ।
अयं  चापवादोऽग्नीषोमीयं पशुमालभेतंति ।
उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् ।
तस्माद्विशुद्धं वैदिकं कर्म शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च ।
तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम ।
न च श्वादिजन्मवदपि व्रीयहादिजन्म भवितुमर्हति ।
तद्धि कपूयचरनानधिकृत्योच्यते नैवमिह विशेषिक: कश्चिदधिकारोऽस्ति ।
अतश्वन्द्रमण्डलस्खलितामनुशयिनां व्रीहयादिसंश्चेषमात्रं तद्भाव इत्युपचर्यते ॥२५॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP