प्रथम: पाद: - सूत्र १८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न तृतीये तथोपलब्धे: ॥१८॥

पस्पुनरुक्तं देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति पञ्चम्यामाहुतावित्याहुतिसंख्या नियमादिति तत्प्रत्युच्यते ॥
न तृतीये तथोपलब्धे: ।
न तृतीये स्नाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्य: ।
कुत: ।
तथोपलब्धे: ।
तथा हयन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते जायस्व म्रियस्वेत्येतत्तृतीयं स्थानमिति ।
अपि च पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति मनुष्यशरीरहेतुत्वेनाहुतिसंख्या संकीर्त्यते न कीटपतङ्गादिशरीरहवेतुत्वेन प्रुषशब्दस्थ मनुष्यजातिवचनत्वात् ।
अपि च पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते नापश्चम्यामाहुतौ पुरुषवचस्स्वं प्रतिषिध्यते वाक्यस्य व्द्यर्थतादोषात् ।
तत्र येषामारोहावरौहौ संभवतस्तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति ।
अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्द्देह आरप्स्यते ॥१८॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP