प्रथम: पाद: - सूत्र २

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


त्र्यात्मकत्वात्तु भृयत्स्वात् ॥२॥

ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भि: संपरिष्वको रंहतीति प्राप्नोति ।
अप्शब्दश्राणसामर्थ्यात् ।
तत्र कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मै: संपरिष्वक्तो रंहतीति ।
अत उत्तरं पठति ॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥
तुशब्देन चोदितामाशङकामुच्छिनत्ति ।
त्र्यात्मिका हयाप: ।
त्रिवृत्करणश्रुते: ।
तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति ।
त्र्यात्मकश्च देहस्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धे: ।
पुनश्च त्र्यात्मकस्त्रिधातुकत्वात्रिभिर्वातपित्तश्लेष्मभि: ।
न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।
तस्माद्भूयस्त्वापेक्षोऽयमाप: पुरुषवचस इति प्रश्नप्रतिवचनयोरप्शब्दो न कैवल्यापेक्ष: ।
सर्वदेहेषु हि असलोहितादिद्रवभूयस्त्वं द्दश्यते ।
ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते ।
नैष दोष: ।
इतरापेक्षयाऽप्यपां बाहुल्यं भविष्यति ।
द्दश्यते च शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यम् ।
कर्मं च निमित्तकारणं देहान्तरारम्भे ।
कर्माणि चाग्निहोत्रादीनि सोमाज्यपय: प्रभृतिद्रवद्रव्यव्यपास्रयाणि ।
कर्मसमवायिन्यश्चाप:  श्रद्धाशब्दोदिता: सह कर्मभिर्धुलोकाख्येऽग्रौ हूयन्त इति वक्ष्यति ।
तस्मादप्यपां बाहुल्यप्रसिद्धि: ।
बाहुल्याच्चाप्शब्देन सर्वेषामेव देहवीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥२॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP