TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः २४

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः २४
सूत उवाच॥
एतच्छ्रुत्वा तु सुनयः पुनस्ते संशयान्विताः॥
पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम् ॥१॥

यदेतदुक्तं भवतागृहाणीत्येव विस्तृतम्॥
कथं देवगृहाणि स्युः कथं ज्योतींषिवर्णय ॥२॥

एतत्सर्वं समाचक्ष्व ज्योतिषां चैव निर्णयम्॥
वायुरुवाच॥
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ॥३॥

उवाच परमं वाक्यं तेषां संशयनिर्णयम्॥
अस्मिन्नर्थे माहाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः ॥४॥

एतद्वोऽहं प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम्॥
यथा देवगृहाणीह सूर्यचन्द्रग्रहाः स्मृताः ॥५॥

ततः परं च त्रिविधस्याग्नेर्वक्ष्ये समुद्भवम्॥
दिव्यस्य भौतिकस्याग्नेरब्योनेः पार्थि वस्य तु ॥६॥

व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तजन्मनः॥
अव्याकृतमिदं त्वासीन्नैशेन तमसावृतम् ॥७॥

सर्वभूतावशिष्टेऽस्मिँल्लोके नष्टविशेषणे॥
स्वयंभूर्भगवांस्तत्र लोकतंत्रार्थसाधकः ॥८॥

खद्योतवत्स व्यचरदाविर्भावचिकीर्षया॥
सोऽग्निं दृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितम् ॥९॥

संवृत्य तं प्रकाशार्थं त्रिधा व्यमजदीश्वरः॥
पवनो यस्तु लोकेऽस्मिन्पार्थिवः सोऽग्निरुच्यते ॥१०॥

यश्चासौ तपते सूर्ये शुचिरग्निस्तु स स्मृतः॥
वैद्युतोऽब्जस्तु विज्ञेयस्तेषां वक्ष्येऽथ लक्षमम् ॥११॥

वैद्युतो जाठरः सौरो ह्यपां गर्भास्त्रयोऽग्रयः॥
तस्मादपः पिबन्सूर्यो गोभिर्दीप्यत्यसौ दिवि ॥१२॥

वैद्युतेन समाविष्टो वार्ष्यो नाद्भिः प्रशाम्यति॥
मानवा नां च कुक्षिस्थो नाद्भिः शास्यति पावकः ॥१३॥

तस्मात्सौरो वैद्युतश्च जाठरश्चप्यनिंधनः॥
किंचिदप्सु मतं तेजः किंचिदॄष्टमबिं धनम् ॥१४॥

काष्ठेंधनस्तु निर्मथ्यः सोऽद्भिः शाम्यति पावकः॥
अर्चिष्मान्पवमानोऽग्निर्निष्प्रभो जाठरः स्मृतः ॥१५॥

यश्चायं मण्डले शुक्लो निरूष्मा संप्रकाशकः॥
प्रभा सौरी तु पादेन ह्यस्तं याति देवाकरे ॥१६॥

अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते॥
उद्यंतं च पुनः सूर्यमौष्णमयमाग्नेयमाविशत् ॥१७॥

पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ॥
प्राकाश्यं च तथौष्ण्यं च सौराग्नेये तु तेजसी ॥१८॥

परस्परानुप्रवेशादाप्यायेते परस्परम्॥
उत्तरे चैव भूम्यर्द्धे तथा ह्यग्निश्च दक्षिणे ॥१९॥

उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्यपः॥
तस्मात्तप्ता भवंत्यापो दिवारत्रिप्रवेशनात् ॥२०॥

अस्तं याति पुन सूर्ये अहर्वै प्रविशत्यपः॥
तस्मान्नक्तं पुनः शुक्ला आपोऽदृश्यंत भास्वराः ॥२१॥

एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे॥
उदयास्तमने नित्यमहोरात्रं विशत्यपः ॥२२॥

यश्चासौ तपते सूर्यः पिबन्नंभो गभस्तिभिः॥
पार्थिवाग्निविमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ॥२३॥

सहस्रपादसौ वह्निर्घृतकुंभनिभः शुचिः॥
आदत्ते स तु नाडीनां सहस्रेण समंततः ॥२४॥

नादेयीश्चैव सामुद्रीः कौप्याश्चैव समंततः॥
स्थावरा जंगमाश्चैव याश्च कुल्यादिका अपः ॥२५॥

तस्य रश्मिसहस्रं तु शीतवर्षोष्णनिःस्तवम्॥
तासां चतुःशता नाड्यो वर्षंते चित्र मूर्त्तयः ॥२६॥

चन्दनाश्चैव साध्यश्च कूतनाकूतनास्तथा॥
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥२७॥

हिमोद्गताश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः॥
दृश्या मेघाश्च याम्यश्च ह्रदिन्यो हिमसर्जनाः ॥२८॥

चन्द्रास्ता नामतः प्रोक्ता मिताभास्तु गभस्तयः॥
शुक्लाश्च कुहकाश्चैव गावो विश्वभृतस्तथा ॥२९॥

शुक्लास्ता नामतः सर्वस्त्रिशता धर्मसर्जनाः॥
समं विभज्य नाडीस्तु मनुष्टपितृदेवताः ॥३०॥

मनुष्यानौषधेनेह स्वधया तु पितॄनपि॥
अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥३१॥

वसंते चैव ग्रीष्मे च शतैः स तपति त्रिभिः॥
वर्षास्वथो शरदि वै चतुर्भिश्च प्रवर्षति ॥३२॥

हेमन्ते शिशिरे चैव हिम मुत्सृजते त्रिभिः॥
इंद्रो धाता भगः पूषा मित्रोऽथ वरुणोऽर्यमा ॥३३॥

अंशुर्विवस्वास्त्वष्टा च सविता विष्णुरेव च॥
माघमासे तु वरुणः पूषा चैव तु फलाल्गुने ॥३४॥

चैत्रे मासि तु देतोंशुर्धाता वैशाखतापनः॥
ज्येष्ठमासे भवेदिंद्रश्चाषाढे सविता रविः ॥३५॥

विवस्वाञ्छ्रावणे मासि प्रोष्ठे मासे भागः स्मृतः॥
पर्जन्योऽश्वयुजे मासि त्वष्टा च कार्तिके रविः ॥३६॥

मार्गशीर्षे भवेन्मित्रः पौषेविष्णुः सनातनः॥
पंचरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥३७॥

षड्भिः सहस्रैः पूषा तु देवोऽशुसप्तभिस्तथा॥
धाताऽष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ॥३८॥

सविता दशभिर्याति यात्येकादशभिर्भगः॥
सप्तभिस्तपते सित्रस्त्वष्टा चैवाष्टभिस्तपेत् ॥३९॥

अर्यमा दशाभिर्याति पर्जन्यो नवभिस्तपेत्॥
षड्भी रश्मिसहस्रैस्तु विषणुस्तपति मेदिनीम् ॥४०॥

वसंते कपिलः सूर्यो ग्रीष्मेऽर्कः कनकप्रभः॥
श्वेतवर्णस्तु वर्षासु पांडुः शरदि भास्करः ॥४१॥

हेमन्ते ताम्रवर्णस्तु शैशिरे लोहितो रविः॥
इति वर्णाः समा ख्याताः सूर्यस्यर्तुसमुद्भवाः ॥४२॥

औषधीषु बलं धत्ते स्वधया च पिदृष्वपि॥
सूर्योऽमरेष्वप्यमृतं त्रयं त्रिषु न यच्छति ॥४३॥

एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम्॥
भिद्यते ऋतुमासाद्य जलशीतोष्णनिस्रवम् ॥४४॥

इत्येतन्मंडलं शुक्लं भास्वरं सूर्य संज्ञितम्॥
नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च ॥४५॥

चंद्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः॥
नक्षत्राधिपतिः सोमो ग्रह राजो दिवाकरः ॥४६॥

शेषाः पंच ग्रहा ज्ञेया ईश्वराः कामचारिणः॥
पठ्यते चाग्निरादित्य उदकं चंद्रमाः स्मृतः ॥४७॥

शेषाणा प्रकृतीः स्मयग्वर्ण्यमाना निबोधत॥
सुरसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः ॥४८॥

नारायणं बुधं प्राहुर्वेदज्ञानविदो बुधाः॥
रुद्रो वैवस्वतः साक्षाद्यमो लोकप्रभुः स्वयम् ॥४९॥

महाग्रहो द्विजश्रेष्ठो मंदगामी शनैश्वरः॥
देवासुरगुरू द्वौ तु भानुमन्तौ महा ग्रहौ ॥५०॥

प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती॥
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ॥५१॥

भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम्॥
रुद्रोपेन्द्रेन्द्रचंद्राणां विप्रेन्द्रास्त्रिदिवौकसाम् ॥५२॥

द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम्॥
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ॥५३॥

सूर्य एव त्रिलोकस्य सूलं परमदैवतम्॥
ततः संजायते सर्वं तत्र चैव प्रलीयते ॥५४॥

भावाभावौ हि लोकानामादित्यान्निःमृतौ पुरा॥
जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः ॥५५॥

अत्र गच्छंति निधनं जायंते च पुनः पुनः॥
क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः ॥५६॥

मासाः संवत्सराश्चैव ऋतवोऽथ युगानि च॥
तदादित्यादृते ह्येषा कालंसख्या न विद्यते ॥५७॥

कालादृते न निगमो न दीक्षा नाह्निकक्रमः॥
ऋतूनामविभागाच्च पुष्पमूलफलं कुतः ॥५८॥

कुतः सस्यविनिष्पत्तिस्तृणौषधिगणोऽपि वा॥
अभावो व्यवहाराणां जंतूनां दिवि चैह च ॥५९॥

जगत्प्रतापनमृते भास्करं वारितस्करम्॥
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः ॥६०॥

तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम्॥
स एष तेचसां राशिस्तमो घ्रन्सार्वलौकिकम् ॥६१॥

उत्तमं मार्गमास्थाय वायोर्भाभिरिदं जगत्॥
पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः ॥६२॥

यथा प्रभाकरो दीपोगृहमध्येऽवलंबितः॥
पार्श्वमूर्ध्वमधश्चैव तमो नाशयते समम् ॥६३॥

तद्वत्सहस्रकिरणो ग्रहराजो जगत्पतिः॥
सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः ॥६४॥

रवे रश्मिसहस्रं यत्प्राङ्मया समुदात्दृतम्॥
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयो नयः ॥६५॥

सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च॥
विश्वश्रवाः पुनश्चान्यः संपद्वसुरतः परः ॥६६॥

अर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्त्तितः॥
सुषुम्णः सूर्यरश्मिस्तु क्षीण शशिनमेधयेत् ॥६७॥

तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्णः परिकीर्त्तितः॥
हरि केशः पुरस्ताद्य ऋक्षयोनिः स कीत्यते ॥६८॥

दक्षिणे विश्वकर्मा तु रश्मिन्वर्द्धयते वुधम्॥
विश्वश्रवास्तु यः पश्चच्छुक्रयोनिः स्मृतो बुधैः ॥६९॥

संपद्वसुस्तु यो रश्मिः स योनिर्लोहितस्य तु॥
षष्ठस्त्वर्व्वावसू रश्मिर्योनिस्तु स बृहस्पतेः ॥७०॥

शनैश्चरंपुन श्चापि रश्मिराप्यायते स्वराट्॥
एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः ॥७१॥

वर्त्न्ते दिवि ताः सर्वा विश्वं चैदं पुनर्जगत्॥
नक्षीयन्ते यतस्तानि तस्मान्नक्षत्रसंज्ञिताः ॥७२॥

क्षेत्राण्येतानि वै पूर्वमापतंति गभस्तिभिः॥
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रकारकाः ॥७३॥

तीर्णानां सुकृतेनेह सुकृतांते ग्रहाश्रयात्॥
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥७४॥

दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः॥
आदानान्नित्यमादित्यस्तेजसा तपसामपि ॥७५॥

स्वनं स्यन्दनार्थे चु धातुरेषु विभाव्यते॥
स्वनात्तेजसोऽपां च तेनासौ सविता मतः ॥७६॥

बह्वर्थश्चदिरित्येष ह्लादने धातुरुच्यते॥
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ॥७७॥

सूर्याचंद्रमसो र्दिव्ये मंडले भास्वरे खगे॥
जलतेचौमये शुक्ले वृत्तकुंभनिभे शुभे ॥७८॥

घनतोयात्मकं तत्र मंडलं शशिनः स्मृतम्॥
घनतेजोमयं शुक्लं मंडलं भास्करस्य तु ॥७९॥

विशंति सर्वदेवास्तु स्थानान्येतानि सर्वशः॥
मन्वंतरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥८०॥

तानि देवगृहाण्येव तदाख्यास्ते भवंति च॥
सौरं सूर्यो विशेत्स्थानं सौम्यं सोमस्तथैव च ॥८१॥

शौक्रं शुक्रो विशेत्स्थानं षोड शार्चिः प्रभास्वरम्॥
जैवं बृहस्पतिश्चैव लौहितं चैव लोहितः ॥८२॥

शनैश्चरो र्विशेत्स्थानं देवः शानैस्चरं तथा॥
बौधं बुधोऽथ स्वर्भानुः स्वर्भानुस्थानमास्थितः ॥८३॥

नक्षत्राणि च सर्वाणि नक्षत्राणि विशंत्युत॥
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्म नाम् ॥८४॥

कल्पादौ संप्रवृत्तानि निर्मितानि स्वयंभुवा॥
स्थानान्येतानि तिष्ठंति यावदात्रूतसंप्लवम् ॥८५॥

मन्वंतरेषु सर्वेषु देवस्थानानि तानि वै॥
अभिमानिनोऽवतिष्ठंते देवस्थानानि वै पुनः ॥८६॥

अतीतैस्तु सहातीता भाव्या भाव्यैः सुरैः सह॥
वर्त्तन्ते वर्त्तमानैश्च स्थानिभिस्तैः सुरैः सह॥
अस्मिन्मन्वन्तरे चैव ग्रहा वैतानिकाः स्मृताः ॥८७॥

विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे॥
त्विषिनामा धर्मसुतः सोमो देवो वसुः स्मृतः ॥८८॥

शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः॥
बृहत्तेजाः स्मृतो देवो देवाचार्योऽगि रस्सुतः ॥८९॥

बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः॥
शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः ॥९०॥

अग्नेर्विकेश्यां जज्ञे तु युवाऽसौ लोहिताधिपः॥
नक्षत्राण्यृक्षनामानो दाक्षायण्यस्तु ताः स्मृताः ॥९१॥

स्वर्भानुः सिंहिकापुत्रो भूतसंतापनोऽसुरः॥
सोमर्क्षग्रहसूर्येषु कीर्त्तिता ह्यभिमानिनः ॥९२॥

स्थानान्येतानि चोक्तानि स्थानिनश्चाथ देवताः॥
शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ॥९३॥

सहस्रांशोस्त्विषेः स्थानमम्मयं शुक्लमेव च॥
आप्यं श्यामं मनोज्ञस्य पंचरश्मेर्गृहं स्मृतम् ॥९४॥

शुक्रस्याप्यम्मयं शुक्लं पद्मं षौडशरश्मिषु॥
नवरश्मेस्तु भौमस्य लौहितं स्थानमम्मयम् ॥९५॥

हरिदाप्यं बृहत्स्थानं द्वादशांशैर्बृहस्पतेः॥
अषृ रश्मिगृहं प्रोक्तं कृष्णं मंदस्य चाम्मयम् ॥९६॥

स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम्॥
विज्ञेयास्तारकाः सर्वा अम्मयास्त्त्वे करश्मयः ॥९७॥

आश्रयाः पुण्यकीर्तीनां सुशुक्लाश्चापि वर्णतः॥
घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः ॥९८॥

आदित्यरश्मिसंयोगात्संप्रकाशात्मिकाः स्मृताः॥
नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः ॥९९॥

त्रिगुणास्तस्य विस्तारो मंडलस्य प्रमाणतः॥
द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥१००॥

तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति॥
उद्धृत्य पृथिवीछायां निर्मितो मंडलाकृतिः ॥१०१॥

स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम्॥
आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ॥१०२॥

आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु॥
स्वर्भासा नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते ॥१०३॥

चन्द्रस्य षोडशो भागो भार्गवस्तु विधीयते॥
विष्कंभान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः ॥१०४॥

भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः॥
बृहस्पतेः पाद हीनौ भौमसौरावुभौ स्मृतौ ॥१०५॥

विस्तारान्मंडलाच्चैव पादहीनस्तयोर्बुधः॥
तारानक्षत्ररूपाणि वपुष्मंति च यानि वै ॥१०६॥

बुधेन समरूपाणि विस्तारान्मंडलाच्च वै॥
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित् ॥१०७॥

तारानक्षत्ररूपाणि हीनानि तु परस्परात्॥
शतानि पंच चत्वारि त्रीणि द्वे चैव योजने ॥१०८॥

पूर्वापरनिकृष्टानि तारकामंडलानि च॥
योजनाद्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥१०९॥

उपरिष्टात्र्रयस्तेषां ग्रहा ये दूरसर्पिणः॥
सौरोंगिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥११०॥

तेभ्योऽध स्तात्तु चत्वारः पुनरेव महाग्रहाः॥
सूर्यसोमौ बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥१११॥

तावत्यस्तारकाकोट्यो यावदृक्षाणि सर्वशः॥
विधिना नियमाच्चैषामृक्षचर्या व्यवस्थिता ॥११२॥

गतिस्तासु च सूर्यस्य नीचौच्चे त्वयनक्रमात्॥
उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः ॥११३॥

उच्चत्वाद्दृश्यते शीघ्रं नीतिव्यक्तैर्गभस्तिभिः॥
तदा दक्षिणमार्गस्यो नीयां विथीमुपाश्रितः ॥११४॥

भूमि लेखावृतः सूर्यः पूर्णामावास्ययोः सदा॥
न दृश्यते यथाकालं शीघ्रमस्तमुपैति च ॥११५॥

तस्मादुत्तरमार्गस्थो ह्यमावस्यां निशाकरः॥
दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ॥११६॥

ज्योतिषां गतियोगेन सूर्याचन्द्रमसावृतः॥
समानकालास्तमयौ विषुवत्सु समोदयौ ॥११७॥

उत्तरासु च वीथीषु व्यंतरास्तमनोदयौ॥
पूर्णामवास्ययोर्ज्ञोयौ ज्योतिश्चक्रानुवर्तिनौ ॥११८॥

दक्षिणायनमार्गस्थो यदा चरति रश्मिवान्॥
तदा सर्वग्रहाणां च सूर्योऽधस्तात्प्रसर्पति ॥११९॥

विस्तीर्ण मंडलं कृत्वा तस्योर्द्ध्व चरते शशी॥
नक्षत्रमंडलं कृत्स्नं सोमादूर्द्ध्व प्रसर्पति ॥१२०॥

नक्षत्रेभ्यो बुधश्चोर्द्ध्र बुधादूर्द्ध्वं तु भार्गवः॥
वक्रस्तु भार्गवादूर्द्ध्व वक्रादूर्द्ध्वं बृहस्पतिः ॥१२१॥

तस्माच्छनैश्चरश्चोर्द्ध्वं तस्मात्सप्तर्षिमंडलम्॥
ऋषीणां चापि सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः ॥१२२॥

द्विगुणेषु सहस्रेषु योजनानां शतेषु च॥
ताराग्रहांतराणि स्युरुपरिष्टाद्यथाक्रमम् ॥१२३॥

ग्रहाश्च चंद्रसूर्यौ च दिवि दिव्येन तेज सा॥
नित्यमृक्षेषु युज्यंते गच्छंतो नियताः क्रमात् ॥१२४॥

ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृजवस्तथा॥
समागमे च भेदे च पश्यंति युगपत्प्रजाः ॥१२५॥

परस्परस्थिता ह्येते युज्यंते च परस्परम्॥
असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः ॥१२६॥

इत्येवं सन्निवेशो वै वृथिव्या ज्यौतिषस्य च॥
द्विपानामुदधीनां च पर्वतानां त्थैव च ॥१२७॥

वर्षाणां च नदीनां च ये च तेषु वसंति वै॥
एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः ॥१२८॥

विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेंऽतरे॥
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ॥१२९॥

त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसोस्सुतः॥
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ॥१३०॥

षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनंतरम्॥
ताराग्रहाणां प्रवरस्तिष्यऋक्षे समुत्थितः ॥१३१॥

ग्रहश्चांगिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः॥
फाल्गुनीषु समुत्पन्नः पूर्वासु च जगद्गुरुः ॥१३२॥

नवार्चिर्लोहितांगश्च प्रजापतिसुतो ग्रहः॥
आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः ॥१३३॥

रेवतीष्वेव सप्तार्चिस्तथा सौरिः शनैश्चरः॥
सौम्यो बुधो धनिष्ठासु पंचार्चिरुदितो ग्रहः ॥१३४॥

तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी॥
आश्र्लेषासु समुत्पन्नः सर्वहारी महाग्रहः ॥१३५॥

तथा स्वनामधेयेषु दाक्षायण्यः समुछ्रिताः॥
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमंडलः ॥१३६॥

भरणीषु समुत्पन्नो ग्रहश्चंद्रार्कमर्द्दनः॥
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः ॥१३७॥

जन्मनक्षत्रपीडासु यांति वैगुण्यतां यतः॥
स्पृश्यंते तेन दोषेण ततस्तद्ग्रहभक्तितः ॥१३८॥

सर्वग्रहाणामेतेषामादिरादित्य उच्यते॥
ताराग्रहाणां शुक्रस्तु केतूनामपि धूमवान् ॥१३९॥

ध्रुवः कीलो ग्रहाणां तु विभक्तानां चतुर्द्दिशम्॥
नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ॥१४०॥

वर्षाणां चापि पंचानामाद्यः संवत्सरः स्मृतः॥
ऋतूनां शिशिरश्चापि मासानां माघ एव च ॥१४१॥

पक्षाणां शुक्लपक्षश्च तिथीनां प्रतिपत्तथा॥
अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ॥१४२॥

मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः॥
क्षणश्चापि निमेषादिः कालः कालविदां वराः ॥१४३॥

श्रवणांतं धनिष्ठादि युगं स्यात्पंचवार्षिकम्॥
भानोर्गतिविशेषेण चक्रवत्परिवर्त्तते ॥१४४॥

दिवाकरः स्मृतस्तस्मात्कालस्तद्विद्भिरीश्वरः॥
चतुर्विधानां भूतानां प्रवर्त्तकनिवर्त्तकः ॥१४५॥

तस्यापि भगवान्रुद्रः साक्षाद्देवः प्रवर्त्तकः॥
इत्येष ज्योतिषामेव संनिवेशोऽर्थनिश्चयात् ॥१४६॥

लोकसंव्यवहारार्थ मीश्वरेण विनिर्मितः॥
उत्तराश्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा ॥१४७॥

सर्वतस्तेषु विस्तीर्णो वृत्ताकार इव स्थितः॥
बुद्धिबूर्वं भागवता कल्पदौ संप्रवर्त्तितः ॥१४८॥

साश्रयः सोऽभिमानी च सर्वस्य ज्योतिषात्मकः॥
वैश्वरूपप्रधानस्य परिणामोऽयमद्भुतः ॥१४९॥

नैतच्छक्यं प्रसंख्यातुं याथातथ्येन केनचित्॥
गतागतं मनुष्येण ज्योतिषां सांसचक्षुषा ॥१५०॥

आगमादनुमा नाच्च प्रत्यक्षदुपपत्तितः॥
परिक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता ॥१५१॥

चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिवित्तमाः॥
पंचैते हेतवो विप्रा ज्योतिर्गणविवेचने ॥१५२॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
ज्योतिषां सन्निवेशंनं नाम चतुर्विंशतितमोऽध्यायः॥२४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:48.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुखण्याची सोबत करणें

  • ( बायकी ) आजारी पडणें. ‘ तूं अशी सारखी हायहाय करीत बसशील तर दुखण्याची सोबत करून घेशील.’ 
RANDOM WORD

Did you know?

ऐश्वर्याचे प्रकार किती व कोणते?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.