TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः १६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः १६
सूत उवाच॥
एवमेव निसर्गो वै वर्षाणां भारते शुभे॥
दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः ॥१॥

ऋषिरुवाच॥
यदिदं भारतं वर्षं यस्मिन्स्वायंभुवादयः॥
चतुर्दशैते मनवः प्रजासर्गेऽभवन्पुनः ॥२॥

एतद्वेदितुमिच्छामस्तन्नो निगद सत्त्मः॥
एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः ॥३॥

अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः॥
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् ॥४॥

उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत्॥
वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा ॥५॥

भरणाच्च प्रजानां वै मनुर्भरत उच्यते॥
निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम् ॥६॥

इतः स्वर्गश्च मोक्षश्च मध्यश्चांतश्च गम्यते॥
न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥७॥

भारतस्यास्य वर्षस्य नव भेदान्निबोधत॥
समुद्रातरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥८॥

इंद्रद्वीपः कशेरूमांस्ताम्रवर्णो गभस्तिमान्॥
नागद्वीपस्तथा सौम्यो गांधर्वस्त्वथ वारुणः ॥९॥

अयं तु नवमस्तेषां द्वीपः सागरसंवृतः॥
योजनानां सहस्रे तु द्वीपोऽयं दक्षिणोत्तरात् ॥१०॥

आयतो ह्याकुमार्य्या वै चागंगाप्रभवाच्च वै॥
तिर्यगुत्तरविस्तीर्मः सहस्राणि नवैव तु ॥११॥

द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरंतेषु सर्वशः॥
पूर्वे किराता ह्यस्यांते पश्चिमे यवनाः स्मृताः ॥१२॥

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः॥
इज्यायुधवणिज्याभिर्वर्त्तयंतो व्यवस्थिताः ॥१३॥

तेषां संव्यवहारोऽत्र वर्त्तते वै परस्परम्॥
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥१४॥

संकल्पः पंचमानां च ह्याश्रमाणां यथाविधि॥
इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ॥१५॥

यस्त्वयं नवमो द्वीपस्तिर्यगायाम उच्यते॥
कृत्स्नं जयति यो ह्येनं सम्राडित्यभिधीयते ॥१६॥

अयं लोकस्तु वै सम्राडंतरिक्षं विराट् स्मृतम्॥
स्वराडसौ स्मृतो लौकः पुनर्वक्ष्यामि विस्तरात् ॥१७॥

सप्तैवास्मिन्सुपर्वाणो विश्रुताः कुल पर्वताः॥
महेंद्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥१८॥

विंध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥
तेषां सहस्रश्चान्ये पर्व तास्तु समीपगाः ॥१९॥

अविज्ञाताः सारवंतो विपुलाश्चित्रसानवः॥
संदरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा ॥२०॥

कोलाहलः ससुरसो मैनाको वैद्युतस्तथा॥
वातंधमो नागगिरिस्तथा पाण्डुरपर्वतः ॥२१॥

तुंगप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च॥
पुष्पगिर्युज्जयंतौ च शैलो रैवतकस्तथा ॥२२॥

श्रीपर्वतश्चित्रकूटः कूटशैलो गिरिस्तथा॥
अन्ये तेभ्योऽपरिज्ञाता ह्रस्वाः स्वलपोपजी विनः ॥२३॥

तैर्विमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः॥
पीयंते यैरिमा नद्यो गंगा सिंधु सरस्वती ॥२४॥

शतद्रुश्चंद्र भागा च यमुना सरयूस्तथा॥
इरावती वितस्ता च विपाशा देविका कुहूः ॥२५॥

गोमती धूतपापा च बुद्बुदा च दृषद्वती॥
कौशकी त्रिदिवा चैव निष्ठीवी गेडकी तथा ॥२६॥

चक्षुर्लोहित इत्येता हिमवत्पादनिस्सृताः॥
वेदस्मृतिर्वेदवती वृत्रघ्नी सिंधु रेव च ॥२७॥

वर्णाशा नंदना चैव सदानीरा महानदी॥
पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि ॥२८॥

क्षिप्रा ह्यवंति च तथा पारियात्राश्रयाः स्मृताः॥
शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया ॥२९॥

मंदाकिनी दशार्णा च चित्रकूटा तथैव च॥
तमसा पिप्पला श्येना करमोदा पिशाचिका ॥३०॥

चित्रोपला विशाला च बंजुला वास्तुवाहिनी॥
सनेरुजा शुक्तिमती मंकुती त्रिदिवा क्रतुः ॥३१॥

ऋक्षवत्संप्रसूतास्ता नद्यो मणिजलाः शिवाः॥
तापी पयोष्णी निर्विंध्या सृपा च निषधा नदी ॥३२॥

वेणी वैतरणी चैव क्षिप्रा वाला कुमुद्वती॥
तोया चैव महागौरी दुर्गा वान्नशिला तथा ॥३३॥

विंध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः॥
गोदावरी भीमरथी कृष्णवेणाथ बंजुला ॥३४॥

तुंगभद्रा सुप्रयोगा बाह्या कावेर्यथापि च॥
दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः ॥३५॥

कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती॥
नद्योऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः ॥३६॥

त्रिसामा ऋषिकुल्या च बंजुला त्रिदिवाबला॥
लांगूलिनी वंशधरा महेंद्रतनयाः स्मृताः ॥३७॥

ऋषिकुल्या कुमारी च मंदगा मंदगामिनी॥
कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥३८॥

तास्तु नद्यः सरस्वत्यः सर्वा गंगाः समुद्रगाः॥
विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥३९॥

तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः॥
तास्विमे कुरुपांचालाः शाल्वा माद्रेयजांगलाः ॥४०॥

शूरसेना भद्रकारा बोधाः सहपटच्चराः॥
मत्स्याः कुशल्याः सौशल्याः कुंतलाः काशिकोशलाः ॥४१॥

गोधा भद्राः करिंगाश्च मागधाश्चोत्कलैः सह॥
मध्यदेश्या जनपदाः प्रायशस्त्त्र कीर्त्तिताः ॥४२॥

सह्यस्य चौत्तरांतेषु यत्र गोदावरी नदी॥
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥४३॥

तत्र गोवर्धनं नाम पुरं रामेण निर्मितम्॥
रामप्रियाथ स्वर्गीया वृक्ष दिव्यास्त थौषधीः ॥४४॥

भरद्वाजेन मुनिना तत्प्रियार्थेऽवरोपिताः॥
अतः पुर्वरोद्देशस्तेन जज्ञे मनोरमः ॥४५॥

बाह्लीका वाटधानाश्च आभीरा कालतोयकाः॥
अपरांताश्च मुह्माश्च पाञ्चलाश्चर्ममंडलाः ॥४६॥

गांधारा यवनाश्चैव सिंधुसौवीरमण्डलाः॥
चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः ॥४७॥

शाका भद्राः कुलिंदाश्च पारदा विन्ध्यचूलिकाः॥
अभीषाहा उलूताश्च केकया दशामालिकाः ॥४८॥

ब्राह्मणाः क्षत्रियाश्चैव वैश्यशूद्रकुलानि तु॥
कांवोजा दरदाश्चैव बर्बरा अंगलौहिकाः ॥४९॥

अत्रयः सभरद्वाजाः प्रस्थलाश्च दशेरकाः॥
लमकास्तालशालाश्च भूषिका ईजिकैः सह ॥५०॥

एते देशा उदीच्या वै प्राच्यान्देशान्निबोधत॥
अंगवंगा श्चोलभद्राः किरातानां च जातयः॥
तोमरा हंसभंगाश्च काश्मीरास्तंगणास्तथा ॥५१॥

झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च ॥५२॥

अंध्रवाका मुद्गरका अंतर्गिरिबहिर्गिराः॥
ततः प्लवंगवो ज्ञेया मलदा मलवर्तिकाः ॥५३॥

समंतराः प्रावृषेया भार्गवा गोपपार्थिवाः॥
प्राग्ज्योतिषाश्च पुंड्राश्च विदेहास्ताम्रलिप्तकाः ॥५४॥

मल्ला मगधगोनर्दाः प्राच्यां जनपदाः स्मृताः॥
अथापरे जनपदा दक्षिणापथवासिनः ॥५५॥

पंड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च॥
सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः ॥५६॥

माहराष्ट्रा महिषिकाः कलिंगश्चैव सर्वशः॥
आभीराश्च सहैषीका आटव्या सारवास्तथा ॥५७॥

पुलिंदा विंध्यमौलीया वैदर्भा दंडकैः सह॥
पौरिका मौलिकाश्चैव ्श्मका भोगवर्द्धिनाः ॥५८॥

कोंकणाः कंतलाश्चांध्राः कुलिन्दाङ्गारमारिषाः॥
दाङिणाश्चैव ये देशा अपरांस्तान्निबोधत ॥५९॥

सूर्य्यारकाः कलिवना दुर्गालाः कुन्तरौः सहः॥
पौलेयाश्च किराताश्च रूपकास्तापकैः सह ॥६०॥

तथा करीतयश्चैव सर्वे चैव करंधराः॥
नासिकाश्चैव ये चान्ये ये चैवांतरनर्मदाः ॥६१॥

सहकच्छाः समाहेयाः सह सारस्वतैरपि॥
कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह ॥६२॥

इत्येते अपरांताश्च श्रृणुध्वं विंध्यवासिनः॥
मलदाश्च करूथाश्च मेकलाश्चैत्कलैः सह ॥६३॥

उत्तमानां दशार्णाश्च भोजाः किष्किंधकैः सह॥
तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥६४॥

तुहुण्डा बर्बराश्चैव षट्पुरा नैषधैः सह॥
अनूपास्तुंडिकेराश्च वीतिहोत्रा ह्यवंतयः ॥६५॥

एते जनपदाः सर्वे विंध्यपृष्ठनिवासिनः॥
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥६६॥

निहीरा हंसमार्गाश्च कुपथास्तंगणाः शकाः॥
अपप्राव रणाश्चैव ऊर्णा दर्वाः सहूहुकाः ॥६७॥

त्रिगर्त्ता मंडलाश्चैव किरातास्तामरैः सह॥
चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ॥६८॥

कृतं त्रेतायुगं चैव द्वापरं तिष्यमेव च॥
तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः ॥६९॥

इति श्रीब्रoमहापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
भारतवर्मतं नाम षोडशोऽध्यायः॥१६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:48.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आसपाव

  • पु. ( कर्ना . ) दोरी , पट्टे , कांसरा , इत्यादि जोत जुंपण्याचें सामान 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.