TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः २३

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः २३
सूत उवाच॥
सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिस्तथा॥
गंधर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥१॥

एते वसंति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु॥
धाताऽर्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ॥२॥

एरावतो वासुकिश्च कंसो भीमश्च तावुभौ॥
रथकृच्च रथौजाश्च यक्षावेतावुदा त्दृतौ ॥३॥

तुंबुरुर्नारदश्चैव सुस्थला पुंजिकस्थला॥
रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ ॥४॥

एते वसंति वै सूर्य्ये मधुमाधवयोः सदा॥
मित्रश्च वरुणश्चैव मुनिरत्रिरुदाहृतः ॥५॥

तथा वसिष्ठो विख्यातः सहजन्या च मेनका॥
राक्षसौ च समाख्यातौ पौरुषेयो वधस्तथा ॥६॥

हाहा हूहूश्च गंधर्वौ यज्ञश्चापि रथस्वनः॥
रथचित्रस्तथैवान्यो नागसाक्षकसंज्ञेतः ॥७॥

रंभकश्च वसन्त्येते मासयोः शुचिशुक्रयोः॥
ततः सूर्ये पुनस्त्वन्या निवसंतीह देवताः ॥८॥

इद्रश्चैव विवस्वांश्च अंगिरा भृगुरेव च॥
एलापत्रस्तथा सर्पः शंखपालाश्च तावुभौ ॥९॥

विश्वावसूग्रसेनौ च श्वेतश्चैवारुणस्तथा॥
प्रम्लोचा इति विख्याताऽनुम्लोचेति च ते उभे ॥१०॥

यातुधानस्तदा सर्पो व्याघ्रश्चव तु तावुभौ॥
नभोनभस्ययोरेष गाणो वसति भास्करे ॥११॥

शरद्यन्याः पुनः शुभ्रा वसंति मुनिदेवताः
पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः ॥१२॥

परावसुश्च गंधर्वस्तथैव सुरुचिश्च यः॥
विश्वाची च घृताची च उभे ते शुभलक्षणे ॥१३॥

नाग एरावतश्चैव विश्रुतश्च धनंजयः॥
श्चेनजिच्च सुषेणश्च सेनीर्ग्राम णीश्च तौ ॥१४॥

आपो वातश्च द्वावेतौ यातुधानावुदाहृतौ॥
वसंत्येते तु वै सूर्ये सदैवाश्विनकर्तिके ॥१५॥

हैमन्तिकौ तु द्वौ मासौ वसंति च दिवाकरे॥
अंशो भगश्च द्वावैतौ कश्यपश्य क्रतुश्च ह ॥१६॥

भुजंगश्च महापद्मः सर्वः कर्कोटक स्तथा॥
चित्रसेनश्च गंधर्व ऊर्णायुश्चैव तावुभौ ॥१७॥

उर्वशी पूर्वचित्तिश्च तथैवाप्सरसा उभे॥
तार्ङश्चारिष्टनेमिश्च सेनानी र्ग्रामणीश्च तौ ॥१८॥

विद्युत्स्फूर्जः शतायुश्च यातुधानावुदात्दृतौ॥
सहे चैव सहस्ये च वसंत्येते दिवाकरे ॥१९॥

ततः शैशिर योश्चापि मासयोर्निवसंति वै॥
त्वष्टा विष्णुर्जामदग्न्यो विश्वामित्रस्तथैव च ॥२०॥

काद्रवेयौ तथा नागौ कंबलाश्वतरावुभौ॥
गंधर्वो धृतराष्ट्रश्च सूर्यवर्चास्तथैव च ॥२१॥

तिलोत्तमा तथा रंभा ब्रह्मापेतश्च राक्षसः॥
यज्ञापेतम्तथैवान्यो विश्यातो राक्षसो त्तमः ॥२२॥

ऋतजित्सत्यजिच्चैव गंधर्वौ समुदाहृतौ॥
तपस्तपस्ययोः सूर्ये वसंति मुनिसत्तमाः ॥२३॥

पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः॥
परिवर्त्तत्यहोरात्रकारणं सविता द्विजाः ॥२४॥

एते देवा वसंत्यर्के द्वौ द्वौ मासौ क्रमेण तु॥
स्थानाभिमानिनो ह्येते गाणा द्वादशसप्तकाः ॥२५॥

सुर्यस्याप्याययंत्येते तेजसा तेज उत्तममा॥
ग्रथितैः स्वैर्वचोभिश्च स्तुवंति ह्यृषयो रविम् ॥२६॥

गंधर्वाप्सरसश्चैव गीतनृत्यैरुपासते॥
ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् ॥२७॥

सर्पा वहंति वै सूर्यं यातुधानास्तु यांति च॥
वालखिल्या नंयत्यस्तं परिवार्योदयाद्रविम् ॥२८॥

एतेषामेव देवानां यथावीर्यं यथातपः॥
यथाधर्मं यथायोगं यथासत्यं यथाबलम् ॥२९॥

तपत्यसौ तश्रा सूर्य एषामिन्द्रस्तु तेजसा॥
इत्येते निवसंतीह द्वौ द्वौ मासौ दिवाकरे ॥३०॥

ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः॥
ग्रामण्यश्च तथा यक्षा यातुधानाश्च मुख्यशः ॥३१॥

एते तपंति वर्षंति भांति वांति सृजंति च॥
भूतानां चशुभं कर्म व्यपोहंति प्रकीर्त्तिताः ॥३२॥

मानवानां शुभं ह्येते हरंते दुरितात्मनाम्॥
दुरितं सुप्रचाराणां व्यपोहंति क्वचि त्क्वचित् ॥३३॥

एते सहैव सूर्येण भ्रमंति दिवासानुगाः॥
वर्षंतश्च तपंतश्च ह्लादयंतश्च वै प्रजाः ॥३४॥

गोपायंति च भूतानि सर्वाणीहामनुक्षयात्॥
स्थानाभिमानिनामेतत्स्थानं मन्वंतरेषु वै ॥३५॥

अतीतानागतानां च वर्त्तंते सांप्रतं च ये॥
एवं वसंति वै सूर्ये सप्तकास्ते चतुर्दश॥
चतुर्दशसु सर्वेषु गणा मन्वंतरेष्विह ॥३६॥

ग्रीष्मे च वर्षासु च मुंचमानो घर्मं हिमं वर्ष दिनं निशां च॥
गच्छत्यसावृतुवशात्परिवृत्तरश्मिर्देवान् पितॄंश्च मनुजांश्च हि तर्पयन्वै ॥३७॥

प्रीणाति देवानमृतेन सूर्यः सोमं सुषुम्णेन च वर्द्धयित्वा॥
शुक्ले तु पूर्णं दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबंति ॥३८॥

पीतं च सोमं हि कलावशिष्टं कृष्णक्षये रश्मिभिरक्षरंतम्॥
सुधामृतं तत्पितरः पिबंति देवाश्च सौम्याश्च तथैव काव्याः ॥३९॥

सूर्येण गोभिश्च समुज्झिताभिरद्भिः पुनश्चैव समुद्धृताभिः॥
वृष्ट्याभिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधं त्वन्नपानैर्जयंति ॥४०॥

तृप्तिश्च शुक्ले सुधया सुराणां पक्षे च कृष्णे सुधया पितणाम्॥
अन्नेन शश्वच्च दधाति मर्त्यान्सुर्यस्तपंस्तान्सुबिभर्त्ति गोभिः ॥४१॥

ह्रियन्हरिस्तैर्हरिभिस्तुरंगमैर्हरत्यथापः किरणैर्हरिद्भिः॥
विसर्गकाले विसृजंश्च ताः पुनर्बिभर्त्ति शश्वत्सविता चराचरम् ॥४२॥

हरिर्हरिद्भिर्ह्रि यते तुरंगमैः पिबत्यथापो हरिभिः सहस्रधा॥
ततः प्रमुंचत्यपि तास्त्वसौ हरिः समूह्यमानो हरिभिस्तुरंगमैः ॥४३॥

इत्येष एकचक्रेण सूर्यस्तूर्णरथेन तु॥
भद्रैस्तैरक्रमैरश्वैः स्पंदने वैदिकक्षयः ॥४४॥

अहोरात्राद्रथेनासावेकचक्रेण वै भ्रमन्॥
सप्तद्वीपसमुद्रांतां सप्तभिः सप्तभिर्हयैः ॥४५॥

छंदोभिरश्वरूपैस्तैर्यतश्चक्रं ततः स्थितैः॥
कामरूपैः सकृद्युक्तैर्वामतस्तैर्मनोजवैः ॥४६॥

हरितैख्ययैः पिंगैरीश्वरैर्ब्रह्मवादिभिः॥
त्र्यशीतिमंडलशतं भ्रमंत्यब्देन ते हयाः ॥४७॥

बाह्यमाभ्यंतरं चैव मंडलं दिवसक्रमात्॥
कल्पादौ संप्र युक्तास्ते वहंत्याभूतसंप्लवात् ॥४८॥

आवृत्ता वालखिल्यैस्ते भ्रमंते रात्र्यहानि तु॥
वचोभिरग्र्यैर्ग्रथितैः स्तूयमानो महर्षिभिः ॥४९॥

सेव्यते गीतनृत्यैश्च गंधर्वैश्चाप्सरोगणैः॥
पतंगैः पतगैरश्वैर्भ्रममाणो दिवस्पतिः ॥५०॥

रथास्त्रचक्रःसोमस्य कुदाभास्तस्य वाजिनः॥
वामदक्षिणतो युक्ता दश तेन चरंत्यसौ ॥५१॥

वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिताः॥
ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत्स्मृते ॥५२॥

त्रिचक्रोभयतोऽश्वश्च विज्ञेयः शशिनो रथः॥
अपां गर्णात्समुत्पन्नो रथः साश्वः ससारथिः ॥५३॥

शतारैश्च त्रिभिश्चक्रैर्युक्तः शुक्लैर्हयोत्तमैः॥
दशभिस्तु कृशैर्दिव्यैरसंगैस्तैर्मनोजवैः ॥५४॥

सकृद्युक्ते रथे तास्मिन्वहंते चायुगक्षयात्॥
संगृहीतरथे तस्मिञ्श्वेतश्चक्षुःश्रवाश्च वै ॥५५॥

अश्वास्तमेकवर्णस्ते वहंते शंखवर्चसः॥
यजुश्चंडमनाश्चैव वृषो वाजी नरो हयः ॥५६॥

अश्वो गविष्णुर्विख्यातो हंसो व्योमो मृगस्तथा॥
इत्येते नामभिः सर्वे दश चंद्रमसो हयाः ॥५७॥

एते चंद्रमसं देवं वहंति सह दीक्षया॥
देवैः परिवृतः सोमः पितृभिश्चैव गच्छति ॥५८॥

सोमस्य शुक्लपक्षादौ भास्करे परतः स्थिरे॥
आपूर्यते परस्यांते सततं दिवसक्रमात् ॥५९॥

देवैः पीततनुं सोममाप्याययति नित्यदा॥
क्षीणं पंचदशाहं तु रश्मिनैकेन भास्करः ॥६०॥

आपूरयन्सुषुम्णेन भागं भागमहःक्रमात्॥
सुषुम्णाप्यायमानस्य शुक्ला वर्द्धंति वै कलाः ॥६१॥

तस्माद्ध्रसंति वै कृष्णे शुक्ले स्वाप्याययंति तम्॥
इत्येवं सूर्यवीर्येण चंद्रश्चाप्यायितस्ततः ॥६२॥

पौर्णमास्यां स दृश्येत शुक्लः संपूर्णमंडलः॥
एवमाप्यायितः सोमः शुक्ल पक्षे दिनक्रमात् ॥६३॥

ततो द्वितीयाप्रभृति बहुलस्य चतुर्द्दशीम्॥
अपां सारमयस्येंदो रसमात्रात्मकस्य तु ॥६४॥

पिबत्यंबुमयं देवा हृष्टाः सौम्यं स्वधामृतम्॥
संभृतं त्वर्द्धमासेन ह्यमृतं सूर्यतेजसा ॥६५॥

भक्षार्थममृतं सोमः पौर्णमास्यामुपासते॥
एकां रात्रिं सुरैः सर्वैः पितृभिः सर्षिभिः सह ॥६६॥

सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य तु॥
प्रक्षीयंते पिदृदेवैः पीयमानाः कलाः क्रमात् ॥६७॥

त्रयश्च त्रिंशतश्चैव त्रयस्त्रिंशत्तथैव च॥
त्रयश्च त्रिसहस्राश्च देवाः सोमं पिबंति वै ॥६८॥

इत्येतैः पीयमानस्य कृष्णा वर्द्धति वै कलाः॥
क्षीयंति तस्माच्छुक्लाश्च कृष्णा आप्याययंति च ॥६९॥

एवं दिनक्रमात्पीते विबुधैस्तु निशाकरे॥
पीत्वार्द्ध मासं गच्छंति चामावास्यां सुरोत्तमाः ॥७०॥

पितरश्चोपतिष्ठंति ह्यमावास्यां निशाकरम्॥
ततः पंचदशेकाले किंचिच्छिष्टे कलात्मके ॥७१॥

अपराह्णे पितृगणा जघन्यं पयुपासते॥
पिबन्ति द्विलवं कालं शिष्टास्तस्य कलास्तु याः ॥७२॥

निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम्॥
तां स्वधां मासतृप्त्यै च पीत्वा गच्छंति तेऽमृतम् ॥७३॥

सूर्यस्तस्मिन्सुषुम्णे यस्तापितस्तेन चंद्रमाः॥
कृष्णपक्षे सुरैस्तद्वत्पीयते वै सुधामयः ॥७४॥

सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा॥
काव्यश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ॥७५॥

संवत्सरास्तु वै काव्याः पंचाब्दा ये द्विचैः स्मृताः॥
सौम्यास्तु ऋतुवो ज्ञेया मासा बर्हिषदः स्मृताः ॥७६॥

अग्निष्वात्तार्त्तवाश्चैव पितृसर्गा हि वै द्विजाः॥
पितृभिः पीयमानस्य पंचदश्यां कला तु वै ॥७७॥

यावत्प्रक्षीयते तस्य भागः पंचदशस्तु यः॥
अमावास्यां तदा तस्य तत आपूर्यते परः ॥७८॥

वृद्धक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृता॥
एवं सूर्यनिमित्तैष क्षयोवृद्धिर्निशाकरे ॥७९॥

ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथान्पुनः॥
तेयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः ॥८०॥

सोपासंगप ताकस्तु सध्वजो मेघनिस्वनः॥
भार्गवस्य रथः श्रीमांस्तेजसा सूर्यसन्निभः ॥८१॥

पृथिवीसंभवैर्युक्तो नानावर्णैर्हयोत्तमैः॥
श्वेतः पिशंगः सारंगो नीलः पीतो विलोहितः ॥८२॥

कृष्णश्च हरितश्चैव पृषतः पृश्रिरेव च॥
दशभिस्तैर्महाभागैरकृशैर्वातरंहसैः ॥८३॥

अष्टाश्वः कांचनः श्रीमान्भौमस्यापि रथोत्तमः॥
असंगैर्लोहितैरश्वैः सर्वगैरग्निसंभवैः ॥८४॥

प्रसर्पति कुमारो वै ऋजुवक्रानुव क्रगैः॥
ततश्चांगिरसो विद्वान्देवाचार्यो बृहस्पतिः ॥८५॥

गौरैरश्वैः कांचनेन स्यंदनेन प्रसर्पति॥
अब्जैस्तु वाजिभिर्दिव्यैरष्टभिर्वातरंहसैः ॥८६॥

नक्षत्रेऽब्दं स तिष्ठन्वै संवेधास्तेन गच्छति॥
ततः शनैश्चरोऽप्यश्वैः सबलैर्व्योमसंभवैः ॥८७॥

कार्ष्णायसं समारुह्य स्यंदनं याति वै शनैः॥
स्वर्भानोश्च तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः ॥८८॥

रथं तमोमयं तस्य सकृद्युक्ता वहं त्युत॥
आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु ॥८९॥

आदित्यमेति सोमश्च पुनः सौरेषु पर्वसु॥
अथ केतुरथस्याश्वा अष्टौ वै वातरंहसः ॥९०॥

पलालधूमवर्णाभा सबला रासभारुणाः॥
एते वाहा ग्रहाणां च ह्युपाख्याता रथैः सह ॥९१॥

सर्वे ध्रुवनिब द्धास्ते प्रवृद्धा वातरश्मिभिः॥
तपंते ब्राम्यमाणास्तु यथायोगं भ्रमंति वै ॥९२॥

वायव्याभिरदृश्याभिः प्रवृद्धा वातरश्मिभिः॥
परिभ्रमंति तद्ब्रद्धांश्चंद्रसुर्यग्रहा दिवि ॥९३॥

भ्रमंतमनुगछंति ध्रुवं ते ज्योतिषां गणाः॥
यथा नह्युदके नौस्तु सलिलेन सहो ह्यते ॥९४॥

तथा देवालया ह्येते ऊह्यंते वातरश्मिभिः॥
सर्प्पमाणा न दृश्यंते व्योम्नि देवगणास्तु ते ॥९५॥

यावत्यश्चैव ताराश्च तावंतो वातरश्मयः॥
सर्वा ध्रुवे निबद्धाश्च भ्रमंत्यो भ्रामयंति ताः ॥९६॥

तैलपीडा यथा चक्रं भ्रमंतो भ्रामयंति ह॥
तथा भ्रमंति ज्योतींषि वातबद्धानि सर्वशः ॥९७॥

अलातचक्रवद्यांति वातचक्रेरितानि तु॥
यतो ज्योतींषि वहते प्रवहस्तेन स स्मृतः ॥९८॥

एवं ध्रुवनिबद्धोऽसौ सर्पते ज्योतिषां गणः॥
सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि ॥९९॥

यदह्ना कुरुते पापं दृष्ट्वा तन्निशिमुञ्चते॥
यावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि ॥१००॥

तावंत्येव तु वर्षाणि जीवताभ्यधिकानि तु॥
साकारः शिशुमारश्च वि५ेयः प्रविभागशः ॥१०१॥

औत्तानपादस्तस्याथ विज्ञेयो ह्यत्तरो हनुः॥
यज्ञः परस्तु विज्ञेयो धर्मो मर्द्धानमाश्रितः ॥१०२॥

हृदि नारायणः साध्यो ह्यश्विनौ पूर्वपादयोः॥
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥१०३॥

शिश्रं संवत्सरस्तस्य मित्रोऽपानं समाश्रितः॥
पुच्छेऽग्निश्च महेंद्रश्च मारीचः कश्यपो ध्रुवः ॥१०४॥

तारकाः शिशुमारस्य नास्तं याति चतुष्टयम्॥
नक्षत्रचन्द्रमूर्याश्च ग्रहास्तारागणैः सह ॥१०५॥

उन्मुखा विमुखाः सर्वे वक्रीभूताः श्रिता दिवि॥
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् ॥१०६॥

परियांतीश्वरश्रेष्ठं मेढीभूतं द्रुवं दिवि॥
अग्नींद्रकश्यपानां तु चरमोऽसौ ध्रुवः स्मृतः ॥१०७॥

एक एव भ्रमत्येष मेरुपर्वतमूर्द्धनि॥
ज्योतिषां चक्रमेतद्धि गदा कर्षन्नवाङ्मुखः॥
मेरुमालोकयत्येष पर्यंते हि प्रदक्षिणम् ॥१०८॥

इति श्रीब्रह्मांडे महाoवायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे ध्रुवचर्याकीर्त्तनं नाम त्रयोविंशतितमोऽध्यायः॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:48.8800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pelagic eggs

  • Zool. जलपृष्ठीय डिंबपेशी 
RANDOM WORD

Did you know?

मकर संक्रांति हिंदू सण असूनही १४ जानेवारीला का साजरा करतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.