TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः ७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः ७
सूत उवाच
तुल्यं युगसहस्रं वै नैशं कालमुपास्य सः ।
शर्वर्यंते प्रकुरुते ब्रह्मा तूत्सर्गकारणात् ॥१॥

ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत् ।
अन्धकारार्णवे तस्मिन्नष्टे स्थावरजंगमे ॥२॥

जलेन समनुप्लाव्य सर्वतः पृथिवीतले ।
प्रविभागेन भूतेषु सत्यमात्रे स्थितेषु वा ॥३॥

निशयामिव खद्योतः प्रावृट्काले ततस्तदा ।
तदा कामेन तरसामन्यामानःस्वयं धिया ॥४॥

सोप्युपायं प्रतिष्ठायां मार्गमाणस्तदा भुवम् ।
ततस्तु सलिले तस्मिन् ज्ञात्वा त्वन्तर्गतो महीम् ॥५॥

अन्धमन्यतमं बुद्धा भूमेरुद्धरणक्षमः ।
चकार तं तु देवोऽथ पूर्वकल्पादिषु स्मृतः ॥६॥

सत्यं रूपं वराहस्य कृत्वाभोऽनुप्रविश्य च ।
अद्भिः संछादितामिच्छन् पृथिवीं स प्रजापतिः ॥७॥

उद्धृत्योर्वीमथ न्यस्ता सापत्यांतामतिन्यसत् ।
सामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च ॥८॥

पृथक्तास्तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् ।
प्राक्सर्गे दह्यमाने तु पुरा संवर्त काग्निना ॥९॥

तेनाग्निना विलीनास्ते पर्वता भुवि सर्वशः ।
शैल्यादेकार्णवे तस्मिन्वायुना ये तु संहिताः ॥१०॥

निषिक्ता यत्र यत्रासंस्तत्रतत्राचलोऽभवत् ।
स्कन्धाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः ॥११॥

गिरयो हि निगीर्णत्वादयनात्तु शिलोच्चयाः ।
तत स्तावासमुद्धृत्य क्षितिमंतर्जलात्प्रभुः ॥१२॥

सप्तसप्त तु वर्षाणि तस्या द्वीपेषु सप्तसु ।
विषमाणि समीकृत्य शिलाभिरभितो गिरीन् ॥१३॥

द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव तु ।
तावंतः पर्वताश्चैव वर्षांते समवस्थिताः ॥१४॥

स्वर्गादौ कांतिविष्टास्ते स्वभावेनैव नान्यथा ।
सप्तद्वीपा समुद्राश्च अन्योन्यस्यानुमंडलम् ॥१५॥

सन्निविष्टाः स्वभावेन समावृत्य परस्परम् ।
भूराद्याश्चतुरो लोकाश्चंद्रादित्यौ ग्रहैः सह ॥१६॥

पूर्ववन्निर्ममे ब्रह्मा स्थावराणीह सर्वशः ।
कल्पस्य चास्य ब्रह्मा चासृजद्यः स्थानिनः सुरान् ॥१७॥

आपोग्निं पृथिवीं वायुमंतरिक्षं दिवं तथा ।
स्वर्गं दिशः समुद्रांश्च नदीः सर्वांस्तु पर्वतान् ॥१८॥

ओषधीनामात्मनश्च आत्मनो वृक्षवीरुधाम् ।
लवकाष्ठाः कलाश्चैव मुहुर्त्तान्संधिरात्र्यहान् ॥१९॥

अर्द्धमासांश्च मासांश्च अयनाब्दान् युगानि च ।
स्थानाभिमानिनश्चैव स्थानानिच पृथक्पृथक् ॥२०॥

स्थानात्मनस्तु सृष्ट्वा च युगावस्था विनिर्ममे ।
कृतं त्रेता द्वापरं च तिष्यं चैव तथा युगम् ॥२१॥

कल्पस्यादौ कृतयुगे प्रथमं सोऽसृजत्प्रजाः ।
प्रागुक्ताश्च मया तुभ्यं पूर्व्वे कल्पे प्रजास्तु ताः ॥२२॥

तस्मिन्संवर्त माने तु कल्पे दग्धास्तदग्निना ।
अप्राप्तायास्तपोलोकं पृथिव्यां याः समासत ॥२३॥

आवर्तन्ते पुनः सर्गे वीक्षार्थं ता भवन्ति हि ।
वीक्ष्यार्थं ताः स्थितास्तत्र पुनः सर्गस्य कारणात् ॥२४॥

ततस्ताः सृज्यमानास्तु सन्तानार्थं भवन्ति हि ।
धर्म्मार्थ काममोक्षाणामिह ताः साधिताः स्मृताः ॥२५॥

देवाश्च पितरश्चैव क्रमशो मानवास्तथा ।
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्पुरा ॥२६॥

ब्राह्मणो मनवस्ते वै सिद्धात्मानो भवन्ति हि ।
आसंगद्वेषयुक्तेन कर्मणा ते दिवं गताः ॥२७॥

आवर्तमानास्ते देहे संभवन्ति युगे युगे ।
स्वकर्म्मफलशेषेण ख्याताश्चैव तदात्मकाः ॥२८॥

संभवन्ति जने लोकाः कल्पागमनिबन्धनाः ।
अप्सु यः कारणं तेषां बोधयन्कर्म्मणा तु सः ॥२९॥

कर्म्मभिस्तैस्तु जायन्ते जनलोकाच्छुभाशुभैः ।
गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु ॥३०॥

देवाद्याः स्थावरांतास्तु आपद्यन्ते परस्परम् ।
तेषां मेध्यानि कर्म्माणि प्रायशः प्रतिपेदिरे ॥३१॥

तस्माद्यन्नांमरूपाणि तान्येव प्रतिपेदिरे ।
पुनः पुनस्ते कल्पेषु जायन्ते नामरूपेणः ॥३२॥

ततः सर्गो ह्युपसृष्टिं सिसृक्षोर्ब्रह्मणस्तु वै ।
ताः प्रजा ध्यायतस्तस्य सत्याभिध्यायिनस्तदा ॥३३॥

मिथुनानां सहस्रं तु मुखात्समभवत्किल ।
जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुतेजसः ॥३४॥

चक्षुषोऽन्यत्सहस्रं तु मिथुनानां ससर्ज्ज ह ।
ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः ॥३५॥

सहस्रमन्यदसृजद्बाहूनामसतां पुनः ।
रजस्तमोभ्यासुद्धिक्ता गृहशीलास्ततः स्मृताः ॥३६॥

आयुषोंऽते प्रसूयंते मिथुनान्येव वासकृत् ।
कूटकाकूटकाश्चैव उत्पद्यंते मुमूर्षुणाम् ॥३७॥

कुतः कुलमथोत्पाद्य ताः शरीराणि तत्यजुः ।
ततः प्रभृति कल्पेऽस्मिन्मैथुनानां च संभवः ॥३८॥

ध्यानेन मनसा तासां प्रजानां जायते कृते ।
शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलक्षणम् ॥३९॥

इत्येवं मानसैर्भावैः प्रेष्ठं तिष्ठंति चाप्रजाः ।
तथान्वयास्तु संभूता यैरिदं पूरितं जगत् ॥४०॥

सरित्सरःसमुद्रांश्च सेवंते पर्वतानपि ।
तदा ता ह्यल्पसंतोषायुद्धे तस्मिंश्चरंति वै ॥४१॥

पृथ्वी रसवती नाम आहारं व्याहरंति च ।
ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमिच्छतः ॥४२॥

तुल्यमायुः सुखं रूपं तासामासीत्कृते युगे ।
धर्माधर्मौं तदा न स्तः कल्पादौ प्रथमे युगे ॥४३॥

स्वेनस्वेनाधि कारेण जज्ञिरे तु युगेयुगे ।
चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया ॥४४॥

आदौ कृतयुगं प्राहुः संध्यांशौ च चतुःशतौ ।
ततः सहस्रशस्तास्तु प्रजासु प्रथितास्विह ॥४५॥

न तासां प्रतिघातोऽस्ति न द्वंद्वं नापि च क्रमः ।
पर्वतोदधिवासिन्यो ह्यनिकेताश्रयास्तु ताः ॥४६॥

विशोकाः सत्त्वबहुला एकांतसुखिनः प्रजाः ।
ताश्शश्वत्कामचरिण्यो नित्यं मुदितमानसाः ॥४७॥

पशवः पक्षिणश्चैव न तदासन्सरीसृपाः ।
नोद्विजा नोत्कटाश्चैव धर्मस्य प्रक्रिया तु सा ॥४८॥

समूल फलपुष्पाणि वर्त्तनाय त्वशेषतः ।
सर्वैकान्तसुखः कालो नात्यर्थं ह्युष्णशीतलः ॥४९॥

मनोऽभिलषितः काम स्तासां सर्वत्र सर्वदा ।
उत्तिष्ठंति पृथिव्यां वै तेषां ध्यानै रसातलात् ॥५०॥

बलवर्णकरी तेषां जरारोगप्रणाशिनी ।
असंस्कार्यैः शरीरैस्तु प्रजास्ताः स्थिरयौवनाः ॥५१॥

तासां विना तु संकल्पाज्जायंते सिथुनात्प्रजाः ।
समं जन्म च रूपं च प्रीयंते चैव ताः समाः ॥५२॥

तदा सत्यमलोभश्च संतुष्टिश्च च सुखं दमः ।
निर्विशेषाश्च ताः सर्वा रूपायुःशिल्पचेष्टितैः ॥५३॥

अबुद्धिपूर्विका पृत्तिः प्रजानां भवति स्वयम् ।
अप्रवृत्तिः कृतद्वारे कर्मणः शुभपापयोः ॥५४॥

वर्णाश्रमव्यवस्थाश्च न तदासन्न तत्कराः ।
अनिच्छाद्वेषयुक्तास्ता वर्त्तयन्ति परस्परम् ॥५५॥

तुल्यरूपायुषः सर्वा अधमोत्तमवर्जिताः ।
सुखप्राया विशोकाश्च उत्पद्यंते कृते युगे ॥५६॥

लाभालाभौ न वा स्यातां मित्रामित्रौ प्रियाप्रियौ ।
मनसा विषयस्तासां निरीहाणां प्रवर्तते ॥५७॥

नाति हिंसति वान्योन्यं नानुगृङ्णंति वै तदा ॥५८॥

ज्ञानं परं कृतयुगे त्रेतायां यज्ञ उच्यते ।
पवृत्तं द्वापरे युद्धं स्तेयमेव कलौ युगे ॥५९॥

सत्त्वं कृतं रजस्त्रेता द्वापरं तु रजस्तमः ।
कलिस्तमस्तु विज्ञेयं गुणवृत्तं गुमेषु तत् ॥६०॥

कालः कृतयुगे त्वेष तस्य सन्ध्यां निबोधत ।
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥६१॥

साध्यांशौ तस्य दिव्यानि शतान्यष्टौ तु संख्यया ।
चत्वार्यैव सहस्राणि वर्षाणां मोनुषाणि तु ॥६२॥

तदा तासु भवंत्याशु नोत्क्रोशाच्च विपर्ययाः ।
ततः कृत्युगे तस्मिन् ससंध्यांशे गते तदा ॥६३॥

पादावशिष्टो भवति युगधर्मस्तु सर्वशः ।
सन्ध्यायास्तु व्यतीतायाः सांध्यः कालो युगस्य सः ॥६४॥

पादमिश्रावशिष्टेन संध्याधर्मे पुनः पुनः ।
एवं कृतयुगे तस्मिन्निश्शेषेंतर्दधे तदा ॥६५॥

तस्यां च सन्धौ नष्टायां मानसी चाभवत्प्रजा ।
सिद्धिरन्ययुगे तस्मिंस्त्रेताख्येऽनंतरे कृतात् ॥६६॥

सर्गादौ या मयाष्टौ तु मानस्यो वै प्रकीर्तिताः ।
अष्टौ ताः क्रमयोगेन सिद्धयो यांति संक्षयम् ॥६७॥

कल्पादौ मानसी ह्येका सिद्धिर्भवति सा कृते ।
मन्वंतरेषु सर्वेषु चतुर्युगविभागशः ॥६८॥

वर्णाश्रमाचारकृतः कर्मसिद्ध्युद्भवः कृतः ।
संध्या कृतस्य पादेन संक्षेपेण वशात्ततः ॥६९॥

कृतसंध्यांशका ह्येते त्रीनादाय परस्परम् ।
हीयंते युगधर्मास्ते तपःश्रुतबलायुषः ॥७०॥

कृते कृताशेऽतीते तु वभूव तदनन्तरम् ।
त्रेतायुगसमुत्पत्तिः सांशा च ऋषिसत्तमाः ॥७१॥

तस्मिन् क्षीणे कृतांशे वै तासु शिष्टासु सप्तसु ।
कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रसुखे तदा ॥७२॥

प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा ।
तस्यां सिद्धौ प्रनष्टायामन्या सिद्धिरजायत ॥७३॥

अपांशौ तौ प्रतिगतौ तदा मेघात्माना तु वै ।
मेघेभ्यः स्तनयितृभ्यः प्रवृत्तं पृष्टिसर्जनम् ॥७४॥

सकृदेव तया वृष्ट्या संसिद्धे पृषिवीतले ।
प्रजा आसंस्ततस्तासां वृक्षश्च गृह संज्ञिताः ॥७५॥

सर्वः प्रत्युपभोगस्तु तासां तेभ्यो व्यजायत ।
वर्त्तयंतेस्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ॥७६॥

ततः कालेन महता तासामेव विपर्ययात् ।
संगलोलात्मको भावस्तदा ह्याकस्मिकोऽभवत् ॥७७॥

यत्तद्भवति नारीणां जीवितांते तदार्तवम् ।
तदा तद्वै न भवति पुनर्युगबलेन तु ॥७८॥

तासां पुनः प्रवृत्तं तन्मासिमासि तदार्तवम् ।
ततस्तेनैव योगेन वर्त्तते मैथुनं तदा ॥७९॥

तेषां तत्का लभावित्वान्मासिमास्युपगच्छताम् ।
अकाले चार्तवोत्पत्त्या गर्भोत्पत्तिस्तदाभवत् ॥८०॥

विपर्ययेण तेषां तु तेन तत्काल भाविता ।
प्रणश्यंति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ॥८१॥

ततस्तेषु प्रनष्टेषु विभ्रांता व्याकुलेन्द्रियाः ।
अभिध्यायंति ताः सिद्धिं सत्याभिध्यायिनस्तदा ॥८२॥

प्रादुर्बभूवुस्तेषां तु वृक्षास्ते गृहसंज्ञिताः ।
वस्त्राणि च प्रसूयंते फलान्याभरणानि च ॥८३॥

तथैव जायते तेषां गन्धर्वाणां रसान्वितम् ।
आन्वीक्षिकं महावीर्यं पुटके पुटके मधु ॥८४॥

तेन ता वर्त्तयन्ति स्ममुखे त्रेतायुगस्य वै ।
त्दृष्टपुष्टास्तया सिद्ध्या प्रजास्ता विगतज्वराः ॥८५॥

ततः कालांतरेप्येवं पुनर्लोभावृताः प्रजाः ।
वृक्षांस्ताः पर्यगृह्णंत मधु वा माक्षिकं बलात् ॥८६॥

तासां तेनापचारेण पुनर्लोभकृतेन वै ।
प्रनष्टा प्रभुणा सार्द्धं कल्पवृक्षाः क्वचित्क्वचित् ॥८७॥

तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा ।
वर्त्तंते चानया तासां द्वंद्वान्यत्युत्थितानि तु ॥८८॥

शीतवातातपास्तीव्रास्ततस्ता दुःखिता भृशम् ।
द्वंद्वैस्तैः पीड्यमानास्तु चुक्रुशुरावृणानि वा ॥८९॥

कृत्वा द्वन्द्वप्रतीयातं निकेतानि विचेतसः ।
पूर्व निकामचारास्ते ह्यनिकेता यथाभवन् ॥९०॥

यथायोगं यथाप्रीति निकेतेष्ववसन्पुरा ।
मधुधुन्वत्सु निष्ठेषु पर्वतेषु नदीषु च ॥९१॥

संश्रयंति च दुर्गाणि धन्वपावर्तमौदकम् ।
यथाजोषं यथाकामं समेषु विषमेषु च ॥९२॥

आरब्धास्तान्निकेतान्वै कर्तुं शीतोष्णवारणात् ।
ततस्तान्निर्मयामासुः खेटानि च पुराणि च ॥९३॥

ग्रामांश्चैव यथाभागं तथैव नगराणि च ।
तेषामायामविष्कंभाः सन्निवेशांतराणि च ॥९४॥

चक्रुस्तदा यथाज्ञानं मीत्वामीत्वात्मनोगुलैः ।
मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे ॥९५॥

ययांगुलप्रदेशांस्त्रीन्हस्तः किष्कुं धनूंषि च ।
दश त्वंगुलपर्वाणि प्रादेश इति संज्ञितः ॥९६॥

अंगुष्ठस्य प्रदेशिन्या व्यासप्रादेश उच्यते ।
तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ॥९७॥

कनिष्ठया वितस्तिस्तु द्वादशांगुल उच्यते ।
रत्निरंगुलपर्वाणि संख्यया त्वेकविशतिः ॥९८॥

चत्वारि विंशतिश्चैव हस्तः स्यादंगुलानि तु ।
किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदंगुलः ॥९९॥

चतुर्हस्तो धनुर्द्दंडो नालिका युगमेव च ।
धनुःसहस्त्रे द्वे तत्र गव्यूतिस्तौः कृता तदा ॥१००॥

अष्टौ धनुःसहस्राणि योजनं तैर्विभावितम् ।
एतेन योजनेनेह सन्निवेशास्ततः कृताः ॥१०१॥

चतुर्णामथ दुर्गाणां स्वयमुत्थानि त्रीणि च ।
चतुर्थ कृतिमं दुग तस्य वक्ष्यामि निर्णयम् ॥१०२॥

सोत्सेधरंध्रप्राकारं सर्वतः खातकावृतम् ।
रुचकः प्रतिकद्वारं कुमारीपुरमेव च ॥१०३॥

द्विहस्तः स्रोतसां श्रेष्ठं कुमारीपुरमञ्चतान् ।
हस्तस्रोतो दशश्रेष्ठो नवहस्तोष्ट एव च ॥१०४॥

खेटानां च पुराणां च ग्रामाणां चैव सर्वशः ।
त्रिविधानां च दुर्गाणां पर्वतोदकधन्विनाम् ॥१०५॥

कृत्रिमाणां च दुर्गाणां विष्कम्भायाममेव च ।
योजनादर्द्धविष्कम्भमष्टभागाधिकायतम् ॥१०६॥

परमार्द्धार्द्धमायामं प्रागुदक्प्लवनं पुरम् ।
छिन्नकर्णविकर्णं च व्यजनाकृतिसंस्थितम् ॥१०७॥

वृत्तं वज्रं च दीर्घ च नगरं न प्रशस्यते ।
चतुरस्रयुतं दिव्यं प्रशस्तं तैः पुरं कृतम् ॥१०८॥

चतुर्विंशत्परं ह्रस्वं वास्तु वाष्टशतं परम् ।
अत्र मध्यं प्रशंसंति ह्रस्वं काष्ठविवर्ज्जितम् ॥१०९॥

अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम् ।
नगरादर्द्धविषकंभः खेटं पानं तदूर्द्धतः ॥११०॥

नगराद्योजनं खेटं खेटाद्गामोर्द्धयोजनम् ।
द्विक्रोशः परमा सीमा क्षेत्रसीमा चतुर्द्धनुः ॥१११॥

विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः ।
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥११२॥

धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः ।
नृवाजिरथनागानामसंबाधस्तु संचरः ॥११३॥

धनूंषि चापि चत्वारि शाखारथ्याश्च तैर्मिताः ।
त्रिका रथ्योपरथ्याः स्युर्द्विका श्चाप्युपरत्यकाः ॥११४॥

जंघापथश्चतुष्पादस्त्रिपदं च गृहांतरम् ।
धृतिमार्गस्तूर्द्धषष्ठं क्रमशः पदिकः स्मृतः ॥११५॥

अवस्कारपरीवारः पादमात्रं समंततः ।
कृतेषु तेषु स्थानेषु पुनर्गेहगृहाणि वै ॥११६॥

यथा ते पूर्वमासंश्च वृक्षास्तु गृह संस्थिताः ।
तथा कर्तुं समारब्धाश्चिंतयित्वा पुनः पुनः ॥११७॥

वृक्षस्यार्वाग्गताः शाखा इतश्चैवापरा गताः ।
अत ऊर्द्ध गताश्चान्या एवं तिर्यग्गताः परा ॥११८॥

बुद्ध्यान्विष्य यथान्यायं वृक्षशाखा गता यथा ।
यथा कृतास्तु तैः शाखास्त स्माच्छालास्तु ताः स्मृताः ॥११९॥

एवं प्रसिद्धाः शाखाभ्यः शालोश्चैव गृहाणि च ।
तस्मात्ताश्च स्मृताः शालाः शालात्वं तासु तत्स्मृतम् ॥१२०॥

प्रसीदंति यतस्तेषु ततः प्रासादसंज्ञितः ।
तस्माद्गृहाणि शालाश्च प्रासादाश्चैव संज्ञिता ॥१२१॥

कृत्वा द्वंद्वाभिघातास्तान्त्वार्तोपायमचिंतयान् ।
नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा ॥१२२॥

विषादव्याकुलास्ता वै प्रजाः सृष्टास्तु दर्शिताः ।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे तदा ॥१२३॥

सर्वार्थसाधका ह्यन्या वृष्टिस्तासां निकामतः ।
तासां वृष्ट्युदकानीह यानि मिष्टगतानि च ॥१२४॥

एवं नयः प्रवृत्तस्तु द्वितीये वृष्टिसर्जने ।
ये परस्तादपां स्तोकाः संपाताः पुथिवीतले ॥१२५॥

अपां भूमेस्तु संयोगादोषध्यस्तास्तदाभवन् ।
पुष्पमूलफलिन्यस्तु ओषध्यस्ता हि जज्ञिरे ॥१२६॥

अफालकृष्टाश्चानुप्ता ग्राभ्यारम्याश्चतुर्द्दश ।
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे ॥१२७॥

प्रादुर्भूतास्तु त्रेतायां मायायामौषधस्य वा ।
तदौषधेन वर्तंते प्रजास्त्रेता मुखे तदा ॥१२८॥

ततः पुनरभूत्तासां रागो लोभस्तु सर्वदा ।
अवश्यभाविनार्थेन त्रेतायुगवशेन च ॥१२९॥

ततस्ते पर्यगृह्णंस्तु नदीक्षेत्राणि पर्वतान् ।
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥१३०॥

सिद्धात्मानस्तु ये पूर्वं व्याख्याता वः कृते मया ।
ब्रह्मणो मानसास्ते वै उत्पन्ना ये जनादिह ॥१३१॥

शांता ये शुष्मिणश्चैव कर्मिणो दुःखितास्तथा ।
तत आवर्त्तमानास्ते त्रेतायां जज्ञिरे पुनः ॥१३२॥

ब्राह्मणाः क्षत्रिया वैश्याःशूद्रा द्रोहजनास्तथा ।
भाविताः पूर्वजातीषु ख्यात्या ते शुभपापयोः ॥१३३॥

ततस्ते प्रबला ये तु सत्यशीला अहिंसकाः ।
वीतलोभा जितात्मानो निवसंति स्मृतेषु वै ॥१३४॥

परिग्रहं न कुर्वंति वदंतस्तु उपस्थिताः ।
तेषां कर्माणि कुर्वंति तेभ्यश्चैवाबलाश्च ये ॥१३५॥

परिचर्यासु वर्त्तन्ते तेभ्यश्चान्येऽल्पतेजसः ।
एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम् ॥१३६॥

तेन दोषेण वै शांता ओषध्यो नितरां तदा ।
प्रनष्टा गृह्यमाणा वै मुष्टिभ्यां सिकता यथा ॥१३७॥

अथास्य तु युगबलाद्गाम्यारण्याश्चतुर्द्दश ।
फलैर्गृह्णंति पुष्पैश्च तथा मूलैश्च ताः पुनः ॥१३८॥

ततस्तासु प्रनष्टासु विभ्रांतास्ताः प्रजास्तदा ।
क्षुधाविष्टास्तदा सर्वा जग्मुस्ता वै स्वयम्भुवम् ॥१३९॥

वृत्त्यर्थमभिलिप्संत्यो ह्यादौ त्रेतायुगस्य ताः ।
ब्रह्मा स्वयंभूर्भगवान् ज्ञात्वा तासां मनीषितम् ॥१४०॥

पुष्टिप्रत्यक्षदृष्टेन दर्शनेन विचार्य सः ।
ग्रस्ताः पृथिव्या त्वोषध्यो ज्ञात्वा प्रत्यरूहत्पुनः ॥१४१॥

कृत्वा वत्सं समेरुं तु दुदोह पृथिवीमिमाम् ।
दुग्धेयं गौस्तदा तेन बीजानि वसुधातले ॥१४२॥

जज्ञिरे तानि बीजानि ग्रामारण्यास्तु ताः प्रभुः ।
ओषध्यः फलपाकाताः क्षणसप्तवशास्तु ताः ॥१४३॥

व्रीहयश्च यवाश्चैव गोधूमाश्चणकास्तिलाः ।
प्रियंगव उदारास्ते कोरदुष्टाः सवामकाः ॥१४४॥

माषा मुद्गा मसूरास्तु नीवाराः सकुलत्थकाः ।
हरिकाश्चरकाश्चैव गमः सप्तदश स्मृताः ॥१४५॥

इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः ।
श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः ॥१४६॥

कुरुविंदो वेणुयवास्ता मातीर्काटकाः स्मृताः ।
ग्रामारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ॥१४७॥

उत्पन्नाः प्रथमस्यैता आदौ त्रेतायुगस्य ह ।
अफालकृष्टास्ताः सर्वा ग्राम्यारण्यश्चतुर्द्दश ॥१४८॥

वृक्षगुल्मलतावल्ल्यो वीरुधस्तृणजातयः ।
मूलैः फलैश्च रोहैश्चगृह्णन्पुष्टाश्च यत्फलम् ॥१४९॥

पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयंभुवा ।
ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह ॥१५०॥

यदा प्रसृष्टा ओषध्यो न प्रथंतीह याः पुनः ।
ततस्तासां च पृत्त्यर्थै वार्तोपायं चकार ह ॥१५१॥

तासां स्वयंभूर्भगवान् हस्तसिद्धिं स्वकर्मजाम् ।
ततः प्रभृति चौषध्यः कृष्टपच्यास्तु जज्ञिरे ॥१५२॥

संसिद्धकायो वार्तायां ततस्तासां प्रजापतिः ।
मर्यादां स्थापयामास ययारक्षत्परस्परम् ॥१५३॥

ये वै परिग्रहीतारस्तासामासन्बलीयसः ।
इतरेषां कृतत्राणान् स्थापयामास क्षत्रियान् ॥१५४॥

उपतिष्ठंति तावंतो यावन्तो निर्मितास्तथा ।
सत्यं बूत यथाभूतं ध्रुवं वो ब्रह्मणास्तु ताः ॥१५५॥

ये चान्ये ह्यबलास्तेषां संरक्षाकर्म्मणि स्थिताः ।
क्रीतानि नाशयंति स्म पृथिव्यां ते व्यवस्थिताः ॥१५६॥

वैश्यानित्येव तानाहुः कीनाशान्वृत्तिसाधकान् ।
सेवंतश्च द्रवंतश्च परिचर्यासु ये रताः ॥१५७॥

निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीच्च सः ।
तेषां कर्माणि धर्मांश्च ब्रह्मा तु व्यदधात्प्रभुः ॥१५८॥

संस्थित्यां तु कृतायां हि यातुर्वर्ण्यस्य तेन वै ।
पुनः प्रजास्तु ता मोहाद्धर्म्मं तं नान्वपालयन् ॥१५९॥

वर्णधर्मैश्च जीवंत्यो व्यरुद्ध्यंत परस्परम् ।
ब्रह्मा बुद्धा तु तत्सर्वं याथातथ्येन स प्रभुः ॥१६०॥

क्षत्रियाणां बलं दंडं युद्धमाजीव्यमादिशत् ।
याजनाध्यापने ब्रह्मा तथा दानप्रतिग्रहम् ॥१६१॥

ब्राह्मणानां विभुस्तेषां कर्माण्येता न्यथादिशत् ।
पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ ॥१६२॥

शिल्पाजीवभृतां चैव शूद्राणां व्यदधात्पुनः ।
सामान्यानि च कर्माणि ब्रह्मक्षत्रविशां पुनः ॥१६३॥

यजनाध्यापने दानं सामान्यानीतरेषु च ।
कर्माजीवं तु वै दत्त्वा तेषामिह परस्परम् ॥१६४॥

तेषां लोकांतरे मूर्ध्नि स्थानानि विदधे पुनः ।
प्राजापत्यं द्विजातीनां स्मृतं स्थानं क्रियावताम् ॥१६५॥

स्थानमैद्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ।
वैश्यानां मारुतं स्थानं स्वस्वकर्मोपजीविनाम् ॥१६६॥

गांधर्वं शूद्रजातीनां परिचर्ये च तिष्ठताम् ।
स्थानान्येतानि वर्णानां योग्याचारवतां सताम् ॥१६७॥

संस्थित्यां सुकृतायां वै चातुर्वर्ण्यस्य तस्य तत् ।
वर्णास्तु दंडभयतः स्वेस्वे वर्ण्ये व्यवस्थिताः ।
ततः स्थितेषु वर्णेषु स्थापयामास ह्याश्रमान् ॥१६८॥

गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा ।
आश्रमाश्चतुरो ह्येतान्पूर्ववत्स्थापयन्प्रभुः ॥१६९॥

वर्णकर्माणि ये केचित्तेषामिह चतुर्भवः ।
कृतकर्म्म कृतावासा आश्रमादुपभुञ्जते ॥१७०॥

ब्रह्मा तान्स्थापयामास आश्रमान् भ्रामतामतः ।
निर्द्दिदेश ततस्तेषां ब्रह्मा धर्मान्प्रभा षते ॥१७१॥

प्रस्थानानि तु तेषां च यमान्सनियमांस्तथा ।
चतुर्वर्णात्मकः पूर्वं गृहस्थस्याश्रमः स्थितः ॥१७२॥

त्रयाणा माश्रमाणां च वृत्तियोनीति चैव हि ।
यथाक्रमं च वक्ष्यामि व्रतैश्च नियमैस्तथा ॥१७३॥

दाराग्नयश्चातिथय इष्टाः श्राद्धक्रियाः प्रजाः ।
इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः ॥१७४॥

ढंडी च मेखली चैव अधःशायी तथाजिनी ।
गुरुशुश्रूषणं भैक्ष्यंविद्यार्थी ब्रह्मचारिणः ॥१७५॥

चीरपत्राजिनानि स्युर्वनमूलफलौषधैः ।
उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम् ॥१७६॥

विपन्नमुसले भैक्ष्यमास्तेयं शौचमेव च ।
अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा ॥१७७॥

श्रवणं गुरुशुश्रूषा सत्यं च दशमं स्मृतम् ।
दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभूवा ॥१७८॥

भिक्षोर्व्रतानि पंचात्र भैक्ष्यवेदव्रतानि च ।
तेषां स्थानान्यशुष्मिं च संस्थिताना मचष्ट सः ॥१७९॥

अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥१८०॥

सप्तर्षीणा तु यत्स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणःक्षयम् ॥१८१॥

योगिनामकृतं स्थानं तानाजित्बा न विद्यते ।
स्थानान्याश्रमिणस्तानि ब्रह्मस्थानस्थितानि तु ॥१८२॥

चत्वार एव पंथानो देवयानानि निर्मिताः ।
पंथानः पितृयानास्तु समृताश्चत्वार एव ते ॥१८३॥

ब्रह्मणां लोकतन्त्रेण आद्ये मन्वन्तरे पुरा ।
पंथानो देवयाना ये तेषां द्वारं रंविः स्मृतः ।
तथैव पितृयानानां चन्द्रमा द्वारमुच्यते ॥१८४॥

एवं वर्णाश्रमाणां च प्रविभागे कृते तदा ।
यदा प्रजा ना वर्द्धंत वर्णधर्मसमासिकाः ॥१८५॥

ततोऽन्यां मानसीं स्वां वै त्रेतामध्येऽसृजत्प्रजाः ।
आत्मनस्तु शरीरेभ्यस्तुल्याश्चैवात्मना तु ताः ॥१८६॥

तस्मिस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु ।
ततोऽन्यां मानसीं सोऽथ प्रजाः स्रष्टुं प्रचक्रमे ॥१८७॥

ततः सत्त्वरजोद्रिक्ताः प्रजाः सह्यसृजत्प्रभुः ।
धर्मार्थकाममोक्षाणां वार्त्तानां साधकाश्च याः ॥१८८॥

देवाश्च पितरश्चैव ऋषयो मनवस्तथा ।
युगानुरूपा धर्मेण यैरिमा वर्द्धिताः प्रजाः ॥१८९॥

उपस्थिते तदा तस्मिन् सृष्टिवर्गे स्वयंभुवः ।
अभिध्याय प्रजा ब्रह्मा नानावीर्याः स्वमानसीः ॥१९०॥

पूर्वोक्ता या मया तुभ्यं जनानीकं समाश्रिताः ।
कल्पेऽतीते पुराण्यासीद्देवाद्यास्तु प्रजा इह ॥१९१॥

ध्यायतस्तस्य तानीह संभूत्यर्थमुपस्तिताः ।
मन्वंतरक्रमेणेह कनिष्ठाः प्रथमेन ताः ॥१९२॥

ख्यातास्तु वंश्यैरेतैस्तु पूर्वं यैरिह भाविताः ।
कुशलाकुशलैः कंदैरक्षीणैस्तैस्तदा युताः ॥१९३॥

तत्कर्मफलदोषेण ह्युपबाधाः प्रजज्ञिरे ।
देवासुरपितॄंश्चैव यक्षैर्गन्धर्वमानुषैः ॥१९४॥

राक्षसैस्तु पिशाचैस्तैः पशुपक्षिसरीसृपैः ।
वृक्षनारककीटाद्यैस्तैस्तैः सर्वैरुपस्थिताः ।
आहारार्थं प्रजानां वै विदात्मानो विनिर्ममे ॥१९५॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे लोकज्ञान वर्णनं नाम सप्तमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:48.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

branch manager

  • शाखा व्यवस्थापक 
  • शाखा प्रबंधक 
  • शाखा व्यवस्थापक 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.