TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः ३४

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः ३४
वायुरुवाच॥
ऋषयस्तद्वचः श्रुत्वा सूतमाहुस्तदुत्तरम्॥
कथं वेदाः पुनर्व्यस्तास्तन्नो ब्रूहि महामते ॥१॥

सूत उवाच॥
द्वापरे तु पुरावृत्ते मनोः स्वायंभुवांतरे॥
ब्रह्मा मनुमुवाचेदं रक्षवेदं महामते ॥२॥

परिवृत्तं युगं तात स्वल्पवीर्या द्विजातयः॥
संवृता युगदोषेण सर्वे चैव यथाक्रमम् ॥३॥

तस्य मानं युगवशादल्पं चैव हि दृश्यते॥
दशसाहस्रभागेन ह्यवशिष्टं कृतोदितम् ॥४॥

वाय तेजो बलं चाल्पं सर्वं चैव प्रणश्यति॥
वेदक्रिया हि कार्याः स्युर्माभूद्वेदविनाशनम् ॥५॥

वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति॥
यज्ञे नष्टे वेदनाशस्ततः सर्वं प्रणश्यति ॥६॥

आद्यो वेदश्च तुष्पादः शतसाहस्रसंमितः॥
पुनर्दशगुणः कृष्णो यज्ञो वै सर्वकामधुक् ॥७॥

एवमुक्तस्तथेत्युक्त्वा मनुर्लौकहिते रतः॥
वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत्प्रभुः ॥८॥

ब्रह्मणो वचनात्तात लोकानां हितकाम्यया॥
तदहं वर्त्तमानेन युष्माकं वेदकल्पनम् ॥९॥

मन्वंतरेण वक्ष्यमि व्यतीतानां प्रकल्पनम्॥
प्रत्यक्षेण वरोक्षंवै तन्निबोधत सत्तमाः ॥१०॥

अस्मिन्युगे तदा व्यासः पाराशर्यः परंतपः॥
द्वैपायन इति ख्यातो विष्णोरंशः सनातनः ॥११॥

ब्रह्मणा चोदितः सोऽस्मिन् वेदं वक्तुं प्रचक्रमे॥
अथ शिष्यान्सजग्राह चतुरो वेदकारणात् ॥१२॥

जैमिनिं च सुमन्तुं च वैशंपायनमेव च॥
चतुर्थं पैलमेतेषां पंचमं लोमहर्षणम् ॥१३॥

ऋग्वेदश्रावकं पैलमग्रहीद्विधिवद्द्विजाः॥
यजुर्वेदप्रवक्तारं वैशंपायनमेव च ॥१४॥

जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत॥
तथैवाथ र्ववेदस्य सुमंतुमृषिसत्तमम् ॥१५॥

इतिहासपुराणस्य कलपवाक्यस्य चैव हि॥
मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥१६॥

एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत्॥
चातुर्होत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ॥१७॥

आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च॥
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥१८॥

ततः स ऋच उद्धृत्य ऋग्वेदं समकल्पयत्॥
होतृकं कल्पयत्तेन यजुर्वेदं जगत्पतिः ॥१९॥

सामभिः सामवेदं च तेनौद्गात्रमकल्पयत्॥
रा५स्त्वथर्ववेदेन सर्वकर्माण्यकारयत् ॥२०॥

आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पजोक्तिभिः॥
पुरामसंहितां चक्रे पुराणार्थविशारदः ॥२१॥

यच्छिष्टं तु यजुर्वेदे तेन य५मयुंजत॥
यजनात्स यजुर्वेद इति शास्त्रविनिश्चयः ॥२२॥

पादानामुद्धतत्वाच्च यजूंषि विषमाणि च॥
शतेनोद्धतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः ॥२३॥

प्रयुज्यते ह्यश्वमेधस्तेन वा पुष्यते तु सः॥
ऋचो गृहीत्वा पैलस्तु व्यभजत्तु द्विधा पुनः ॥२४॥

द्वे कृत्वा संहिते चैव शिष्याभ्या मददाद्विबुः॥
इंद्रप्रमत्तये चैकां द्वितीयां बाष्कलाय च ॥२५॥

चतस्रः संहिताः कृत्वा बाष्कलो द्विजसत्तमः॥
शिष्यानध्यापया मास शुश्रुषाभिरतान्हितान् ॥२६॥

बोध्यां तु प्रथमां शाखां द्वितीयामग्निमातरम्॥
पाराशरीं तृतीयां तु या५वल्क्यामथापराम् ॥२७॥

इंद्रप्रमतिरेकां तु संहितामृषिसत्तमः॥
अध्यापयन्महाभागं मांडूकेयं यशस्विनम् ॥२८॥

स्त्यस्रवसमग्र्यं तु पुत्रं स तु महायशाः॥
सत्यस्रवाः सत्यहितं पुत्रमध्यापयद्विभुः ॥२९॥

सोऽपि सत्यहितः पुत्रं पुनरध्यापयद्द्विजाः॥
सत्यश्रियं महात्मानं सत्य धर्मपरायणम् ॥३०॥

अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः॥
सत्यश्रियाश्च विद्वांसः शास्त्रग्रहणतत्पराः ॥३१॥

शाकल्यः प्रथमस्तेषां तस्मादन्यो रथीतरः॥
बाष्कलिश्च भरद्वाज इति शाखाप्रवर्त्तकाः ॥३२॥

देवमित्रस्तु शाकल्यो ज्ञानाहंकारगर्वितः॥
जनकस्य स यज्ञे वै विनाशामगमद्द्विजाः ॥३३॥

शांशपायन उवाच॥
कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः॥
जनकस्याश्वमेधे तु कथ वादाऽभ्यजायत ॥३४॥

किमर्थं वाऽभवद्वादः केन सार्द्धमथापि वा॥
एतत्सर्वं यथा वृत्तमाचक्ष्त्र विदितं तव ॥३५॥

सूत उवाच॥
जनकस्याश्वमेधे तु महानासीत्समागमः॥
ऋषीणां हि सहस्राणि तत्राजग्मुरनेकशः ॥३६॥

राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षवः॥
आगतान्ब्राह्मणान्दृष्ट्वा जिज्ञासास्याभवत्ततः ॥३७॥

को न्वेषां ब्राह्मणश्रेष्ठः कथं मे निश्चयो भवेत्॥
इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ॥३८॥

गवां सहस्रमादाय सुवर्णमधिकं ततः॥
ग्रामान्रत्नानि दासीस्छ मुनीन्प्राह नराधिपः ॥३९॥

सर्वानहं प्रपन्नो वः शिरसा श्रेष्ठभागिनः॥
यदेतदाहृतं वित्तं यो वा श्रेष्ठतमो भवेत् ॥४०॥

तस्मै तदुपनीतं मे वित्त वित्तं द्विजोत्तमाः॥
जनकस्य वचः श्रुत्वा ऋषयस्ते श्रुतिक्षमाः ॥४१॥

दृष्ट्वा धनं महासारं धनगृध्ना जिघृक्षवः॥
आह्वयांचक्रिरेऽन्योन्यं वेदज्ञानमदोल्बणान् ॥४२॥

मनसा गतवित्तास्ते ममैतद्धनमित्युत॥
ममैतन्न तवेत्यन्यो ब्रूहि वा किं विकत्थसे ॥४३॥

इत्येवं धनदोषेण वादांश्चकुरनेकशः॥
अथान्यस्तत्रवै विद्वान्ब्रह्मणस्तु सुतः कविः ॥४४॥

याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः॥
ब्रह्मणोंऽशसमुत्पन्नो वाक्यं प्रोवाच सुस्वरम् ॥४५॥

शिष्यं ब्रह्मविदां श्रेष्ठं धनमेतद्गृहाण वै॥
नयस्व च गृहंवत्स ममैतन्नात्र संशयः ॥४६॥

सर्ववादेष्वहं वक्ता नान्यः कश्चित्तु मत्समः॥
यो वा न प्रीयते विद्वान्समाह्वयतु माचिरम् ॥४७॥

ततो ब्रह्मार्णवः क्षुब्दः समुद्र इव संप्लवे॥
तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ॥४८॥

क्रोधं मा कार्ष्ट विद्वांसो भवंतः सत्यवादिनः॥
वदामहे यथाशक्ति जिज्ञासंतः परस्परम् ॥४९॥

ततोऽभ्युपगतास्तेषां वादाः शब्दैरनेकशः॥
सहस्रधा शुभैरर्थैः सुक्ष्मदर्शनसंभवैः ॥५०॥

लोके वेदे तथाऽध्यात्मविद्यास्थानैरलंकृतैः॥
संत्युत्तमगुणैर्युक्ता नृपस्यापि परीक्षकाः ॥५१॥

वादाः समभवंस्तत्र धनहेतोर्महात्मनाम्॥
ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः ॥५२॥

सर्वे ते मुनयस्तेन याज्ञवल्क्येन धीमता॥
एकैकशस्ततः पृष्टा नैवोत्तरमथाब्रुवन् ॥५३॥

स विजित्य मुनीन्सर्वान् ब्रह्मराशिर्महामतिः॥
शाकल्यमिति होवाच वादकर्त्तारमंजसा ॥५४॥

शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्ठसे॥
पणस्तु यजमानेन बद्धो नीतो यथा धृतः ॥५५॥

एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः॥
प्रोवाच याज्ञवल्क्यं सपुरुषं मुनिसन्निधौ ॥५६॥

त्वमस्मास्तृणवत्कृत्वा तथैवान्यान्द्विजोत्तमान्॥
विद्याधनं महासारं स्वयंग्राहं जिघृक्षसि ॥५७॥

शाकल्येनैवमुक्तस्तु याज्ञवल्क्यस्तमब्रवीत्॥
ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ॥५८॥

कामस्यार्थेन संबंधस्तेनार्थं कामयामहे॥
कामप्रश्र्नधना विप्राः कामप्रश्नं वदामहे ॥५९॥

पणश्चैवास्य राजर्षेस्तस्मान्नीतं धनं मया॥
एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः ॥६०॥

या५वल्क्यमथोवाच कामप्रश्नार्थकृद्वचः॥
ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः ॥६१॥

ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान्॥
साग्रं प्रश्नसहस्रं तु शाकल्यः सोऽकरोत्तदा ॥६२॥

याज्ञवल्क्योऽब्रवीत्सर्वमृषीणां श्रृण्वतां तदा॥
शाकल्यस्त्वास निर्वादो याज्ञवल्क्यस्तमब्रवीत् ॥६३॥

प्रश्नमेकं ममापि त्वं शाकल्य वद कामिकम्॥
पणप्राप्यस्य वादस्य ब्रुवतोर्मृत्युरत्र वै ॥६४॥

सुसूक्ष्मज्ञानसंयुक्तं सांख्यंयोगमथापि वा॥
अध्यात्मस्य गतिं मुख्यां ध्यानमार्गमथापि वा ॥६५॥

अथ संचोदितः प्रश्नो याज्ञवल्क्येन धीमता॥
शाकल्यस्तमविज्ञाय तथा मृत्युमवाप्तवान् ॥६६॥

एवं स्मृतः स शाकल्यः प्रश्नव्याख्यानपीडितः॥
एवं विवादः सुमहानासीत्तेषां धनार्थिनाम् ॥६७॥

ऋषीणामृषिभिः सार्द्धं याज्ञवल्क्यस्य चैव हि॥
याज्ञवल्क्यो धनं गृह्य यशो विख्याय चात्मनः॥
जगाम वै गृहं स्वच्छं शिष्यैः परिवृतो वशी ॥६८॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
व्यासशिष्योत्पत्तिवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः॥३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:49.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दाक्षिणात्य

  • वि. दक्षिणेकडचा ( रहिवासी ); दख्खनचा , दक्षिणी ; दखनी . [ सं . ] 
  • a  Southerly or southern. 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.