TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः ३६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः ३६
शांशपायन उवाच॥
मन्वंतराणि शेषाणि श्रोतुमिच्छाम्यनुक्रमात्॥
मन्वंतराधिपांश्चैव शक्रदेवपुरोगमान् ॥१॥

सूत उवाच॥
मन्वंतराणि यानि स्युरतीतानागतानि ह॥
समासा द्विस्तराच्चैव ब्रुवतो मे निबोधत ॥२॥

स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा॥
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥३॥

षडेते मनवोऽतीता वक्ष्याम्यष्टावनागतान्॥
सावर्णिश्चैव रौच्यश्च भौत्यो वैवस्वतस्तथा ॥४॥

वक्ष्याम्येतान्पुरस्तात्तु मनोर्वेवस्वतस्य च॥
मनवः पंच येऽतीता मानसांस्तान्निबोधत ॥५॥

मन्वंतरं मया वोऽध्य क्रांतं स्वायंभुवस्य ह॥
अत ऊर्ध्वं प्रवक्ष्यामि मनाः स्वारोचिषस्य ह ॥६॥

प्रजासर्गं समासेन द्वितीयस्य महात्मनः॥
आसन्वै तुषिता देवा मनोः स्वारोचिषेऽन्तरे ॥७॥

पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ॥
तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः ॥८॥

पारावताश्च वासिष्ठा द्वादश द्वौ गणौ स्मृतौ॥
छंदजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः ॥९॥

दिवस्पर्शोऽथ जामित्रो गोपदो भासुरस्तथा॥
अजश्च भगवाश्चैव द्रविणश्य महा बलः ॥१०॥

आयश्चापि महाबाहुर्महौजाश्चापि वीर्यवान्॥
चिकित्वान्विश्रुतो यस्तु चांशो यश्चैव पठ्यते ॥११॥

ऋतश्चद्वादशस्तेषां तुषिताः परिकीर्त्तिताः॥
इत्येते क्रतुपुत्रास्तु तदाऽसन्सोमपायिनः ॥१२॥

प्रचेताश्चैव यो देवो विश्वदेवस्तथैव च॥
समंजो विश्रुतो यस्तु ह्यजिह्मश्चारिमर्द्दनः ॥१३॥

आयुर्दानो महामानो दिव्यमानस्तथैव च॥
अजेयश्च महाभागो यवीयांश्च महाबलः ॥१४॥

होता यज्वा तथा ह्येते परिक्रांताः परावताः॥
इत्येता देवता ह्यासन्मनोः स्वारोचिषांतरे ॥१५॥

सोमपास्तु तदा ह्येताश्चतुर्विशति देवताः॥
तेषामिंद्रस्तदा ह्यासीद्विपश्चिल्लोकविश्रुतः ॥१६॥

ऊर्जा वसिष्ठपुत्रश्च स्तंबः काश्यप एव च॥
भार्गवश्च तधा प्राम ऋषभोंऽङ्गिरसस्तथा ॥१७॥

पौलस्त्यश्चैव दत्तोऽत्रिरात्रेयो निश्चलस्तथा॥
पौलहोऽथार्वरीवांश्च एते सप्तर्षयस्तथा ॥१८॥

चैत्रः किंपुरुष श्चैव कृतांतो विभृतो रविः॥
बृहदुक्थो नवः सेतुः श्रुतश्चेति नव स्मृताः ॥१९॥

मनोः स्वारोचिषस्यैते पुत्रा वंशकराः प्रभो॥
पुराणे परिसंख्याता द्वितीयं वै तदंतरम् ॥२०॥

सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम्॥
मूलं मन्वंतरस्यैते तेषां चैवान्वयाः प्रजाः ॥२१॥

ऋषीणां देवताः पुत्राः पितरो देवसूनवः॥
ऋषयो देवपुत्राश्च इति शास्त्रे विनिश्चयः ॥२२॥

मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजा तयः॥
एतन्मन्वंतरं प्रोक्तं समासाच्च न विस्तरात् ॥२३॥

स्वायंभुवे न विस्तारो ज्ञेयः स्वारोचिषस्य च॥
न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि ॥२४॥

पुनरुक्तबहुत्वात्तु प्रजानां वै कुलेकुले॥
तृतीये त्वथ पर्याये उत्तमस्यांतरे मनोः ॥२५॥

पंच देवगणा प्रोक्तास्तान्वक्ष्यामि निबोधत॥
सुधामानश्च ये देवा ये चान्ये वशवर्त्तिनः ॥२६॥

प्रतर्दनाः शिवाः सत्यागणा द्वादशकाः स्मृताः॥
सत्यो धृतिर्दमो दांतः क्षमः क्षामो ध्वनिः शुचिः ॥२७॥

इषोर्ज्जश्च तथा श्रेष्ठः सुपर्णो द्वादशस्तथा॥
इत्येते द्वादश प्रोक्ताः सुधामानस्तु नामभिः ॥२८॥

सहस्रधारो विश्वायुः समितारो वृहद्वसुः॥
विश्वधा विश्वकर्मा च मानसस्तु विराजसः ॥२९॥

ज्योतिश्चैव विभासश्च कीर्त्तिता वंशवर्तिनः॥
अवध्योऽवरतिर्देवो वसुर्धिष्ण्यो विभावसुः ॥३०॥

वित्तः क्रतुः सुधर्मा च धृतधर्मा यशस्विजः॥
रथोर्मिः केतुमांछ्चैव कीर्त्तितास्तु प्रतर्दनाः ॥३१॥

हंसस्वारौ वदान्यौ च प्रतर्दनयशस्करौ॥
सुदानो वसुदानश्च सुमंजसविषावुभौ ॥३२॥

यमो वह्नि र्यतिश्चैव सुचित्रः सुतपास्तथा॥
शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः ॥३३॥

सत्यानामपि नामानि निबोधत यथातथम्॥
दिक्पतिर्वाक्पतिश्चैव विश्वः शंभुस्तथैव च ॥३४॥

स्वमृडीको दिविश्चैव वर्चोधामा बृहद्वपुः॥
अश्वश्चैव सदश्वश्च क्षेमानन्दौ तथैव च ॥३५॥

सत्या ह्येते परिक्रांता यज्ञिया द्वादशापराः॥
इत्येता देवता ह्यासन्नौत्तमस्यांतरे मनोः ॥३६॥

तेषामिंद्रस्तु देवानां सुशांतिर्नाम विश्रुतः॥
पुत्रास्त्तवंगिरसस्ते वै उत्तमस्य प्रजापतेः ॥३७॥

वशिष्ठपुत्राः सप्तासन्वाशिष्ठा इति विश्रुताः॥
सप्तर्षयस्तु ते सर्व उत्तमस्यांतरे मनोः ॥३८॥

आचश्च परशुश्चैव दिव्यो दिव्यौषधिर्नयः॥
देवाम्वुजश्चाप्रतिमौ महोत्साहो गजस्तथा ॥३९॥

विनीतश्च सुकेतुश्च सुमित्रः सुमतिः श्रुतिः॥
उत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः ॥४०॥

एते क्षत्रप्रणेतारस्तृतीयं चैतदंतरम्॥
औत्तमः परिसंख्यातः सर्गः स्वारोचिषेण तु ॥४१॥

विस्तरेणानुपूर्व्या च तामसस्य निबोधत॥
चतुर्थे त्वथ पर्याये तामसस्यातरे मनोः ॥४२॥

सत्याः सुरूपाः सुधियो हरयश्च गणाः स्मृताः॥
पुलस्त्यपुत्रास्ते देवास्तामसस्यांतरे मनोः ॥४३॥

गणस्तु तेषां देवानामेकैकः पंचविंशकः॥
इन्द्रियाणां प्रतीयेत ऋषयः प्रतिजानते ॥४४॥

सप्रमाणास्तु शीर्षण्यं मनश्चैवाष्टमं तथा॥
इंद्रियाणि तथा देवा मनोस्तस्यांतरे स्मृताः ॥४५॥

तेषां बभूव देवानां शिबिरिंद्रः प्रतापवान्॥
सप्तर्षयोंऽतरे ये च तान्निबोधत सत्तमाः ॥४६॥

काव्य आङ्गिरसश्चैव काश्यपः पृथुरेव च॥
अत्रेयस्त्वग्निरित्येव ज्योतिर्धामा च भार्गवः ॥४७॥

पौलहश्चरकश्चात्र वाशिष्ठः पीवरस्तथा॥
चैत्रस्तथैव पौलस्त्य ऋषयस्तामसेंऽतरे ॥४८॥

जानुजंघस्तथा शान्तिर्नरः ख्यातिः शुभस्तथा॥
प्रियभृत्यो परीक्षिच्च प्रस्थलोऽथ दृढेषुधिः ॥४९॥

कृशाश्वः कृतबंधुश्च तामसस्य मनोः सुताः॥
पञ्चमेत्वथ पर्याये मनोः स्वारोचिषेंऽतरे ॥५०॥

गुणास्तु ये समाख्याता देवानां तान्निबोधत॥
अमिताभा भूतरयो वैकुंठाः ससुमेधसः ॥५१॥

वरिष्ठाश्च शुभाः पुत्रा वसिष्ठस्य प्रजापतेः॥
चतुर्दश तु चत्वारो गणास्तेषां सुभास्वराः ॥५२॥

उग्रः प्रज्ञोऽग्निभावश्च प्रज्योतिश्चामृतस्तथा॥
सुमतिर्वा विरावश्च धामा नादः श्रवास्तथा ॥५३॥

वृत्तिराशी च वादश्च शबरश्च चतुर्दश॥
अमिताभाः स्मृता ह्येते देवाः स्वारोचिषेंऽतरे ॥५४॥

मतिश्च सुमतिश्चैव ऋतसत्यौ तथैधनः॥
अधृतिर्विधृतिश्चैव दमो नियम एव च ॥५५॥

व्रतो विष्णुः सहश्चैव द्युतिमान्सुश्रवास्तथा॥
इत्येतानीह नामानि आभूतयसां विदुः ॥५६॥

वृषो भेत्ता जयो भीमः शुचिर्दांतो यशो दमः॥
नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा ॥५७॥

कीर्त्तितास्तु विकुंठा वै सुमेधांस्तु निबोधत॥
मेधा मेधा तिथिश्चैव सत्यमेधास्तथैव च ॥५८॥

पृश्निमेधाल्पमेधाश्च भूयोमेधाश्च यः प्रभुः॥
दीप्तिमेधा यशोमेधा स्थिरमेधास्तथैव च ॥५९॥

सर्वमेधा सुमेधाश्च प्रतिमेधाश्च यः स्मृतः॥
मेधजा मेधहंता च कीर्त्तितास्ते सुमेधसः ॥६०॥

विभुरिंद्रस्तथा तेषामासीद्वि क्रांतपौरुषः॥
पौलस्त्यो दवबाहुश्च सुधामा नाम काश्यपः ॥६१॥

हिरण्यरोमांगिरसो वेदश्रीश्चैव भार्गवः॥
ऊर्ध्वबाहुश्च वाशिष्ठः पर्जन्यः पौलहस्तथा ॥६२॥

सत्यनेत्रस्तथात्रेय ऋषयो रैवतेंऽतरे॥
महावीर्यः सुसंभाव्यः सत्यको हरहा शुचिः ॥६३॥

बलबन्धुर्निरामित्रः कंबुः श्रृगो धृतव्रतः॥
रैवतस्य च पुत्रास्ते पञ्चमं वै तदंतरम् ॥६४॥

स्वारोचिषश्चोत्तमोऽपि तामसो रैवतस्तथा॥
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥६५॥

षष्ठे खल्वपि पर्याये देवा ये चाक्षुषेंऽतरे॥
आद्याः प्रसूता भाव्यश्च पृथुकाश्च दिवौकसः ॥६६॥

महानुभावा लेखास्छ पंच देवगणाः स्मृताः॥
दिवौकसः सर्व एव प्रोच्यंते मातृनामभिः ॥६७॥

अत्रेः पुत्रस्य नप्तारो ह्यारण्यस्य प्रजापतेः॥
गणस्तु तेषां देवानामेकैको ह्यष्टकः स्मृतः ॥६८॥

अंतरिक्षो वसुर्हव्यो ह्यतिथिश्च प्रियव्रतः॥
श्रोता मंतानुमंता च त्वाद्या ह्येते प्रकीर्त्तिताः ॥६९॥

श्येनभद्रस्तथा चैव श्वेतचक्षुर्महायशाः॥
सुमनाश्च प्रचेताश्च वनेनः सुप्रचेत्सौ ॥७०॥

मुनिश्चैव महासत्त्वः प्रसूताः परिकीर्त्तिताः॥
विजयः सुजयश्चैव मनस्योदौ तथैव च ॥७१॥

मतिः परिमतिश्चैव विचेताः प्रियनिश्चयः॥
भव्या ह्येते स्मृता देवाः पृथुकांश्च निबोधत ॥७२॥

ओजिष्ठः शकुनो देवो वानत्दृष्टस्तथैव च॥
सत्कृतः सत्यदृष्टिश्च जिगीषुर्विजयस्तथा ॥७३॥

अजितश्च महाभागः पृथुकास्ते दिवौकसः॥
लेशास्तथा प्रवक्ष्यामि नामतस्तान्निबोधत ॥७४॥

मनोजवः प्रघासश्च प्रचेताश्च महायशाः॥
ध्रुवो ध्रुवक्षितिश्चैव अत्युतश्चैव वीर्यवान् ॥७५॥

युवना बृहस्पतिश्चैव लेखाः संपरिकीर्त्तिताः॥
मनोजवो महावीर्यस्तेषामिंद्रस्तदाभवत् ॥७६॥

उत्तमो भार्गवश्चैव हविष्मानंगिरःसुतः॥
सुधामा काश्यपश्चैव वशिष्ठो विरजास्तथा ॥७७॥

अतिनामा च पौलस्त्यः सहिष्णुः पौलहस्तथा॥
मधुरात्रेय इत्येते सप्त वै चाक्षुषेंऽतरे ॥७८॥

ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः॥
अग्निष्टुदतिरात्रश्च सुद्युम्नशचेति ते नव ॥७९॥

अभिमन्युश्च दशमो नाड्वलेया मनोः सुताः॥
चाक्षुषस्य सुताः ह्येते षष्ठं चैव तदंतरम् ॥८०॥

वैवस्वतेन संख्यातस्तत्सर्गः सांप्रतेन तु॥
विस्तरेणानुपूर्व्या च चाक्षुषस्यांतरे मनोः ॥८१॥

ऋषय ऊचुः॥
चाक्षुषः कस्य दायादः संभूतः सक्य वाऽन्वये॥
तस्यान्ववाये येऽप्यन्येतान्नो ब्रूहि यथातथम् ॥८२॥

सूत उवाच॥
चाक्षुषस्य विसर्गं तु समासाच्छृणुत द्विजाः॥
यस्यान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान् ॥८३॥

प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा॥
उत्तानपादं जग्राह पुत्रमत्रिप्रजापतिः ॥८४॥

दत्तकः स तु पुत्रोऽस्य राजा ह्यासीत्प्रजापतिः॥
स्वायंभुवेन मनुना दत्तोऽत्रेः कारणं प्रति ॥८५॥

मन्वन्तरमथासाद्य भविष्यच्चाक्षुषस्य ह॥
षष्ठं तदनु वक्ष्यामि उपोद्धातेन वै द्विजाः ॥८६॥

उत्तानपादाच्चतुरः सूनृताऽसूत भामिनी॥
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ॥८७॥

उत्पन्ना जापि धर्मेम ध्रुवस्य जननी शुभा॥
धर्मस्य पत्न्यां लक्ष्मयां वै उत्पन्ना सा शुचिस्मिता ॥८८॥

ध्रुवं च कीर्त्तिमंतं च त्वायुष्मंतं वसुं तथा॥
उत्तानपादोऽजनयत्कन्ये द्वे च शुचिस्मिते ॥८९॥

स्वरामनस्विनी चैव तयोः पुत्राः प्रकीर्त्तिताः॥
ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् ॥९०॥

तपस्तेपे निराहारः प्रार्थयन्विपुलं यशः॥
त्रेतायुगे तु प्रथमे पौत्रः स्वायंभुवस्य तु ॥९१॥

आत्मानं धारयन्योगान्प्रार्थयन्सुमहद्यशः॥
तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् ॥९२॥

आभूतसंप्लवाद्दिव्यमस्तोदयविवार्जितम्॥
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य तु ॥९३॥

दैत्या सुराणामाचार्यः श्लोकमप्युशाना जगौ॥
अहोऽस्य तपसो वीर्यमहो श्रुतमहो व्रतम् ॥९४॥

कृत्वा यदेनमुपरि ध्रुवं सप्तर्षयः स्थिताः॥
द्रुवे त्रिदिवमासक्तमीश्वरः स दिवस्पतिः ॥९५॥

ध्रुवात्सृष्टिं च भव्यं च भूमिस्तौ सुषुवे नृपौ॥
स्वां छायामाह वै सृष्टिर्भवनारीति तां प्रभुः ॥९६॥

सत्याभिव्यहृतेस्तस्य सद्यः स्त्री साभवत्तदा॥
दिव्यसंहनना छाया दिव्याभरणभूषिता ॥९७॥

छायायां सृष्टिराधत्त पंच पुत्रानकल्मषान्॥
प्राजीनगर्भं वृषभं वृकंच वृकलं धृतिम् ॥९८॥

पत्नी प्राचीनगर्भस्य सुवर्चा सुषुवे नुपम्॥
नाम्नोदारधियं पुत्रमिंद्रो यः पूर्वजन्मनि ॥९९॥

संवत्सरसहस्रान्ते सकृदाहारमाहरन्॥
एवं मन्वन्तरं युक्त इंद्रत्वं प्राप्तवान्प्रभुः ॥१००॥

उदारधेः सुतं भद्राऽजनयत्सा दिवंजयम्॥
रिपुं रिपुंजयाज्जज्ञे वरांगी तु दिवंजयात् ॥१०१॥

रिपोराधत्त बृहती वक्षुषं सर्वतेजसम्॥
तस्य पुत्रो मनुर्विद्वान् ब्रह्मक्षत्र्रप्रवत्तकः॥
व्यजीजनत्पुष्करिणी वारुणी चाक्षुषं मनुम् ॥१०२॥

ऋषय ऊचुः॥
प्रजापतेः सुता कस्माद्वारुणी प्रोच्यतेऽनघ॥
एतदाचक्ष्व तत्वेन कुशलो ह्यसि विस्तरे ॥१०३॥

सूत उवाच॥
अरण्यस्योदकः पुत्रो वरुणत्वमुपागतः॥
तेन सा वारुणी ज्ञेया भ्रात्रा ख्यातिमुपागता ॥१०४॥

मनोरजायंत दश नड्वलायां सुताः शुभाः॥
कन्यायां सुमहावीर्या विरजस्य प्रजापतेः ॥१०५॥

ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः॥
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति वै नव ॥१०६॥

अभिमन्युश्च दशमो नड्वलायां मनोः सुताः॥
ऊरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥१०७॥

अंगं सुमनसं ख्यातिंगयं शुक्रं व्रजाजिनौ॥
अंगात्सुनीथापत्यंवै वेनमेकं व्यजायत ॥१०८॥

तस्यापराधाद्वेनस्य प्रकोपस्तु महानभूत्॥
प्रजार्थमृषयो यस्यममंथुर्दक्षिणां करम् ॥१०९॥

जनितस्तस्य पाणौ तु मथिते रूपवान्पृथुः॥
जनयित्वा सुतं तस्य पृथुं प्रथितपौरुषम् ॥११०॥

अब्रु वंस्त्वेष वो राजा ऋषयो मुदिताः प्रजाः॥
स धन्वी कवची जज्ञे तेजसा निर्दहन्निव ॥१११॥

वृत्तीनामेष वो दाता भविष्यति नराधिपः॥
पृथुर्वैन्यस्तदा लोकान्ररक्ष क्षत्रपूर्वजः ॥११२॥

राजसूयाभिषिक्तानामाद्यस्स वसुधाधिपः॥
तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ ॥११३॥

तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता॥
प्रजानां वृत्तिकामानां देवैश्चर्षिगणैः सह ॥११४॥

पितृभि र्दानवैश्चैव गंधर्वैश्चाप्सरोगणैः॥
सर्पैः पुण्यजनैश्चैव पर्वतैर्वृक्षवीरुधैः ॥११५॥

तेषु तेषु तु पात्रेषु दुह्यमाना वसुंधरा॥
प्रादाद्यथेप्सि तं क्षीरं तेन प्राणानधारयन् ॥११६॥

शांशपायन उवाच॥
विस्तरेण पृथोर्जन्म कीर्त्तयस्व महाव्रत॥
यथा महात्मना तेन पूर्वं दुग्धा वसुंधरा ॥११७॥

यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह॥
यक्षै राक्षसगंधर्वैरप्सरोभिर्यथा पुरा ॥११८॥

यथा यथा च वै सूत विधिना येन येन च॥
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च ॥११९॥

तथा वत्सविशेषांश्च त्वंनः प्रब्रूहि पृच्छताम्॥
यथा क्षीरविशेषांश्च सर्वानेवानुपूर्वशः ॥१२०॥

यस्मिंश्च कारणे पाणिर्वनस्य मथितः पुरा॥
कुद्धैर्महर्षिभिः पूर्वैः कारणं ब्रूहि तद्धि नः ॥१२१॥

सूत उवाच॥
कथयिष्यामि वो विप्राः पृथोर्वैन्यस्य संभवम्॥
एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः ॥१२२॥

नाशुद्धाय न पापाय नाशिष्यायाहिताय च॥
वर्त्तनीयमिदं ब्रह्म नाव्रताय कथंचन ॥१२३॥

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम्॥
रहस्यमृषिभिः प्रोक्तं श्रृणुयाद्योऽनसूयकः ॥१२४॥

यश्चैवं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य संभवम्॥
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥१२५॥

गोप्ता धर्मस्य राजासौ बभूवात्रिसमः प्रभुः॥
अत्रिवंशसमुत्पन्नो ह्यंगो नाम प्रजापतिः ॥१२६॥

तस्य पुत्रोऽभवद्वेनो नात्यर्थं धार्मिकस्तथा॥
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥१२७॥

स मातामहदोषेण वेनः कालात्म जात्मजः॥
स धर्मं वृष्ठतः कृत्वा कामाल्लोकेष्वर्तत ॥१२८॥

स्थापनां स्थापयामास धर्मायेतां स पार्थिवः॥
वेदशास्त्राण्यतिक्रम्य सोऽधर्मे निरतोऽभवत् ॥१२९॥

निःस्वाध्यायवष्ट्कारे तस्मिन्राज्यं प्रशासति॥
न पिबंति तदा सोमं महायज्ञेषु देवताः ॥१३०॥

न यष्टव्यं न दातव्यमिति तस्य प्रजापतेः॥
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥१३१॥

अहमीज्यश्च पूज्यश्च यज्ञे देवद्विजातिभिः॥
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ॥१३२॥

तमतिक्रान्तमर्यादमवदानसुसंवृतम्॥
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥१३३॥

वयं दीक्षां प्रवेक्ष्यामः संवत्सरशतं नृप॥
त्वं मा कार्षीरधर्मं वै नैष धर्मः सनातनः ॥१३४॥

निधने संप्रसूतस्त्वं प्रजापतिरसंशयः॥
पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः ॥१३५॥

तां स्तथा वादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा॥
वेनः प्रहस्य दुर्बुद्धिर्विदितेन च कोविदः ॥१३६॥

स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया॥
वीर्यण तपसा सत्यैर्मया वा कः समो भुवि ॥१३७॥

मन्दात्मानो न नूनं मां यूयं जानीत तत्त्वतः॥
प्रभवं सर्वलोकानां धर्माणां च विशेषतः ॥१३८॥

इच्छन्दहेयं पृथिवीं प्लावयेयं जलेन वा॥
सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा ॥१३९॥

यदा न शक्यते स्तंभादानार्य्यभृशसंहितः॥
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः ॥१४०॥

निगृह्य तं च बाहुभ्यां विस्फुरंतं महा बलम्॥
ततोऽस्य वामहस्तं ते ममंथुर्भृशकोपिताः ॥१४१॥

तस्मात्प्रमथ्यमानाद्वै जज्ञ पूर्वमिति श्रुतिः॥
ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि बभूव ह ॥१४२॥

स भीतः प्रांजलिश्चैव तस्थिवानाकुलेंद्रियः॥
तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥१४३॥

निषादवंशकर्तासौ बभूवानंतविक्रमः॥
धीवरानसृजच्चापि वेनकल्मषसंभवान् ॥१४४॥

ये चान्ये विन्ध्यनिलयास्तंबुरास्तुबुराः खशाः॥
अधर्मरुचयश्चापि विद्धि तान्वेनकल्मषान् ॥१४५॥

पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम्॥
अरणीमिव संरब्धा ममंथुर्जातमन्यवः ॥१४६॥

पृथुस्तस्मात्समुत्पन्नः कराज्जलजसन्निभात्॥
पृथोः करतलाद्वापि यस्माज्जातः पृषुस्ततः ॥१४७॥

दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन्॥
आद्यमाजगवं नाम धनुर्गृह्य महारवम् ॥१४८॥

शारांश्च बिभ्रद्रक्षार्थ कवचं च महाप्रभम्॥
तस्मिञ्जा तेऽथ भूतानि संप्रहृष्टानि सर्वशः ॥१४९॥

समापेतुर्महाराजं वेनश्च त्रिदिवं गतः॥
समुत्पन्नेन राजर्षिः सत्पुत्रेण महात्मना ॥१५०॥

त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा॥
तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः ॥१५१॥

अभिषेकाय तोयं च सर्व एवोपत स्थिरे॥
पितामहश्च भगवानंगिरोभिः सहामरैः ॥१५२॥

स्थावराणि च भूतानि जंगमानि च सर्वशः॥
समागम्य तदा वैन्यमभ्य षिंचन्नराधिपम् ॥१५३॥

महता राजराजेन प्रजापालं महाद्युतिम्॥
सोऽभिषिक्तो महाराजो देवैरंगिरसः सुतैः ॥१५४॥

आदि राजो महाभागः पृथुर्वैन्यः प्रतापवान्॥
पित्रापरंजितास्तस्य प्रजास्तेनानुरंजिताः ॥१५५॥

ततो राजेति नामास्य ह्यनुरागादजायत॥
आपस्तस्तंभिरे तस्य समुद्रमभियास्यतः ॥१५६॥

पर्वताश्चावदीर्यन्त ध्वजभंगश्च नाभवत्॥
अकृष्टपच्या पृथिवी सिद्ध्यंत्यन्नानि चिन्तया ॥१५७॥

सर्वकामदुघा गावः पृटके पुटके मधु॥
एतस्मिन्नेव काले तु यजतस्तस्य वै मखे ॥१५८॥

सोमे सुते समु त्पन्नः सूतः सौत्ये तदाहनि॥
तस्मिन्नेवं समुत्पन्ने पुनर्जज्ञेऽथ मागधः ॥१५९॥

सामगेषु च गायत्सु शुभांडे वैश्वदेविके॥
समागते समुत्पन्नस्तस्मान्मागध उच्यते ॥१६०॥

ऐंद्रण हविषा चापि हविः पृक्तं बृहस्पतेः॥
जुहावेन्द्राय दैवेन ततः सूतो व्यजायत ॥१६१॥

प्रमादस्तत्र संजज्ञ प्रायश्चित्तं च कर्मसु॥
शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥१६२॥

अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम्॥
यच्च क्षत्रात्समभवद्ब्राह्मण्यां हीनयोनितः ॥१६३॥

सूतः पूर्वेण साधर्म्यात्तुल्यधर्मः प्रकीर्त्तितः॥
मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीवनम् ॥१६४॥

रथनागाश्वचरितं जघन्यं च चिकित्सितम्॥
पृथुस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥१६५॥

तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः॥
कर्मैतदनुरूपं च पात्रं चायं नराधिपः ॥१६६॥

तावूचतुस्ततः सर्वांस्तानृषीन्सूतमागधौ॥
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मतः ॥१६७॥

न चास्य विद्वो वै कर्म न तथा लक्षणं यशः॥
स्तोत्रं येनास्य कुर्याव प्रोचुस्तेजस्विनो द्विजाः ॥१६८॥

एष कर्मरतो नित्यं सत्यवाक्संयतेंद्रियः॥
ज्ञानशीलो वदान्यश्च संग्रामेष्वपरजितः ॥१६९॥

ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति॥
यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः ॥१७०॥

तानि गीतनिबद्धानि ह्यस्तुतां सूतमागधौ॥
ततस्तवांते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ॥१७१॥

अनूपदेशं सूताय मगधं मागधाय च॥
तदादि पृथिवीपालाः स्तूयंते सूतमागधैः ॥१७२॥

आशीर्वादैः प्रबोध्यंते सूतमागधबंदिभिः॥
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः ॥१७३॥

एष वृत्तिप्रदो वैन्यो भविष्यति नराधिपः॥
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ॥१७४॥

त्वं नो वृत्तिं विधत्स्वेति महार्षिवच नात्तदा॥
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥१७५॥

धनुर्गृहीत्वा बाणांश्च वसुधामाद्रवद्बली॥
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥१७६॥

तां पृथुर्धनुरादाय द्रवंतीमन्वधावत॥
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥१७७॥

संददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम्॥
ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् ॥१७८॥

महायोगं महात्मानं दुर्द्धर्षममरैरपि॥
अलबंती तु सा त्राणं वैन्यमेवान्वपद्यत ॥१७९॥

कृतांजलिपुटा देवी पूज्या लोकैस्त्रिभिः सादा॥
उवाच वैनं नाधर्मः स्त्रीवधे परिपश्यति ॥१८०॥

कथं धारयिता चासि प्रजा या वर्द्धिता मया॥
मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ॥१८१॥

मत्कृते न विनश्येयुः प्रजाः पार्थिव वर्द्धिताः॥
स मां नर्हसि वै हंतुं श्रेयस्त्वं च चिकीर्षसि ॥१८२॥

प्रजानां पृथिवीपाल श्रृणु चेदं वचो मम॥
उपायतः समारब्धा सर्वे सिद्ध्यन्त्युपक्रमाः ॥१८३॥

हत्वापि मां न शक्तस्त्वं प्रजानां पालने नृप॥
अंतर्भूता भविष्यामि जहि कोपं महाद्युते ॥१८४॥

अवध्यश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि॥
सत्त्वषु पृथिवीपाल धम न त्यक्तुमर्हसि ॥१८५॥

एवं बहुविधं वाक्यं श्रुत्वा तस्या महामनाः॥
क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥१८६॥

एकस्यार्थाय यो हन्यादात्मनो वा परस्य च॥
एकं प्राणी बहून्वापि कर्म तस्यास्ति पातकम् ॥१८७॥

यस्मिंस्तु निहते भद्रे जीवंते बहवः सुखम्॥
तस्मिन्हते नास्ति शुभे पातकं चोपपातकम् ॥१८८॥

सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे॥
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥१८९॥

त्वां निहत्याशु बाणेन मच्छासनपराङ्मुखीम्॥
आत्मानं प्रथयित्वेह प्रजा धारयिता स्वयम् ॥१९०॥

सा त्वं वचनमास्थाय मम धर्मभृतां वरे॥
संजीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ॥१९१॥

दुहितृत्वं च मे गच्छ चैवमेतमहं शरम्॥
नियच्छेयं त्वद्वधार्थमुद्यंतं घोरदर्शनम् ॥१९२॥

प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही॥
सर्वमेतदहं राजन्विधास्यामि न संशयः ॥१९३॥

वत्सं तु मम तं पश्य क्षरेयं येन वत्सला॥
समां च कुरु सर्वत्र मां त्वं धर्म्मभृतां वर॥
यथा विस्पंदमानं मे क्षीरं सर्वत्र भावयेत् ॥१९४॥

सूत उवाच॥
तत उत्सारयामास शिलाजालनि सर्वशः॥
धनुष्कोट्या तथा वैन्यस्तेन शैला विवर्द्धिताः ॥१९५॥

मन्वंतरेष्वतीतेषु विषमासीद्वसुन्धरा॥
स्वभावेना भवत्तस्याः समानि विषमाणि च ॥१९६॥

न हि पूर्वनिसर्गे वै विषमे पृथिवीतले॥
प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते ॥१९७॥

न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः॥
चाक्षुषस्यांतरे पूर्वमासीदेतत्पुरा किल ॥१९८॥

वैवस्वतेंऽतरे तस्मिन्सर्व स्यैतस्य संभवः॥
समत्वं यत्र यत्रासीद्भूमेः कस्मिंश्चिदेव हि ॥१९९॥

तत्र तत्र प्रजास्ता वै निवसंति च सर्वशः॥
आहारः फल मूले तु प्रजानामभवत्किल ॥२००॥

कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम॥
वैन्यात्प्रभृति लोकेऽस्मिन्सर्वस्यैतस्य संभवः ॥२०१॥

स कल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरः॥
पृथुर्दुदोह सस्यानि स्वे तले पृथिवीं ततः ॥२०२॥

तेनान्नेन ततस्ता वै वर्त्तयन्ति शुभाः प्रजाः॥
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा ॥२०३॥

वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः॥
छन्दासिपात्रमासीत्तु गायत्र्यादीनि सर्वशः ॥२०४॥

क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम्॥
पुनस्ततो देवगणैः पुरंदरपुरोगमैः ॥२०५॥

सौवर्णं पात्रमादाय दुग्धा संश्रूयते मही॥
वत्सस्तु मघवानासीद्दोग्धा च सविता विभुः ॥२०६॥

क्षीरमूर्जं च मधु च वर्त्तंते तेन देवताः॥
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥२०७॥

राजतं पात्रमादाय स्वधामाशु वितृप्तये॥
वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान् ॥२०८॥

अन्तकश्चाभवद्दोग्धा पितॄणां बलवान्प्रभुः॥
असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥२०९॥

आयसं पात्रमादाय किल मायश्च सर्वशः॥
विरोचनस्तु प्राह्रादिर्वत्सस्तेषां महायशाः ॥२१०॥

त्रत्विग्द्विमूर्द्धा दैत्यानां दोग्धाऽभूद्दितिनन्दनः॥
पायसा ते च मायाभिः सर्वे मायाविनोऽसुराः ॥२११॥

वर्त्तयन्ति महावीर्यास्तदेषां परमं बलम्॥
नागैस्तु श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ॥२१२॥

अलाब५पात्रमादाय विषं क्षीरं तदा मही॥
तेषां वै वासुकिर्दोग्धा काद्रवेयः प्रतापवान् ॥२१३॥

नागानां वै द्विजश्रेष्ठ सर्पाणां चैव सर्वशः॥
तेनैव वर्त्तयंत्युग्रा महाकाया विषोल्बणाः ॥२१४॥

तदाहारास्तदाचारास्त द्वीर्यास्तदुपाश्रयाः॥
आमपात्रे पुनर्दुग्धा त्वंतर्धानप्रियं मही ॥२१५॥

वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा॥
दोग्धा रजतनाभस्तु पिता मणिधरस्य यः ॥२१६॥

यज्ञात्मजो महातेजा वशी च सुमहायशाः॥
तेन ते वर्त्तयन्तीति परमर्थतया च ह ॥२१७॥

राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा॥
ब्रह्मा ब्राह्यास्तु वै दोगधा तेषामासीत्कुबेरकः ॥२१८॥

वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च॥
कपालपात्रे निर्दुग्धा ह्यंतर्द्धनं च राक्षसैः ॥२१९॥

तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः॥
पद्मपात्रे पुनर्दुग्धा गंधर्वैश्चाप्स रोगणैः ॥२२०॥

वत्सं चित्ररथं कृत्वा शुचीन्गन्धामही तदा॥
तेषां वसुरुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः ॥२२१॥

गंधर्वराजोऽतिबलो महात्मा सूर्यसन्निभः॥
शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा ॥२२२॥

तदौषधीर्मूर्तिमती रत्नानि विविधानि च॥
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥२२३॥

पात्रं तु शैलमेवासीत्तेन शैलाः प्रतिष्ठिताः॥
श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ॥२२४॥

पालाशं पात्रमादाय छिन्नदग्धप्ररोहणम्॥
कामधुक् पुष्पितः शालः प्लक्षो वत्सो यशस्विनाम् ॥२२५॥

सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी॥
सैव धात्री विधात्री च धारणी च वसुन्धरा ॥२२६॥

दुग्धा हितार्थं लोकानां पृथुनेति हि नः श्रुतम्॥
चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥२२७॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंग पादे
शेषमन्वन्तराश्यानं पृथिवीदोहनं च नाम षट्त्रिंशत्तमोऽध्यायः॥३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:49.5370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पडिक

  • न. पड टाकलेलें शेत ; न केलेलें वावर . ' सोन बाला जोंधळयाच्या पडितांत बोलतांना पाहिलें होते .' - नानि . 
RANDOM WORD

Did you know?

केस काढण्यासंबंधी विशेष माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.