TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः २५

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः २५
सूत उवाच॥
एतदुक्वा महाबुद्धिर्वायुर्ल्लोकहिते रतः॥
ज्जाप जप्यं भगवान्मध्यं प्राप्ते दिवाकरे ॥१॥

ऋषयश्चापि ते सर्वे ये तत्रासन्समागताः॥
ते सर्वे नियतात्मानस्तस्थुः प्रांजलयस्तथा ॥२॥

य इज्यो नियमस्यांते प्राणिनां जीवनः प्रभुः॥
नीलकंठ नमस्तेऽस्तु इत्युवाच सदागतिः ॥३॥

श्रुत्वा तु भावितात्मानो मुनयः शंसितव्रताः॥
वालखिल्येति विख्याताः पतंगसहचारिणः ॥४॥

अष्टाशीतिसहस्रामि ऋषीणामूर्ध्वरेतसाम्॥
ते स्म पृच्छंति वायु च वायुपर्णांबु भोजनाः ॥५॥

नीलकंठेति यत्प्रोक्तं त्वया पवनसत्तम॥
एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः ॥६॥

तद्वयं श्रोतुमिच्छाम स्तन्नो निगद सत्तम॥
तत्सर्व श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभंजन ॥७॥

नीलता येन कंठस्य कारणेनांविकापतेः॥
श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः ॥८॥

यावद्वाचः प्रवर्त्तंते सर्वास्ताः प्रेरितस्त्वया॥
वर्णस्थानगते वायो वाग्विधिः संप्रवर्त्तते ॥९॥

ज्ञान पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्त्तते॥
त्वयि निष्पूयमाने तु शेषा वर्णप्रवृत्तयः ॥१०॥

यत्र वाचो निवर्त्तंते देहवर्णाश्च दुर्लभाः॥
त्वत्तो हि वर्णसद्भावः सर्वगस्त्वं सदानिल ॥११॥

नान्यः सर्वगतो देवस्त्वदृतेऽस्ति समीरण॥
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल ॥१२॥

वेत्थ वाचस्पतिं देवं मनोनायकमीश्वरम्॥
ब्रूहि तत्कंठदेशे तु किं कृत्वा रूपविक्रिया ॥१३॥

वचः श्रुत्वा ततस्तेषां मुनीनां भावितात्मनाम॥
प्रत्युवाच महातेजा वायुर्ल्लोकनमस्कृतः ॥१४॥

पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः॥
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः ॥१५॥

पप्रच्छ कार्त्तिकेयं वै मयूरवरवाहनम्॥
महिषासुरनारीणां नयनांजनतस्करम् ॥१६॥

महासेनं महात्मनं मेघस्तनितनिस्वनम्॥
उमामनः प्रहर्षाणां बारकच्छद्मरूपिणम् ॥१७॥

क्रौंचजीवितहर्तारं गौरीहृदयनंदनम्॥
यदेतद्दृश्यते वर्य शुभ्रं शुभ्रांजनोपमम् ॥१८॥

तत्किमर्थं समुत्पन्नं कंठे कंठेकुंदेंदुसप्रभे॥
एतद्दीप्तांय दांताय भक्ताय ब्रूहि पृच्छते ॥१९॥

कथां मंगलसंयुक्तां पवित्रां पापनाशिनीम्॥
मत्प्रियार्थंमहाभाग वक्तुमर्हस्यशेषतः ॥२०॥

श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः॥
प्रत्युवाच महातेजा देवारिबलसूदनः ॥२१॥

श्रृणुष्व वदतां श्रेष्टकथ्यमानं वचो मम॥
उमोत्संगोपविष्टेन यथापूर्वं मया श्रुतम् ॥२२॥

पार्वत्या सह संवादः शर्वस्य च महात्मनः॥
तमहं संप्रवक्ष्यामि त्वत्प्रियार्थं महामुने ॥२३॥

कैलासशिखरे रम्ये नानाधातुविचित्रिते॥
तरुणादित्यसंकाशे तप्तचामीकरप्रभे ॥२४॥

वज्रस्फटिकसोपाने चित्रपादशिलातले॥
जांबूनदमये दिव्ये नानाधातु विचित्रिते ॥२५॥

नानाद्रुमलताकीर्णे नानापुष्पफलोपगे॥
हंसकारंडवाकीर्णे चक्रवाकोपशोभिते ॥२६॥

षट्पदोद्गीतबहुले धारासंपातनादिते॥
मत्तक्रौंचमयूराणां नादैर्विक्रुष्टकंदरे ॥२७॥

अप्सरोगणसंकीर्णे किन्नरैरुपशोभिते॥
जीवं जीवकजातीनां विरावैरुपकूजिते ॥२८॥

कोकिलारावबहुले सिद्धचारणसेविते॥
सौरभेयनिनादाढ्यं मेघस्तनितनिस्वने ॥२९॥

विनायकभयोद्विग्नकुं जरैर्मुक्तकंदरैः॥
वीणावादित्रनिर्घेषैः श्रोत्रेंद्रियमनोरमैः ॥३०॥

दोलालंबितसंघाते वनितासंघसेविते॥
ध्वजालंबितदोलानां घंटानां निनदाकुले ॥३१॥

वल्लकीवेणुबहुले त्रिंशद्बर्हिणसंकुले॥
मुखमर्द्दलवादित्रैर्वलितास्फोटितैस्तथा ॥३२॥

क्रीडावेगविवादानां निर्घोषैः पूर्णकंदरे॥
हंसैः परावतैश्चैव बकराजैः सुखस्थिते ॥३३॥

देहबंधैर्विचित्रैश्चप्रक्रीडितगणेश्वरे॥
सिंहव्याघ्रमुखैर्घोरवाशितैश्चंडवेगितैः ॥३४॥

मृगमषमुखैश्चान्यैर्गजवाजिमुखैस्तथा॥
बिडालवदनैश्चोग्रैः क्रोष्टुकाकारसूर्त्तिभिः ॥३५॥

ह्रस्वैर्दीर्घैश्च सुकृशैर्लंबोदरमहीदरैः॥
ह्रस्वजंघैः प्रलेबोष्ठैस्तालजंघैस्तथापरैः ॥३६॥

गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः॥
बहुपादैर्महापादैरेकपादैरपादकैः ॥३७॥

बहुनेत्रैर्महानेत्रैरेकनेत्रैरनेत्रकैः॥
एकदंष्ट्रैर्महादंष्ट्रैर्बहुदंष्ट्रैरदंष्ट्रकैः ॥३८॥

एकशीर्षैर्महाशीर्षबहुशीर्षैरशीर्षकैः॥
एकजिह्वैर्महाजिह्वैर्बहुजिह्वैरजिह्वकैः॥
एवंरूपैर्महायोगैभूतर्भूतपतिर्वृतः ॥३९॥

विशुद्धमुक्तामणिरत्नभूषिते शिलातले स्वर्णमये सुरम्यके॥
सुखोपविष्टं मदनागनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥४०॥

भगवन्भूतभव्येश गोवृषांकितशासन॥
तव कंठे महादेव भ्राजतेंबुदसन्निभम् ॥४१॥

नात्युल्बणं शुभंशुभ्रे नीलाबुजचयोपमम्॥
किमिदं दीप्यते देव कंठे कामांगनाशन ॥४२॥

को हेतुः कारणं किं वा कंठे नीलस्त्त्वमीश्वर॥
एतत्सर्वं यथान्यायं बूहि कौतूहलं हि मे ॥४३॥

श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पावतीप्रियः॥
कथां मंगलसंयुक्तां कथयामास शंकरः ॥४४॥

महेश्वर उवाच॥
मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः॥
अग्रे समुत्थितं घोरं विषंकालानलप्रभम् ॥४५॥

तं दृष्ट्वा सुरसंघस्च दैत्याश्चैव वरानने॥
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तकम् ॥४६॥

दृष्ट्वा सुरगणान्भीतान्ब्रह्मोवाच महाद्युतिः॥
किमर्थं वै महाभागा भीता उद्विग्नचेतनाः ॥४७॥

मया त्रिगुणमैश्वर्यं भवतां संप्रकल्पितम्॥
तेन व्यावर्त्तितैश्वर्या यूयं भो सुरसत्तमाः ॥४८॥

त्रलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः॥
प्रजासर्गे न सोऽस्तीह यश्चाज्ञां मेऽतिवर्तयेत् ॥४९॥

विमानचारिण सर्वे सर्वे स्वच्छंदगामिनः॥
आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः ॥५०॥

प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम्॥
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव ॥५१॥

किं दुःशं कोऽनुसंतापः कुतो वा भयमागतम्॥
एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ ॥५२॥

श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणः परमात्मनः॥
ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येंद्रदानवाः ॥५३॥

सुरासुरैर्मथ्यमाने पजोराशौ पितमाह॥
भुजंगभृंगसंकाशं नीलजीमूतसन्निभम् ॥५४॥

प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम्॥
कालमृत्युरिवोद्भूतं युगांतादित्यवर्चसम् ॥५५॥

त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत् समंततः॥
विषेणोत्तिष्ठमानेन कालानलसमत्विषा ॥५६॥

निर्दग्धो रक्तगौरांगो कृतः कृष्णो जनार्द्दनः॥
तं दृष्ट्वा रक्तगौरांगं कृतं कृष्णं जनार्द्दनम् ॥५७॥

ततः सर्वे वयं भीतास्त्वा मेव शरणं गताः॥
सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम् ॥५८॥

प्रत्युवाच महातेजा ब्रह्मा लोकपितामहः॥
श्रृण्वंतु देवताः सर्वे ऋषयश्च तपोधनाः ॥५९॥

यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ॥
विषं कालानलप्रख्यं कालकूटमिति श्रुतम् ॥६०॥

येन प्रोद्भूतमात्रेण न व्यराजंत देवताः॥
तस्य विष्णुरहं वापि सर्वे वा सुरपुंगवाः ॥६१॥

न शक्नुवंति वै सोढुं वेगमन्यत्र शंकरात्॥
इत्युक्त्वा पद्मगर्भाभः पद्मायोनिरयोनिजः ॥६२॥

ओंकारं समनुस्मृत्य ध्यायञ्जयोतिः समंततः॥
ततः स्तोतुं समारब्धो ब्रह्मा वेद विदां वरः ॥६३॥

नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे॥
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥६४॥

नमस्त्रैलोक्य नाथाय भूतानां पतये नमः॥
नमः सुरारिहंत्रे च सोमसूर्याग्निचक्षुषे ॥६५॥

ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः॥
सांख्याय चैव योगाय भूतग्रामाय वै नमः ॥६६॥

मन्मथांगविनाशाय कालपृष्ठाय वै नमः॥
सुरेतसेऽथ रुद्राय देवदेवाय रंहसे ॥६७॥

कपर्दिने करालाय शंकराय हराय च॥
कपालिने विरूपाय शिवाय वरदाय च ॥६८॥

त्रिपुरघ्नमखघ्नाय मातॄणां पतये नमः॥
वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च ॥६९॥

लोकत्रयैकवीराय चंद्राय वरुणाय च॥
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे ॥७०॥

रजसे चैव सत्त्वाय नमस्तेऽव्यक्तयोनये॥
नित्याय चैवानित्याय नित्यानित्याय वै नमः ॥७१॥

व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः॥
चिंत्याय चैवाचिंत्याय चिंत्याचिंत्याय वै नमः ॥७२॥

जगतामार्त्तिनाशाय प्रियनारायणाय च॥
उमाप्रियाय शर्वाय नंदिवक्त्रांकिताय च ॥७३॥

पक्षमासाह्द्धमासाय ऋतुसंवत्सराय च॥
बहुरूपाय मुंडाय दंडिने च वरूथिने ॥७४॥

नमः कपालहस्ताय दिग्वासाय शिखंडिने॥
धन्विने रथिने चैव यमिने ब्रह्मचारिणे ॥७५॥

ऋग्यजुः सामवेदाय पुरुषायेश्वराय च॥
इत्येव मादिचरितैः स्तोत्रैः स्तुत्य नमीऽस्तु ते॥
एवं स्तुत्वा ततो ब्रह्मा प्रणिपत्य वरानने ॥७६॥

ज्ञात्वा तु भक्तिं मम देवतानां गंगाजला स्फालितमुक्तकेशः॥
सूक्ष्मोऽसि योगातिशयादचिंत्यो न हि प्रभो व्यक्तिमुफैषि रुद्रः ॥७७॥

एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा॥
स्तुतोऽहं विविधैः स्तोत्रैर्वेदवेदांगसंभवैः ॥७८॥

ततोऽहं मुख्यया वाचा पितामहमथाब्रवम्॥
भूतभव्यभवन्नाथ लोकनाथ जगत्पते ॥७९॥

किं कार्यं ते मया ब्रह्मन्कर्त्तव्यं वद सुव्रत॥
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचांबुजेक्षणः ॥८०॥

भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर॥
सुरासुरैर्मथ्यमाने पयोधौ पंकजेक्षण ॥८१॥

भगवन्मेघसंकाशं नीलजीमूतसन्निभम्॥
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् ॥८२॥

तं दृष्ट्वा च वयं सर्वे भीताः संभ्रांतचेतसः॥
तत्पिबस्व महादेव लोकानां हितकाम्यया ॥८३॥

भवाञ्छक्तश्च भोक्ता वै भवान्देववरः प्रभो॥
त्वदृतेऽन्यो महादेव वेगं सोढुं न विद्यते ॥८४॥

एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः॥
बाढ मित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥८५॥

ततोऽहं पातुमारब्धो विषमंतकसन्निभम्॥
पिबतो मे महाघोरं विषं सुरभयप्रदम् ॥८६॥

कंठः समभवत्तूर्णं कृष्णो वै वरवर्णिनि॥
तं दृष्ट्वोत्पलपत्राभं कंठसक्तमिवोरगम् ॥८७॥

तक्षकं नागराजानं लेलिहानमिवोत्थितम्॥
अथोवाच महातेजा ब्रह्मा लोकपितामहः ॥८८॥

शोभसे त्वं महादेव कंठेनानेन सुव्रत॥
ततस्तस्य वचःश्रुत्वा मया गिरिवरात्मजे ॥८९॥

कंठे धृतं विषं घोरं नीलकण्ठस्ततोऽस्म्यहम्॥
पश्यतां सुरसंघानां दैत्यानां च वरानने॥
यक्षगंधर्वभूतानां पिशाचोरगरक्षसाम् ॥९०॥

तत्कालकूटं विषमुग्रवेगं कंठे धृतं पर्वतराजपुत्रि॥
निवेश्यमानं सुरदैत्यसंघो दृष्ट्वा परं विस्मयमाजगाम ॥९१॥

ततः मुरगणाः सर्वे सदैत्योरगराक्षसाः॥
ऊचुः प्रांजलयो भूत्वा मत्तमातंगगामिनि ॥९२॥

अहोबलं वीर्यपराक्रमस्ते त्वहो वपुर्योगबलं तवेश ॥९३॥

अहो प्रभुत्वं तव देवदेव महाद्भुतं मन्मथदेहनाशन॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ॥९४॥

त्वमेव सूर्यो रजनीकरश्च व्यक्तिस्त्वमेवास्य चराचरस्य॥
त्वमेव वह्निः पवनस्त्वमेव त्वमेव भूमिः सलिलं त्वमेव ॥९५॥

त्वमेव सर्वस्य चराचरस्य धाता विधाता प्रलयस्त्वमेव॥
इत्येव मुक्त्वा वचनं सुरेंद्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्रा॥
गता विमानैरनिलोपवेगैर्महानगं मेरुमुपेत्य सर्वे ॥९६॥

इत्येतत्परमं गुह्यं पुण्यात्पुण्यतमं महत् ॥९७॥

नीलकंठ इति प्रोक्तं त्रिषु लोकेषु विश्रुतम्॥
स्वयंभुवा स्वयं प्रोक्ता कथा पापप्रणाशिनी ॥९८॥

यस्तु धारयते नित्यं ब्रह्मोद्गीतामिमां शुभाम्॥
तस्याऽहं संप्रवक्ष्यामि फलं सुविपुलं महत् ॥९९॥

विषं तस्य वरारोहे स्थावरं जंगमं तथा॥
गात्रं प्राप्य तु सुश्रोणि क्षप्रं तत्प्रतिहन्यते ॥१००॥

शमायत्यशुभं घोरं दुःखप्नं चापकर्षति॥
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥१०१॥

विवादे जयमाप्नोति युद्धे विजयमेव च॥
गच्छति क्षेममध्वानं गृहेभ्यो नित्यसंपदा ॥१०२॥

शरीरस्येह वक्ष्यामि गतिं तस्य वरानने॥
हरिश्मश्रुर्नीलकंठः शशांकांकितमूर्द्धजः ॥१०३॥

त्र्यक्षस्त्रिशूलपाणिश्च वृष चानः पिनाकधृक्॥
नंदितुल्यबलः श्रीमान्नंदितुल्यपराक्रमः ॥१०४॥

विचरत्यखिलाँल्लोकाम्सप्तलोकान्ममाज्ञया॥
न हन्यते गति स्तस्य अनिलस्य यथांबरे ॥१०५॥

मम तुल्यबलो भूत्वा तिष्ठत्याभूतसंप्लवात्॥
मम भक्तया वरारोहे ये च श्रृम्वंति मानवाः ॥१०६॥

तेषां गतिं प्रवक्ष्यामि त्विह लोके परत्र च॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो विंदते महीम् ॥१०७॥

वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात्॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ॥१०८॥

गुर्विणी लभते पुत्रं कन्या विदति सत्पतिम्॥
नष्टं च लभते द्रव्यमिह लोके परत्र च ॥१०९॥

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्॥
तत्फलं लभते मर्त्यः श्रुत्वा दिव्या मिमां कथाम् ॥११०॥

पादं वाथार्द्धपादं वा श्र्लोकं श्र्लोकार्द्धमेव वा॥
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥१११॥

अथवा सर्वमेवेदं देवब्राह्मणसन्निधौ॥
यः पठेन्मानवो नित्यं मद्गतेनांतरात्मना ॥११२॥

श्रद्धधानः सदा भक्तो रूद्रलोकं स गच्छति॥
पठेच्च देवि भक्त्या च पाठयेच्च नरः सदा ॥११३॥

अतः परतरं स्तोत्रं न भूतं न भविष्यति॥
नापि यक्षाः पिशाचा वा न भूता न विनायकाः॥
कुर्युर्विघ्नं गृहे तस्य यत्रायं तिष्ठति स्तवः ॥११४॥

मया नु तुष्टेन तवांबुजेक्षणे स्तवस्य माहात्म्यम घौघनाशनम्॥
निवेदितं पुण्यफलादियुक्तं स्वयं च कीतं चतुराननेन ॥११५॥

कथामिमां पुण्यफलादियुक्तां निवेद्य देव्यै शशिबद्धमूर्द्धजः॥
वृषस्य पृष्ठेन सहोमया प्रभुजगाम कैलासगुहां गुहप्रियः ॥११६॥

श्रुतं मया पापहरं तदंतिके निवेदितं तेऽथ मया प्रजापतेः॥
अधीत्य सर्वं त्वखिलं सलक्षणं प्रयाति चादित्यपदं द्विजोत्तमः ॥११७॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्व भागे द्वितीयेऽनुषंगपादे
नीलकंठनामोत्पत्तिकथनं नाम पंचविंशतितमोऽध्यायः॥२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:48.9730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

State Tourist officer

  • राज्य पर्यटन अधिकारी 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.