TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः ३०

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः ३०
शांशापायनिरुवाच॥
कथं त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्त्तनम्॥
पूर्वं स्वायंभुवे सर्गे यथावत्तच्च ब्रूहि मे ॥१॥

अंतर्हितायां संध्यायां सार्द्धं कृतयुगेन वै॥
कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा ॥२॥

औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने॥
प्रतिष्ठितायां वार्त्तायां गृहाश्रमपरे पुनः ॥३॥

वर्णाश्रमव्यवस्थानं कृतवंतश्च संख्यया॥
संभारांस्तांस्तु मंभृत्य कथं यज्ञः प्रवर्त्तितः ॥४॥

एतच्छुत्वाऽब्रवीत्सूतः श्रूयतां शांशपायने॥
यथा त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्तनम् ॥५॥

पूर्वं स्वायंभुवे सर्गे तद्वक्ष्याम्यानुपूर्व्यतः॥
अंतर्हितायां संध्यायां सार्द्धं कृतयुगेन तु ॥६॥

कालाख्यायां प्रवृत्तायां प्रप्ते त्रेतायुगे तदा॥
औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने ॥७॥

प्रतिष्ठितायां वार्त्तायां गृहश्रमपरेषु च॥
वर्णाश्रमव्यवस्थानं कृत्वा मंत्रांस्तु संहतान् ॥८॥

मंत्रांस्तान्योजयित्वाथ इहामुत्र च कर्मसु॥
तदा विश्वभुगिंद्रश्च यज्ञं प्रावर्त्तयत्प्रभुः ॥९॥

दैवतैः सहितैः सर्वैः सर्वसंभारसंभृतैः॥
तस्याश्वमेधे वितते समाजग्मुर्महर्षयः ॥१०॥

यजंतं पशुभिर्मे ध्यैरूचुः सर्वे समागताः॥
कर्मव्यग्रेषु ऋत्विक्षु संतते यज्ञकर्मणि ॥११॥

संप्रगीथेषु सर्वेषु सामगेष्वथ सुस्वग्म्॥
परिक्रांतेषु लघुषु ह्यध्वर्युवृषभेषु च ॥१२॥

आलब्धेषु च मेध्येषु तथा पशुगणेषु च॥
हविष्यग्नौ हूयमाने ब्राह्मणैश्चाग्निहोत्रिभिः ॥१३॥

आहूतेषु च सर्वेषु यज्ञभाक्षु क्रमात्तदा॥
य इंद्रियात्मका देवास्तदा ते यज्ञभागिनः ॥१४॥

तद्यचन्ते तदा देवान्कल्पादिषु भवंति ये॥
अध्वर्यवः प्रैषकाले व्यत्थिता वै महर्षयः ॥१५॥

महर्षयस्तु तान्दृष्ट्वा दीनान्पशुगणांस्तदा॥
प्रपच्छुरिद्रं संभूय कोऽयं यज्ञ विधिस्तव ॥१६॥

अधर्मो बलवानेष हिंसाधर्मेप्सया ततः॥
ततः पशुवधश्चैष तव यज्ञे सुरोत्तम ॥१७॥

अधर्मो धर्मघाताय प्रारब्धः पशुहिसया॥
नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ॥१८॥

आगमेन भवान्यज्ञं करोतु यदिहेच्छति॥
विधिदृष्टेन यज्ञेन धर्मेणाव्यपसेतुना ॥१९॥

यज्ञबीचैः सुरेश्रष्ठ येषु हिंसा न विद्यते॥
त्रिवर्षं परमं कालमुषितैरप्ररोहिभिः ॥२०॥

एष धर्मो महाप्राज्ञ विरंचिविहितः पुरा॥
एवं विश्वभुगिंद्रस्तु ऋषिभिस्तत्त्वदर्शिभिः ॥२१॥

तदा विवादः सुमहानिंद्रस्यासीन्महर्षिभिः॥
जंगमस्थावरैः कैर्हि यष्टव्यमिति चोच्यते ॥२२॥

ते तु खिन्ना विवादेन तत्त्वमुत्त्वा महर्षयः॥
सन्धाय वाक्यमिंद्रेण पप्रच्छुः खेचरं वसुम् ॥२३॥

सहाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप॥
औत्तानपादे प्रब्रूहि संशयं नो नुद प्रभो ॥२४॥

श्रुत्वा वाक्यं वसुस्तेषाम विचार्य बलाबलम्॥
वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥२५॥

यथोपनीर्तैर्यष्टव्यमिति होवाच पार्थिवः॥
यष्टव्यं पशुभिर्मे ध्यैरथ बीजैः फलैरपि ॥२६॥

हिंसास्वभावो यज्ञस्य इति मे दर्शनागमौ॥
यथेह देवता मंत्रा हिंसालिंगा महर्षिभिः ॥२७॥

दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः॥
तत्प्रामाण्यान्मया चोक्तं तस्मात्स प्राप्तुमर्हथ ॥२८॥

यदि प्रमाणं तान्येव मंत्रवाक्यानि वै द्विजाः॥
तथा प्रवततां यज्ञो ह्यन्यथा वोऽनृतं वचः ॥२९॥

एवं कृतोत्तरास्ते वै युक्तात्मानस्तपोधनाः॥
अवश्यभावितं दृष्ट्वा तमथो वाग्यताऽभवन् ॥३०॥

इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम्॥
ऊर्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ॥३१॥

वसुधा तलवासी तु तेन वाक्येन सोऽभवत्॥
धर्माणां संशयच्छेत्ता राजा वसुरधोगतः ॥३२॥

तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशये॥
बहुद्वारस्य धर्मस्य सूक्ष्मा दूरतरा गतिः ॥३३॥

तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित्॥
देवानृषीनुपादाय स्वायंभुवमृते मनुम् ॥३४॥

तस्मादहिंसा धर्मस्य द्वारमुक्तं महर्षिभिः॥
ऋषिकोटिसहस्राणि स्वतपोभिर्दिवं ययुः ॥३५॥

तस्मान्न दानं यज्ञं वा प्रशंसंति महर्षयः॥
उञ्छमूलफलं शाकमुदपात्रं तपोधनाः ॥३६॥

एतद्दत्वा विभवतः स्वर्गे लोके प्रतिष्ठिताः॥
अद्रोहश्चाप्य लोभश्च तपो भुतदया दमः ॥३७॥

ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः॥
सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ॥३८॥

श्रूयंते हि तपःसिद्धा ब्रह्मक्षत्रादयोऽनघाः॥
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः ॥३९॥

सुधामा विरजाश्चैव शंखः पांड्यज एव च॥
प्राजीनबर्हिः पर्जन्यो हविर्धानादयो नृपः ॥४०॥

एते चान्ये च बहवः स्वैस्तपोभिर्दिवं गताः॥
राजर्षयो महासत्त्वा येषां कीर्त्तिः प्रतिष्ठिता ॥४१॥

तस्माद्विशिष्यते यज्ञात्तपः सर्वैस्तु कारणः॥
ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा ॥४२॥

तस्मान्नान्वेति तद्यज्ञस्तपोमूलमिदं स्मृतम्॥
द्रव्यमंत्रात्मको यज्ञस्तपस्त्वनशनात्मकम् ॥४३॥

यज्ञेन देवानाप्नोति वैराजं तपसा पुनः॥
ब्राह्मं तु कर्म संन्यासाद्वैराग्यात्प्रकृतेर्जयम् ॥४४॥

ज्ञानात्प्राप्नोति कैवल्यं पंचैतागतयः स्मृताः॥
एवं विवादः सुमहान्य ज्ञस्यासीत्प्रवर्त्तने ॥४५॥

देवतानामृषीणां च पूर्व स्वायंभुवेऽन्तरे॥
ततस्तमृषयो दृष्ट्वा हतं धर्मबलेन तु ॥४६॥

वसोर्वाक्यमना दृत्य जगमुः सर्वे यथागतम्॥
गतेषु मुनिसंघेषु देवा यज्ञं समाप्नुवन् ॥४७॥

यज्ञप्रवर्त्तनं ह्येवमासीत्स्वायंभुवेऽन्तरे॥
ततः प्रभृति यज्ञोऽयं युगैः सह विवर्त्तितः ॥४८॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
यज्ञप्रवर्त्तनं नाम त्रिशत्तमोऽध्यायः॥३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:49.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आडवंकी

  • अडवंकी - गी पहा . संकल्पाचीही आडवंगी । न करणें जें ॥ - ज्ञा १६ . २०३ . 
RANDOM WORD

Did you know?

कांही धर्मात प्रेताचे दहन तर कांहीत दफन कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site