TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः २६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः २६
ऋषय ऊचुः॥
महादेवस्य महात्म्यं प्रभुत्वं च महात्मनः॥
श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम् ॥१॥

सूत उवाच॥
पूर्वं त्रैलोक्यविजये विष्णुना समुदात्दृ तम्॥
बलिं बद्ध्वा महावीर्यं त्रैलोक्याधिपतिं पुरा ॥२॥

प्रनष्टेषु तु दैत्येषु प्रहृष्टे तु शचीपतौ॥
अथाजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सनातनम् ॥३॥

यत्रास्ते विश्वरूपात्मा क्षीरोदस्य मसीपतः॥
सिद्धा ब्रह्मर्षयो यक्षा गंधर्वाप्सरसां गणाः ॥४॥

नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः॥
अभिगम्य महात्मानं स्तुवंति पुरुषं हरिम् ॥५॥

त्वं धाता त्वं च कर्तासि त्वं लोकान्सृजसि प्रभो॥
त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम् ॥६॥

असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया॥
एवमुक्तः सुरैर्विष्णः सिद्धैश्च परमर्षिभिः ॥७॥

प्रत्युवाच तदा देवान् सर्वांस्तान्पुरुषोत्तमः॥
श्रूयतामभिधास्यामि कारणं सुरसत्तमाः ॥८॥

यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः॥
येनाहं ब्रह्मणा सार्द्धं सृष्टा लोकाश्च मायया ॥९॥

तस्यैव च प्रसादेन आदौ सिद्धत्वमागतः॥
पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रसिते मया ॥१०॥

उदरस्थेषु भूतेषु त्वेकोऽहं शयित स्तदा॥
सहस्रशीर्षा भूत्वा च सहस्राक्षः सहस्रपात् ॥११॥

शंखचक्रगदापाणिः शयितो विमलेंऽभसि॥
एतस्मिन्नंतरे दूरात्पश्यामि ह्यमितप्रभम् ॥१२॥

शतसूर्यप्रतीकाशं ज्वलंतं स्वेन तेजसा॥
चतुर्वक्त्रं महायोगं पुरुषं कांचनप्रभम् ॥१३॥

कृष्णाजिनधरं देवं कमंडलुविभूषितम्॥
निमेषांतरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ॥१४॥

ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः॥
कस्त्वं कुतो वा कि चेह तिष्ठसे वद मे विभो ॥१५॥

अहं कर्तास्मि लोकानां स्वयंभूर्विश्वतोमुखः॥
एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच तम् ॥१६॥

अहं कर्त्ता हि लोकानां संहर्ता च पुनः पुनः॥
एवं संभाषमाणौ तु परस्परजयैषिणौ ॥१७॥

उत्तरां दिशमास्थाय ज्वालामद्राक्ष्व विष्ठिताम्॥
ज्वालां ततस्तामालोक्य विस्मितौ च तदानघाः ॥१८॥

तेजसा च बलेनाथ शार्वं ज्योतिः कृतांजली॥
वर्द्धमानां तदा ज्वालामत्यंतपरमाद्भुताम् ॥१९॥

अभिदुद्राव तां ज्वालां ब्रह्मा चाहं च सत्वरौ॥
दिवं भूमिं च निर्भिद्य तिष्ठंतं जवालमंडलम् ॥२०॥

तस्या ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम्॥
प्रादेशमात्रमव्यक्तं लिंगं परमदीप्तिमत् ॥२१॥

न च तत्कांचनं मध्ये नशैलं न च राजतम्॥
अनिर्देश्यमचिन्त्यं च लक्ष्यालक्ष्यं पुनः पुनः ॥२२॥

ज्वालामालासहस्राढ्यं विस्मयं परमद्भुतम्॥
महता तेजसायुक्तं वर्दभमानंभृशंतथा ॥२३॥

ज्वालामालाततं न्यस्तं सर्वभूतभयंकरम्॥
घोररूपिणमत्यर्थं भिंदं तमिव रोदसी ॥२४॥

ततो मामब्रवीद्ब्रह्मा अधो गच्छ त्वमाशु वै॥
अंतमस्य विजानीवो लिंगस्य तु महात्मनः ॥२५॥

अहमूर्ध्वं गमिष्यामि यावदंतोऽस्य दृश्यते॥
तदा तु समयं कृत्वा गत उर्द्ध्वमधश्च हि ॥२६॥

ततो वर्षसहस्रं तु ह्यहं पुनरधो गतः॥
न पश्यामि च तस्यांतं भीतश्चाहं ततोऽभवम् ॥२७॥

तथैव ब्रह्मा ह्यूध्व च न चांतं तस्य लब्धवान्॥
समागतो मया सार्द्ध तत्रैव च महाभसि ॥२८॥

ततो विस्मयमापन्नौ भीतौ तस्य महात्मनः॥
मायया मोहितौ तेन नष्टसंज्ञै व्यवस्थितौ ॥२९॥

ततो ध्यानरतौ तत्र चेश्वरं सर्वतोमुखम्॥
प्रभवं निधनं चैव लौकानां प्रभुमव्ययम् ॥३०॥

प्रह्वांजलिपुटौ भूत्वा तस्मै शर्वाय शूलिने॥
महाभैरवनादाय भीमरूपाय दंष्ट्रिणे॥
अव्यक्तायाथ महते नमस्कारं प्रकुर्वहे ॥३१॥

नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महात्मन्॥
नमोऽस्तु ते शाश्वतसिद्धयोगिने नमोस्तु ते सर्वजगत्प्रतिष्ठित ॥३२॥

परमेष्ठी परं ब्रह्म त्वक्षरं परमं पदम्॥
ज्येष्ठस्त्वं वामदेवश्च रुद्रः स्कंदः शिवः प्रभुः ॥३३॥

त्वं य५स्त्वं वषट्कारस्त्वमोंकारः परंतपः॥
स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ॥३४॥

स्वधाकारश्च यज्ञश्च व्रतानि नियमास्तथा॥
वेदा लोकाश्च देवाश्च भगवानेव सर्वशः ॥३५॥

आकाशस्य च शब्दस्त्वंभूतानां प्रभवाप्ययः॥
भूमौ गंधो रसश्चाप्सु तेजोरूपं महेश्वरः ॥३६॥

वायोः स्पर्शश्च देवेश वपुश्चंद्रमसस्तथा ॥३७॥

बुद्धौ ज्ञानं च देवेश प्रकृतेर्बीजमेव च ॥३८॥

संहर्त्ता सर्वलोकानां कालो मृत्युमयोंऽतकः॥
त्वं धारयसि लोकांस्त्रींस्त्वमेव सृजसि प्रभो ॥३९॥

पूर्वेण वदनेन त्वमिंद्रत्वं प्रकरोषि वै॥
दक्षिणेन तु वक्त्रेण लोकान्संक्षिपसे पुनः ॥४०॥

पश्चिमेन तु वक्त्रेण वरुणस्थो न संशयः॥
उत्तरेण तु वक्त्रेण सोमस्त्वं देवसत्तमः ॥४१॥

एकधा बहुधा देव लोकानां प्रभवाप्ययः॥
आदित्या वसवो रुद्रा मरुतश्च सहाश्विनः ॥४२॥

साध्या विद्याधरा नागाश्चारणाश्च तपोधनाः॥
वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः ॥४३॥

त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः॥
उमा सीता सिनीवाली कुहूर्गायत्र्य एव च ॥४४॥

लक्ष्मीः कीर्त्तिर्धृतिर्मेधा लज्जा कांतिर्वपुः स्वधा॥
तुष्टिः पुष्टिः क्रिया चैव वाचां देवी सरस्वती॥
त्वत्तः प्रसूता देवेश संध्या रात्रिस्तथैव च ॥४५॥

सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चंद्रसहस्रगौर॥
नमोऽस्तु ते वज्रपिनाकधारिणे नमोस्तु ते देव हिरण्यवाससे ॥४६॥

नमोस्तु ते भस्मविभूषितांग नमोऽस्तु ते कामशरीरनाशन॥
नमोऽस्तु ते देव हिरण्यरेतसे नमोऽस्तु ते देव हिरण्यवाससे ॥४७॥

नमोऽस्तु ते देव हिरण्ययोने नमोऽस्तु ते देव हिरण्यनाभ॥
नमोऽस्तु ते देव हिरण्यरेतसे नमोऽस्तु ते नेत्रसहस्रचित्र ॥४८॥

नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यकेश॥
नमोऽस्तु ते देव हिरण्यवीर नमोऽस्तु ते देव हिरण्यदायिने ॥४९॥

नमोऽस्तु ते देव हिरण्यनाथ नमोऽश्तुते देव हिरण्यनाद॥
नमोऽस्तु ते देव पिनाकपाणे नमोऽश्तुते ते शंकर नीलकंठ ॥५०॥

एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः॥
देवदेवो जगद्योनिः सूर्य कोटिसमप्रभः ॥५१॥

आबभाषे कृपाविष्टो महादेवो महाद्युतिः॥
वक्त्रकोटिसहस्रेण ग्रसमान इवांबरम् ॥५२॥

कंबुग्रीवः सुज ठरो नानाभूषणभूषितः॥
नानारत्नविचित्रांगो नानामाल्यानुलेपनः ॥५३॥

पिनाकपाणिर्भगवान्सुरपूज्यस्त्रिशूलधृक्॥
व्यालय ज्ञोपवीती च सुराणामभयंकरः ॥५४॥

दुंदुभिस्वरनिर्घोषः पर्जन्यनिनदोपमः॥
मुक्तो हासस्तदा तेन सर्वमापूरयञ्जगत् ॥५५॥

तेन शब्देन महता चावां भीतौ महात्मनः॥
अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ॥५६॥

पश्यतां च महायोगं भयं सर्व प्रमुच्यताम्॥
युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ॥५७॥

्यं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः॥
वामो बाहुश्च मे विष्णुर्नित्यं युद्धेष्वनिर्जितः ॥५८॥

प्रीतोऽहं युवयोः सम्यग्वरं दद्यां यथैप्सितम्॥
ततः प्रहृष्टमनसौ प्रणतौ पादयोः प्रभोः ॥५९॥

अब्रूतां च महादेवं प्रसादाभिमुखं स्थितम्॥
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च ते॥
भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर ॥६०॥

देवदेव उवाच॥
एवमस्तु महाभागौ सृजतां विपुलाः प्रजाः॥
एवमुक्त्वा स भगवांस्तत्रैवातरधाद्विभुः ॥६१॥

एष एव मयोक्तो वः प्रभावस्तस्य धीमतः॥
एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम् ॥६२॥

एतत्सूक्ष्ममचिंत्यं च पश्यंति ज्ञ३नचक्षुषः॥
तस्मै देवाधिदेवाय नमस्कारं प्रकुर्महे॥
महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते ॥६३॥

सूत उवाच॥
एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम्॥
नमस्कारं प्रकुर्वाणाः शंकराय महात्मने ॥६४॥

इमं स्तवं पठिद्यस्तु चेश्वरस्य महात्मनः॥
कामांश्च लभते सर्वान् पापेभ्यश्च प्रमुच्यते ॥६५॥

एतत्सर्वं तदा तेन न विष्णुना प्रभविष्णुना॥
महादेवप्रसादेन ह्युक्तं ब्रह्म सनातनम्॥
एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ॥६६॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
लिंगोत्पत्तिकथनं नाम षड्विंशतितमोऽध्यायः॥ २६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:49.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

specific energies doctrine

  • विशेष ऊर्जा सिद्धांत 
RANDOM WORD

Did you know?

नाग आणि नागपंचमी यांचा परस्परसंबंध काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site