TransLiteral Foundation

अनुषङ्गापादः - अध्यायः ३७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः ३७
सूत उवाच॥
आसीदिह समुद्रांता वसुधेति यथा श्रुतम्॥
वसु धत्ते यतस्तस्माद्वसुधा सेति गीयते ॥१॥

मधुकैटभयोः पूर्वं मेदसा संपरिप्लुता॥
तेनेयं मेदिनीत्युक्ता निरुक्त्या ब्रह्मवादिभिः ॥२॥

ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः॥
दुहितृत्वमनुप्राप्ता पृथिवी पठ्यते ततः ॥३॥

पृथुना प्रविभागश्चधरायाः साधितः पुरा॥
तस्याकरवती राज्ञः पत्तनाकरमालिनी ॥४॥

चातुर्वर्णमयसमाकीर्णा रक्षिता तेन धीमता॥
एवंप्रभावोराजाऽसीद्वैन्यः सद्विजसत्तमाः ॥५॥

नमस्यश्चैव पूच्यश्च भूतग्रामेण सर्वशः॥
ब्राह्मणैश्च महाभागैर्वेदवेदांगपारगैः ॥६॥

पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः॥
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः ॥७॥

आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान्॥
योधैरपि च संग्रामे प्राप्तुकामैर्जयं युधि ॥८॥

आदिकर्त्तारणानां वै नमस्यः पृथुरेव हि॥
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम् ॥९॥

स घोररूपात्संग्रामात्क्षेमी तरति कीर्त्तिमान्॥
वैश्यैरपि च राजर्षिर्वेश्यवृत्तिमिहास्थितैः ॥१०॥

पृथुरेव नमस्कार्यो वृत्तिदानान्महायशाः॥
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ॥११॥

पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम्॥
ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना ॥१२॥

वायुं कृत्वा तथा वत्सं बीजानि वसुधातले॥
ततः स्वायंभुवे पूर्वं तदा मन्वंतरे पुनः ॥१३॥

वत्सं स्वायंभुवं कृत्वा सर्वसस्यानि चैव हि॥
ततः स्वारोचिषे वापि प्राप्ते मन्वंतरेऽधुना ॥१४॥

वत्सं स्वारोचिषं कृत्वा दुग्धा सस्यानि मेदिनी॥
उत्तमेन तु तेनापि दुग्धा देवानु जेन तु ॥१५॥

मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता॥
पुनश्च पंचमे पृथ्वी तामसस्यान्तरे मनोः ॥१६॥

दुग्धेयं तामसं वत्सं कृत्वा वै बलबंधुना॥
चारिष्टवस्य वै षष्ठे संप्राप्ते चांतरे मनोः ॥१७॥

दुग्धा मही पुराणेन वत्सं चारिष्टवं प्रति॥
चाक्षुषे चापि संप्राप्ते तदा मन्वंतरे पुनः ॥१८॥

दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम्॥
चाक्षुषस्यांतरेऽतीते प्राप्ते वैवस्वते पुनः ॥१९॥

वैन्येनेयं पुरा दुग्धा यथा ते कथितं मया॥
एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वंतरेषु वै ॥२०॥

देवादिभिर्मनुष्यैश्च ततो भूतादिभिश्च ह॥
एवं सर्वेषु विज्ञेया अतीतानागतेष्विह ॥२१॥

देवा मन्वंतरे स्वस्थाः पृथोस्तु श्रृणुत प्रजाः॥
पृथोस्तु पुत्रौ विक्रांतौ जज्ञातेऽन्तर्द्धिपाषनौ ॥२२॥

शिखंडिनी हविर्धानमंतर्द्धानाव्द्यजायत॥
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ॥२३॥

प्राचीनबर्हिषं शुक्लं गयं कृष्णं प्रजाचिनौ॥
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥२४॥

बलश्रुततपोवीर्यैः पृथिव्यामेकराडसौ॥
प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीनबर्ह्यसौ ॥२५॥

समुद्रतनयायां तु कृतदारः स वै प्रभुः
महतस्तपसः पारे सवर्णायां प्रजापतिः ॥२६॥

सवर्णाऽधत्त सामुद्री दश प्राचीनबर्हिषः॥
सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥२७॥

अपृथग्धर्मचरणास्तेऽतप्यंत महात्तपः॥
दशवर्ष सहस्राणि समुद्रसलिलेशयाः ॥२८॥

तपश्चतेषु पृथिवीं तप्यत्स्वथ महीरुहाः॥
अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षयः ॥२९॥

प्रत्याहृते तदा तस्मिञ्चाक्षुषस्यांतरे मनोः॥
नाशकन्मारुतो वातुं वृत्तं खमभवद्द्रुमैः ॥३०॥

दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः॥
तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः ॥३१॥

मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः॥
उन्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत् ॥३२॥

तानग्निरदहद्धोर एवमासीद्दुमक्षयः॥
द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु ॥३३॥

उपगम्याब्रवी देतान्राजा सोमः प्रचेतसः॥
दृष्ट्वा प्रयोजनं सत्यं लोकसंतानकारणात् ॥३४॥

कोपं त्यजत राजानः सर्वे प्राचीनबर्हिषः॥
वृक्षाः क्षित्यां जनिष्यंति शाम्यतामग्निमारुतौ ॥३५॥

रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनीः॥
भविष्यज्जनता ह्येषा धृता गर्भेण वै मया ॥३६॥

मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता॥
भार्या भवतु वो ह्येषा सोमगर्भा विवर्द्धिता ॥३७॥

युष्माकं तेजसाऽर्द्धेन मम चार्धेन तेजसा॥
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥३८॥

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै॥
अग्निनाऽग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥३९॥

ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः॥
संत्दृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥४०॥

मारिषायां ततस्ते वै मनसा गर्भमादधुः॥
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ॥४१॥

दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान्॥
असृजन्मनसा त्वादौ प्रजा दक्षोऽथ मैथुनात् ॥४२॥

अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः॥
विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः ॥४३॥

ददौ स दश धर्माय कश्यपाय त्रयां दश॥
कालस्य नयने युक्ताः सप्तविंशतिमिंदवे ॥४४॥

एभ्यो दत्त्वा ततोऽन्या वै चतस्रोऽरिष्टनेमिने॥
द्वे चैव बहुपुत्राय द्वे चैवांगिरसे तथा ॥४५॥

कन्यामेकां कृशाश्वाय तेभ्योऽपत्यं बभूव ह॥
अंतरं चाक्षुषस्याथ मनोः षष्ठं तु गीयते ॥४६॥

मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः॥
वसुदेवाः खगा गावो नागा दितिजदानवाः ॥४७॥

गंधर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः॥
ततः प्रभृति लोकेऽस्मिन्प्रजा मैथुनसंभवाः॥
संकल्पाद्दर्शनात्स्पर्शात्पूर्वासां सृष्टिरुच्यते ॥४८॥

ऋषिरुवाच॥
देवानां दानवानां च देवर्षिणां च ते शुभः॥
संभवः कथितः पूर्वं दक्षस्य च महात्मनः ॥४९॥

प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया॥
कथं प्राचे तस्त्वं च पुनर्लेभे महातपाः ॥५०॥

एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि॥
दौहित्रश्चैव सोमस्य कथं श्र्वशुरतां गतः ॥५१॥

सूत उवाच॥
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः॥
ऋषयोऽत्र न सुह्यंति विद्यावन्तश्च ये जनाः ॥५२॥

युगे युगे भवंत्येते सर्वे दक्षादयो द्विजाः॥
पुनश्चैव निरुध्यंते विद्वांस्तत्र न मुह्यति ॥५३॥

ज्यैष्ठ्यकानिष्ठ्यमप्येषां पूर्वमासीद्द्विजोत्तमाः॥
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥५४॥

इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम्॥
प्रजावानायुषस्तीर्णः स्वर्गलोके महीयते ॥५५॥

एवं सर्गः समाख्यातश्चाक्षुषस्य समासतः॥
इत्येते षट् निसर्गाश्च क्रांता मन्वंतरात्मकाः ॥५६॥

स्वायंभुवाद्याः संक्षेपाच्चाशुषांता यथाक्रमम्॥
एते सर्गा यथा प्राज्ञैः प्रोक्ता ये द्विजसत्तमाः ॥५७॥

वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः॥
अन्यूनानतिरिक्तास्ते सर्वे सर्गा विवस्वतः ॥५८॥

आरोग्यायुः प्रमाणेभ्यो धर्मतः कामतोऽर्थतः॥
एतानेव गुणानेति यः पठन्ननसूयकः ॥५९॥

वैवस्वतस्य वक्ष्यामि सांप्रतस्य महात्मनः॥
समासव्यासतः सर्गं ब्रुवतो मे निबोधत ॥६०॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
चाक्षुषसर्गवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः॥३७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:49.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

press advertisement

  • प्रेस-विज्ञापन, अखबारी विज्ञापन 
RANDOM WORD

Did you know?

औक्षणाच्या निरांजनात तेल वापरावे की तूप
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site