TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनुषङ्गापादः - अध्यायः २७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः २७
ऋषय ऊचुः॥
भूयः सूत महाबुद्धे कथयस्व महात्मनः॥
महादेवस्य माहात्म्यं श्रोतुं कौतूहलं च नः ॥१॥

कथं दारुवणे देवऋषिसंघनिषेविते॥
चकार वेषं विकृतं येन बुद्धा महर्षयः ॥२॥

ज्ञात्वा च ते महादेवं ततो भ्रांता ह्यचेतसः॥
आराधयन्प्रसादार्थं नैषां तुष्टः पुनर्भवः ॥३॥

एतत्सर्वं यथावृत्तं देवदेवेन चेष्टितम्॥
तत्सर्वं कथयस्वेह त्वं नो बुद्धिमतां वरः ॥४॥

सूत उवाच॥
श्रूयतामभिधास्यामि धर्ममेतमतंद्रिताः॥
निर्म्मितं देवदेवेन भक्तानामनुकंपया ॥५॥

पुरा कृतयुगे विप्राः श्रृंगे हिमवतः शुभे॥
देवदारुवनं रम्यं नानाद्रुमलताकुलम् ॥६॥

बहवो मुनयस्तत्र तपस्यंतो मुनिव्रताः॥
शैवाल भोजनाः केचित्केचिदंतर्जलेशयाः ॥७॥

केचिदभ्रावकाशास्तु पादांगुष्ठाग्रधिष्ठिताः॥
दंतोलूखलिनश्चान्ये त्वश्मकुट्टास्तथा परे ॥८॥

स्थानवीरासनाश्चान्ये मृगयर्यारतास्तथा॥
कालं नयंति तपसा तीव्रेण च महाधियः ॥९॥

ततस्तेषां प्रसादार्थ देवस्तद्वनमागतः॥
भस्मपांडुरदिग्धांगो नग्नो विकृतलक्षणः ॥१०॥

विकृतस्रस्तकेशश्च करालदशनस्तथा॥
उल्मुकव्यग्रहस्तश्च रक्तपिंगललोचनः ॥११॥

शिश्नं सवृषणं तस्य रक्तगैरिकसन्निभम्॥
मुखमंगारवर्णेन शुक्लेन च विभूषितम् ॥१२॥

क्वचित्स हसते रौद्रं क्वचिद्गायति विस्मि तः॥
क्वचिन्नृत्यति श्रृंगारी क्वचिद्रौति मुहुर्मुहुः ॥१३॥

नृत्यंत रुरुधुस्तूर्णं पत्न्यस्तेषां विमोहिताः॥
आश्रमेऽभ्यागतोऽभीक्ष्णं या चते च पुनः पुनः ॥१४॥

भार्या कृता तथारूपा तृणाभरणभूषिता॥
वृषनादं प्रगर्जन्वै खरनादं ननाद च ॥१५॥

तथा वंचितुमा रब्धो हासयन्सर्वदेहिनः॥
ततस्ते मुनयः क्रुद्धाः क्रोधेन कलुषीकृताः ॥१६॥

मोहिता मायया सर्वे शपितुं समुपस्थिताः॥
करवद्गायसे यस्मात्खरस्तस्माद्भविष्यसि ॥१७॥

राक्षसो वा पिशाचो वा दानवो वाथ वा तथा॥
यथा वैच्छंस्तथा सर्वे क्रुद्धास्ते मुनयः समम् ॥१८॥

शेपुः शासैस्तु विविधैस्तं देवं भुवनेश्वरम्॥
तपांसि तेषां सर्वेषां प्रत्याहन्यंत शंकरे ॥१९॥

यथादित्यप्रकाशेन तारका नभसि स्थिताः॥
न द्योतंते प्रकाशेन तद्वत्तेजांसि शंकरे ॥२०॥

श्रूयते ऋषिशापेन ब्रह्मणः सुमहात्मनः॥
समृद्धः श्रेयसां यौनिर्यज्ञो वै नाशमाप्तवान् ॥२१॥

भृगोरपि च शापेन विष्णुः परमवियवान्॥
प्रादुर्भावान्दश प्राप्तो दुःखितश्च सदा कृतः ॥२२॥

इंद्रस्यापि हि धर्मज्ञः शिश्नं सवृषणं पुरा॥
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम् ॥२३॥

गर्भवासो वसूनां च शापेन विहित स्तथा॥
ऋषीणां चैव शापेन नहुषः सर्पतां गतः ॥२४॥

क्षीरोदश्च समुद्रश्च ह्यपेयो ब्राह्मणैः कृतः॥
धर्मश्चात्र प्रशप्तो वै मांडव्येन महात्मना ॥२५॥

एते चान्ये च बहवो यातनां च समागताः॥
वर्जयित्वा विरूपाक्षं देवदेवं महेश्वरम् ॥२६॥

एवं हि मोहितास्तेन न चाबुद्ध्यंत शंकरम्॥
ततस्ते ऋषयः सर्वे परस्परमथाब्रुवन् ॥२७॥

न चायं विधिरस्माकं गृहस्थानां विधीयते॥
ब्रह्मचर्य रतानां च वने वा वनवासिनाम् ॥२८॥

यतीनां वा तथा धर्मो नायं दृष्टः कथंचन॥
अनयस्तु महानेष येनायं मोहितो द्विजाः ॥२९॥

लिंगं प्रपातयस्वैतन्नायं धर्मस्तपस्विनाम्॥
वदस्व वाचा मधुरं वस्त्रमेकं समाश्रय ॥३०॥

त्याजिते च त्वया लिंगे ततः पूजामवाप्स्यसि॥
ऋषीणां तद्वचः श्रुत्वा भगवान्भगनेत्रहा ॥३१॥

उवाच श्लक्ष्णया वाचा प्रहसन्निव शंकरः॥
न शक्यमिदमस्मा कं लिंगं पातयितुं बलात् ॥३२॥

ब्रह्मादिदैवतैः सर्वैः किमुतान्यैस्तपोधनैः॥
पातयेयमहं चैतल्लिंगं भो द्विजसत्तमाः ॥३३॥

आश्रमे तिष्ठ वा गच्छ वाक्यमित्येव तेऽब्रुवन्॥
एवमुक्तो महादेवः प्रत्दृष्टेन्द्रियचेष्टितः ॥३४॥

सर्वेषां पश्यतामेव तत्रैवांतर्दधे प्रभुः॥
अंतर्हिते भगवति तथा लिंगे कृते भवे ॥३५॥

त्रैलोक्ये सर्वभूतानां प्रादुर्भावो न जायते॥
व्याकुलं च तदा सर्वं न प्रकाशेत किंचन ॥३६॥

तपते चैव नादित्यो निष्प्रभः पावकस्तथा॥
नक्षत्राणि ग्रहाश्चैव विपरीता विजज्ञिरे ॥३७॥

संतानार्थ प्रवृत्तानामृषीणां विभवात्मनाम्॥
क्रतवो न व्यवर्त्तंत ऋतुकालाभिगामिनाम् ॥३८॥

ते चरति पुनर्द्धर्म्मं निर्ममा निरहंकृताः॥
नष्टप्रभाववीर्याश्च नष्टतेजस एव च ॥३९॥

धर्मे चैव मतिस्तेषां तदा न व्यवतिष्ठते॥
ते तुसर्वे समागम्य ब्रह्मलोकमुपागताः ॥४०॥

ब्रह्मणो भवनं गत्वा दृष्ट्वा पुष्पकसंभवम्॥
पादयोः पतिताः सर्वे शिववृत्तांतमूचिरे ॥४१॥

विकटः स्तब्धकेशश्च करालदशनस्तथा॥
उलूकव्यग्रहस्तश्च रक्तपिंगललोचनः ॥४२॥

शिश्नं सवृषणं तस्य रक्तं गैरिकमंडितम्॥
स्नुषाणां च दुहितॄणां पुत्रीणां च विशेषतः ॥४३॥

वर्तमानस्ततः पार्श्वे विपरीताभिलाषतः॥
उन्मत्त इति विज्ञाय सोऽस्माभिरवमानितः ॥४४॥

आक्रुष्टस्ताडितश्चापि लिंगं चाप्यस्य चोद्धृतम्॥
तस्य क्रोधप्रसादार्थं वयं ते शरणं गताः ॥४५॥

एतत्कार्यं न जानीमस्तन्नो ब्रूहि पितामह॥
ऋषीणां तद्वचः श्रुत्वा ध्यानाद्विज्ञाय चेश्वरम् ॥४६॥

प्रत्युवाच ततो ब्रह्मा वाक्यं च सुसमा हितः॥
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ॥४७॥

न तस्य परमं किंचित्पदं समधिगम्यते॥
देवानां च ऋषीणां च पितृणां चैव स प्रभुः ॥४८॥

सहस्रयुगपर्यंते प्रलये सर्वदेहिनाम्॥
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥४९॥

एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा॥
एष चिक्री च वक्षोजश्रीवत्सकृतलक्षणः ॥५०॥

येगी कृतयुगे चैव त्रेतायां क्रतुरुच्यते॥
द्वापरे चैव कालाग्निर्धर्मकेतुः कलौ स्मृतः ॥५१॥

रुद्रस्य मूर्त्तयस्तिस्रो विज्ञेयाश्चापि पंडितैः॥
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकः ॥५२॥

मूर्त्तिरेका स्मृता यस्य दिग्वासाश्च शिवाह्वया॥
यत्र तिष्ठंति तद्ब्रह्मयोगेन तु समन्वितम् ॥५३॥

तस्माद्देवं देवदेवमी शानं प्रभुमव्ययम्॥
आराधयत विप्रेन्द्रा जितक्रोधा जितेंद्रियाः ॥५४॥

दृष्टं वै यादृशं तस्य लिंगमासीन्महात्मनः॥
तादृक्प्रतिकृतिं कृत्वा शूलपाणिं प्रपद्यत ॥५५॥

ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः॥
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रमश्यति ॥५६॥

ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम्॥
आस्थिता वीतशोकास्ते देवदारुवने ततः ॥५७॥

आराधयितुमारब्धा ब्रह्मणा कथितं यथा॥
स्थंडिलेषु विचित्रेषु पर्वतेषु गुहासु च ॥५८॥

नदीनां च विचित्रेषु पुलिनेषु शुभेषु च॥
एवं संवत्सरे पूर्णे वसंते समुपस्थिते॥
तदेव रूपमास्थाय देवस्तद्वनमागतः ॥५९॥

कुसुमितबहुपादपालताकं भ्रमरगणै रुपगीयमानखण्डम्॥
परभृतपरिपूर्णचारुशब्दं प्रविशति तद्वनमाश्रमं महेशः ॥६०॥

ततस्तं मुनयः सर्वे तुष्टुवुः सुसमाहिताः ॥६१॥

अद्भिर्विवधमाल्यैश्च धूपमन्धैस्तथैव च॥
सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः ॥६२॥

मृदु भस्ते तदा वाग्भिर्गिरीशमिदमब्रुवन्॥
अज्ञानाद्देवदेवस्य यदस्माभिग्नुष्ठितम् ॥६३॥

कर्मणा मनसा वाचा तत्सर्वं क्षंतुमर्हसि॥
चरितानि विचित्राणि गुह्यानि गहनानि च ॥६४॥

ब्रह्मादीनां च देवानां दुर्विज्ञेयानि शंकर॥
स्वागतं ते न जानीमो गतिं नैव च नैव च ॥६५॥

विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते॥
स्तुवंति त्वां महात्मानो देवदेवं महेश्वरम् ॥६६॥

नमो भवाय भव्याय भावनायोद्भवाय च॥
अनन्तबलवीर्याय भूतानां पतये नमः ॥६७॥

संहर्त्रे कपिशांगाय अव्ययाय व्ययाय च॥
गंगा सलिलधाराय चाधाराय गुणात्मने ॥६८॥

त्र्यंबकाय त्रिनेत्राय त्रिशूलवरधारिणे॥
कंदर्पाय नमस्तुभ्यं नमोऽस्तु परमात्मने ॥६९॥

शकराय वृषांकाय गणानां पतये नमः॥
दंडहस्ताय कालाय पाशहस्ताय वै नमः ॥७०॥

वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः॥
भूतं भव्यं भविष्यच्च स्थावरं चंगमं च यत् ॥७१॥

तव देहात्समुत्पन्नं देव सर्वमिदं जगत्॥
शेभो पाहि च भद्रं ते प्रसीद भगवंस्ततः ॥७२॥

अज्ञानाद्यदि वा ज्ञानाद्यत्किंचित्कुरुते नरः॥
तत्सर्वं भगवानेव कुरुते योगमायया ॥७३॥

एवं स्तुत्वा तु मुनयः प्रहृष्टेनांतरात्मना॥
याचंते तपसा युक्ताः पश्यामस्त्त्वां यथा पुरा ॥७४॥

प्रकृतिस्थं च ते लिंगं तथैवास्तु यथा पुरा॥
नमो दिग्वाससे नित्यं किंकिणीजालमालिने ॥७५॥

विकटाय करालाय करालवदनाय च॥
अरूपाय सुरूपाय विश्वरूपाय ते नमः ॥७६॥

कटंकटाय रूद्राय स्वाहाकाराय वै नमः॥
सर्वप्राणात्मने तुभ्यं गुणदेहाय वै नमः ॥७७॥

दुर्ग्गन्धाय सुगन्धाय शूलहस्ताय वै नमः॥
स्वयं नीलशिखंडाय श्रीकण्ठाय नमो नमः॥
नीलकण्ठाय देवाय चिताभस्मांगरागिणे ॥७८॥

गुणत्रयात्मने तुभ्यं नमो विश्वाय वेधसे॥
श्मशानवासिने नित्यं प्रेतरूपाय वै नमः ॥७९॥

त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः॥
आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यते ॥८०॥

पर्वतानां महामेरुर्नक्षत्राणां च चंद्रमाः॥
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ॥८१॥

ओंकरः सर्ववेदानां ज्येष्ठसाम च सामसु॥
आरण्यानां च सर्वेषां सिंहस्त्वं परमेश्वरः ॥८२॥

ग्राम्याणामृषभश्चापि भगवाँल्लोकपूजितः॥
सर्वथा वर्त्तमानोऽपि योयो भावो भविष्यति ॥८३॥

त्वामेव तत्र पश्यामो ब्रह्मणा कथितं यथा॥
कामः क्रोधश्च लोभश्च विषादो मद एव च ॥८४॥

एतदिच्छाम वै रोद्धुं प्रसीद परमेश्वर॥
महासंहरणे प्राप्ते त्वया देव कृतात्मना ॥८५॥

करं ललाटे संपीड्य वह्निरुत्पादितस्त्वया॥
तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः ॥८६॥

तस्मादग्निसमा ह्येते बहवो विकृताग्नयः॥
यानि चान्यानिभूतानि स्थावराणि चराणि च ॥८७॥

दह्यंते प्राणिनस्ते तु त्वत्समुत्थेन वाह्निना॥
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥८८॥

त्वं च लोकहितार्थाय भूतानि परिषिंचसि॥
महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥८९॥

आज्ञापय वयं नाथ कर्त्तारो वचनं तव॥
रूपकोटिसहस्रेषु रूपकोटिशतेषु च ॥९०॥

अंतं गंतुं न शक्ताः स्म तव देव नमोऽस्तु ते॥
ततस्तु भगवानीश इदं वचनमब्रवीत् ॥९१॥

ये हि मे भस्मनिरता भस्मना दग्धकिल्बिषाः॥
यथोक्तकारिणो दांता विप्रा ध्यानपरायणाः ॥९२॥

न तान्परिवदेद्विद्वान् न च तानतिलंघयेत्॥
न चेमानप्रियं ब्रूयादमुत्रेह हितार्थवान् ॥९३॥

यस्तान्निन्दति मूढात्मा महादेवंस निंदति॥
यस्त्वेतान्पूजयेन्नित्यं स पूजयति शङ्करम्॥
एवं चरथ भद्रं वो मत्तः सिद्धिमवाप्स्यथ ॥९४॥

अतुलमिह महातमः प्रणाशंशिवकथितं परमं विधिं विदित्वा॥
अपगतभयलोभमोहचिंताः सह पतिताः महसा शिरोभिरूहुः ॥९५॥

ततस्ते मुदिता विप्राः प्रकृतिस्थे महेश्वरे॥
गन्धोदकैः सुशुद्धैश्च कुशपुष्पविमिश्रितैः ॥९६॥

स्नापयंति महाकुम्भैरद्भिर्देवं महेश्वरम्॥
गायंति विविधैर्गुह्यैर्हुंकारैश्चापि सुक्वरैः ॥९७॥

नमो दिग्वाससे देव किंकिणीध्राय वै नमः॥
अर्द्ध नारीशरीराय सांख्ययोगप्रवर्त्तिने ॥९८॥

घनवाहनकृष्णाय गजचर्मनिवासिने॥
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥९९॥

सुरचितचित्रविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम्॥
मृगपतिवरचर्मवाससे ते पृथुपरशो च नमोस्तु शंकराय ॥१००॥

भूयश्च स्थापिते लिंगे लोकानां हितकाम्यया॥
वर्णधर्मपराश्चैव चेरुस्ते मुनिसत्तमाः ॥१०१॥

ततस्तान्स मुनीन्प्रीतः प्रत्युवाच महेश्वरः॥
प्रीतोस्मि युष्मत्तपसा वरं वृणुत मुव्रताः ॥१०२॥

ततस्ते मुनयस्सर्वे प्रणिपत्य महेश्वरम्॥
भृग्वंगिरा वसिष्ठश्च विश्वामित्रस्तथैव च ॥१०३॥

गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः॥
मरीचिः कश्यपश्चापि संवर्तश्च महातपाः ॥१०४॥

ते प्रणम्य महादेवमिदं वचनमब्रुवन्॥
भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता॥
सेव्यासेव्यत्वं तु विभो एतदिच्छाम वेदितुम् ॥१०५॥

भगवानुवाच॥
एतद्वः संप्रवक्ष्यामि कथासर्वस्वमद्य वै॥
अग्निर्ह्यहं सोमयुतः सोमश्चाग्निमुपश्रितः ॥१०६॥

कृताकृतं वदंत्यग्निं भूयो लोकाः समाश्रिताः॥
असकृच्चाग्निना दग्धं जगत्स्थावरजंगमम् ॥१०७॥

भस्मसाध्यं हि तत्सर्वं पवित्रमिद मुत्तमम्॥
भस्मना वीर्यमास्थाय भूतानि परिषिंचति ॥१०८॥

अग्निकार्यं च यत्कृत्वा करिष्यति च त्र्यायुषम्॥
भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः ॥१०९॥

भासयत्येव यद्भस्म शुभं वासयते च यत्॥
तत्क्षणात्सर्वपापानां भस्मेति परिकीर्त्यते ॥११०॥

ऊष्मपाः पितरो ज्ञेया देवा वै सोमसंभवाः॥
अग्नीषोमात्मकं सर्वं जगत्स्थावरजं गमम् ॥१११॥

अहमग्निर्महातेजाः सोमश्चैषा ममांबिका॥
अहमग्निश्च सोमश्च प्रकृत्या पुरुषः स्वयम् ॥११२॥

तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते॥
स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः ॥११३॥

तदा प्रभृति लोकेषु रक्षार्थमशुभेषु च॥
भस्मना क्रियते रक्षा सूतिकानां गृहेषु च ॥११४॥

भस्मस्नानविशुद्धात्मा जितक्रोधो जितेंद्रियः॥
मत्समीपसुपागम्य न भूयो विनिवर्तते ॥११५॥

व्रतं पाशुपतं योगं कापालं योगनिर्मितम्॥
पूर्वं पाशुपतं ह्येतन्निर्मितं तदनुत्तमम् ॥११६॥

शेषाश्चाश्रमिणः सर्वे पश्चात्सृष्टाः स्वयंभुवा॥
सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका ॥११७॥

नग्ना एव हि जायंते देवता मुनयस्तथा॥
ये चान्येमानवा लोके सर्वे जायंत्यवाससः ॥११८॥

इंद्रियैरजितैर्नग्ना दुकूलेनापि संवृताः॥
तैरेव संवृतो गुप्तोन वस्त्रं कारणं स्मृतम् ॥११९॥

क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः॥
तुल्यौ मानापमानौ च तत्प्रावरणमुत्तमम् ॥१२०॥

भस्मपांडुरदिग्धांगो ध्यायते मनसा भवम्॥
यद्यकार्यसहस्राणि कृत्वा स्नायति भस्मना ॥१२१॥

तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम्॥
तस्मा द्यत्नपरो भूत्वा त्रिकालमपि यः सदा ॥१२२॥

भस्मना कुरुते स्नानं गाणपत्यं स गच्छति॥
संहृत्य च क्रतून्सर्वान्गृहीत्वामृतमुत्त मम् ॥१२३॥

ध्यायंति ये महादेवं लीनास्तद्भावभाविताः॥
उत्तरेणाथ पंथानं तेऽमृतत्वमवाप्नुयुः ॥१२४॥

दक्षिणेनाथ पंथानं ये श्मशानानि भेजिरे॥
अणिमा महिमा चैव लघिमा प्राप्तिरेव च ॥१२५॥

गरिमा पंचमी चैव षष्ठं प्राकाम्यमेव च॥
ईशित्वं च वशित्वं च ह्यमरत्वं च ते गताः ॥१२६॥

इंद्रादयस्तथा देवाः कामिकं व्रतमास्थिताः॥
ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः ॥१२७॥

व्यपगतमदमोहमुक्तरागास्तमेरहजदोषविवर्जितस्वभावाः॥
परिभवमिदमुत्तमं विदित्वा पशुपतिदयितमिदं व्रतं चरध्वम् ॥१२८॥

यः पठेद्वै शुचिर्भूत्वा श्रद्दधानो जितेंद्रियः॥
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥१२९॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपाद
दारुवनप्रवेशभस्मस्नानविधिर्नाम सप्तविंशतितमोऽध्यायः॥२७॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:49.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

objective function

  • उद्दिष्ट फल 
  • उद्दिष्ट फल 
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.