TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ६

वराहपुराणम् - अध्यायः ६

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अध्यायः ६
धरण्युवाच ।
स वसुः संशयच्छेदं प्राप्य रैभ्यश्च सत्तमः ।
उभौ किं चक्रतुर्देव श्रुत्वा चाङ्गिरसं वचः ॥१॥
श्रीवराह उवाच ।
स वसुः सर्वधर्मज्ञः स्वराज्यं प्रतिपालयन् ।
अयजद् बहुभिर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥२॥
कर्मकाण्डेन देवेशं हरिं नारायणं प्रभुम् ।
तोषयामास राजेन्द्रस्तमभेदेन चिन्तयन् ॥३॥
ततः कालेन महता तस्य राज्ञो मतिः किल ।
निवृत्तराज्यभोगस्य द्न्द्वस्यान्तमुपेयुषी ॥४॥
ततः पुत्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य ह ।
अभिषिच्य स्वके राज्ये तपोवनमुपागमत् ॥५॥
पुष्करं नाम तीर्थानां प्रवरं यत्र केशवः ।
पुण्डरीकाक्षनामा तु पूज्यते तत्परायणैः ॥६॥
तत्र गत्वा स राजर्षिः काश्मीराधिपतिर्वसुः ।
अतितीव्रेण तपसा स्वशरीरमशोषयत् ॥७॥
पुण्डरीकाक्षपारं तु स्तवं भक्त्या जपन् बुधः ।
आरिराधयिषुर्देवं नारायणमकल्मषम् ।
स्तोत्रान्ते तल्लयं प्राप्तः स राजा राजसत्तमः ॥८॥
धरण्युवाच ।
पुण्डरीकाक्षपारं तु स्तोत्रं देव कथं स्मृतम् ।
कीदृशं तन्ममाचक्ष्व परमेश्वर तत्त्वतः ॥९॥
श्रीवराह उवाच ।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ॥१०॥
विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥११॥
आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।
गम्भीरं सर्वदेवानां नमामि मधुसूदनम् ॥१२॥
विश्वमूर्तिं महामूर्तिं विद्यामूर्तिं त्रिमूर्तिकम् ।
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥१३॥
सहस्त्रशीर्षिणं देवं सहस्त्राक्षं महाभुजम् ।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥१४॥
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ।
नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥१५॥
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ।
भावाभावविनिर्मुक्तं मस्ये सर्वगं हरिम् ॥१६॥
नान्यत् किंचित् प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत ।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥१७॥
एवं तु वदतस्तस्य मूर्त्तिमान् पुरुषः किल ।
निर्गत्य देहान्नीलाभो घनचण्डो भयंकरः ॥१८॥
रक्ताक्षो ह्रस्वकायस्तु दग्धस्थूणासमप्रभः ।
उवाच प्राञ्जलिर्भूत्वा किं करोमि नराधिप ॥१९॥
राजोवाच ।
कोऽसि किं कार्यमिह ते कस्मादागतवानसि ।
एतन्मे कथय व्याध एतदिच्छामि वेदितुम् ॥२०॥
व्याध उवाच ।
पूर्वं कलियुगे राजन् राजा त्वं दक्षिणापथे ।
पूर्णधर्मोद्भवः श्रीमाञ्जनस्थाने विचक्षणः ॥२१॥
स कदाचिद् भवान् वीर तुरगैः परिवारितः ।
अरण्यमागतो हन्तुं श्वापदानि विशेषतः ॥२२॥
तत्र त्वयाऽन्यकामेन मृगवेषधरो मुनिः ।
दण्डयुग्मेन दूरे तु पातितो धरणीतले ॥२३॥
सद्यो मृतश्च विप्रेन्द्रस्त्वं च राजन् मुदा युतः ।
हरिणोऽयं हत इति यावत् पश्यसि पार्थिव ।
तावन्मृगवपुर्विप्रो मृतः प्रस्त्रवणे गिरौ ॥२४॥
तं दृष्ट्वा त्वं महाराज क्षुभितेन्द्रियमानसः ।
गृहं गतस्ततोऽन्यस्य कस्यचित् कथितं त्वया ॥२५॥
ततः कतिपयाहस्य त्वया रात्रौ नरेश्वर ।
ब्रह्महत्याभयाद्भीतचितेनैतद् विचिन्तितम् ।
कृत्यं करोमि शान्त्यर्थं मुच्यते येन पातकात् ॥२६॥
ततस्त्वया महाराज सकृन्नारायणं प्रभुम् ।
संचिन्त्य द्वादशी शुद्धा त्वया राजन्नुपोषिता ॥२७॥
नारायणो मे सुप्रीत इति प्रोक्त्वा शुभेऽहनि ।
गौर्दत्ता विधिना सद्यो मृतोऽस्युदरशूलतः ॥२८॥
अभुक्तो द्वादशीधर्मे यत् तत्रापि च कारणम् ।
कथयामि भवत्पत्नी नाम्ना नारायणी शुभा ॥२९॥
सा कण्ठगेन प्राणेन व्याहृता तेन ते गतिः ।
कल्पमेकं महाराज जाता विष्णुपुरे तव ॥३०॥
अहं च तव देहस्थः सर्वं जानामि चाक्षयम् ।
ब्रह्मग्रहो महाघोरः पीडयामीति मे मतिः ॥३१॥
तावद्विष्णोस्तु पुरुषैः किङ्करैर्मुसलैरहम् ।
प्रहतः संक्षयं यातस्ततस्ते रोमकूपतः ।
स्वर्गस्थस्यापि राजेन्द्र स्थितोऽहं स्वेन तेजसा ॥३२॥
ततोऽहःकल्पनिर्वृत्ते रात्रिकल्पे च सत्तम ।
इदानीमादिसृष्टौ तु कृते नृपतिसत्तम ॥३३॥
संभूतस्त्वं महाराज राज्ञः सुमनसो गृहे ।
काश्मीरदेशाधिपतेरहं चाङ्गरुहैस्तव ॥३४॥
यज्ञैरिष्टं त्वयानेकैर्बहुभिश्चाप्तदक्षिणैः ।
न चाहं तैरपहतो विष्णुस्मरणवर्जितैः ॥३५॥
इदानीं यत् त्वया स्तोत्रं पुण्डरीकाक्षपारकम् ।
पठितं तत्प्रभावेन विहायाङ्गरुहाण्यहम् ।
एकीभूतः पुनर्जातो व्याधरूपो नृपोत्तम ॥३६॥
अहं भगवतः स्तोत्रं श्रुत्वा प्राक्पापमूर्त्तिना ।
मुक्तोऽस्मि धर्मबुद्धिर्मे वर्त्तते साम्प्रतं विभो ॥३७॥
एतच्छ्रुत्वा वचो राजा परं विस्मयमागतः ।
वरेण छन्दयामास तं व्याधं राजसत्तमः ॥३८॥
राजोवाच ।
स्मारितोऽस्मि यथा व्याध त्वया जन्मान्तरं गतम् ।
तथा त्वं मत्प्रसादेन धर्मव्याधो भविष्यसि ॥३९॥
यश्चैतत् पुण्डरीकाक्षपारगं श्रृणुयात् परम् ।
तस्य पुष्करयात्रायां विधिस्नानफलं भवेत् ॥४०॥
श्रीवराह उवाच ।
एवमुक्त्वा ततो राजा विमानवरमास्थितः ।
परेण तेजसा योगमवापाशेषधारिणि ॥४१॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्ठोऽध्यायः ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:48:38.7070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बुद्धीनें जड, पण शीलानें धड

  • जो मनुष्य मंदबुद्धि असूनहि शीलवान् असतो त्याच्या बाबतींत म्हणतात. कमी बुद्धिवान् शीलभ्रष्टापेक्षां अधिक बरा. 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.