TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ३७

वराहपुराणम् - अध्यायः ३७

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अध्यायः ३७
धरण्युवाच ।
कथमाराध्यसे देव भक्तिमद्भिर्नरैर्विभो ।
स्त्रीभिर्वा सर्वमेतन्मे शंस त्वं भूतभावन ॥१॥
श्रीवराह उवाच ।
भावसाध्योऽस्म्यहं देवि न वित्तैर्न जपैरहम् ।
साध्यस्तथाऽपि भक्तानां कायक्लेशं वदामि ते ॥२॥
कर्मणा मनसा वाचा मच्चित्तो यो नरो भवेत् ।
तस्य व्रतानि धास्यामि विविधानि निबोध मे ॥३॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।
एतानि मानसान्याहुर्व्रतानि तु धराधरे ॥४॥
एकभक्तं तथा नक्तमुपवासादिकं च यत् ।
तत्सर्वं कायिकं पुंसां व्रतं भवति नान्यथा ॥५॥
मौनं चाध्ययनं चैव देवस्तुत्यर्थकीर्तितत् ।
निवृत्तिश्चापि पैशुन्याद् वाचिकं व्रतमुत्तमम्॥३७.६॥
अत्रापि श्रूयते चान्यदृषिरुग्रतपाः पुरा ।
ब्रह्मपुत्रः पुरा कल्पे आरुणिर्नाम नामतः ॥७॥
सोऽरण्यमगमत् किंचित् तपोर्थी द्विजसत्तमः ।
तपस्तेपे ततस्तस्मिन्नुपवासपरायणः ॥८॥
देविकायास्तटे रम्ये सोऽवसद् ब्राह्मणः किल ।
कदाचिदभिषेकाय स जगाम महानदीम् ॥९॥
तत्र स्नात्वा जपन् विप्रो ददर्शायान्तमग्रतः ।
व्याधं महाधनुःपाणिमुग्रनेत्रं विभीषणम् ॥१०॥
तं द्विजं हन्तुमायात् स वल्कलानां जिघृक्षया ।
तं दृष्ट्वा क्षुभितो विप्रो ब्रह्मघ्नस्य भयादिति ।
ध्यायन् नारायणं देवं तस्थौ तत्रैव स द्विजः ॥११॥
तं दृष्ट्वाऽन्तर्गतहरिं व्याधो भीत इवाग्रतः ।
विहाय सशरं चापं ततो वचनमब्रवीत् ॥१२॥
व्याध उवाच ।
हन्तुमिच्छुरहं ब्रह्मन् भवन्तं प्रागिहागतः ।
इदानीं दर्शनात् तुभ्यं सा मतिः क्वापि मे गाता ॥१३॥
ब्राह्मणानां सहस्त्राणि सस्त्रीणामयुतानि च ।
निहतानि मया ब्रह्मन् निहतौ च कुटम्बिनौ ॥१४॥
नरकेऽभ्यधिकं चित्तं कदाचिदपि विद्यते ।
इदानीं तप्तुमिच्छामि तपोऽहं त्वत्समीपतः ।
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥१५॥
एवमुक्तोऽप्यसौ विप्रो नोत्तरं प्रत्यपद्यत ।
ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुंगवः ॥१६॥
अनुक्तोऽपि स धर्मेप्सुर्व्याधस्तत्रैव तस्थिवान् ।
स्नात्वा नद्यां द्विजः सोऽपि वृक्षमूलमुपाश्रितः ॥१७॥
कस्यचित् त्वथ कालस्य तां नदीमगमत् किल ।
व्याघ्रो बुभुक्षितः शान्तं तं विप्रं हन्तुमुद्यतः ॥१८॥
अन्तर्जलगतं विप्रं यावद् व्याघ्रो जिघृक्षति ।
तावद् व्याधेन विद्धोऽसौ सद्यः प्राणैर्वियोजितः ॥१९॥
तस्माद् व्याघ्रशरीरात् तु उत्थाय पुरुषः किल ।
विप्रश्चान्तर्जले मग्नः श्रुत्वा तं शब्दमाकुलम् ।
नमो नारायणायेति वाक्यमुच्चैरुवाच ह ॥२०॥
व्याघ्रेणापि श्रुतो मन्त्रः प्राणैः कण्ठस्थितैस्ततः ।
श्रुतमात्रे जहौ प्राणान् पुरुषश्चाभवच्छुभः ॥२१॥
सोऽब्रवीद् यामि तं देशं यत्र विष्णुः सनातनः ।
त्वत्प्रसादाद् द्विजश्रेष्ठ मुक्तपाप्मा निरामयः ॥२२॥
इत्युक्तो ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ ।
सोऽब्रवीत् तस्य राजेन्द्रः प्रतापी पूर्वजन्मनि ।
दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः ॥२३॥
अहं जानामि वेदांश्च अहं वेद्मि शुभाशुभम् ।
ब्राह्मणे नैव मे कार्यं किं वस्तु ब्राह्मणा इति ॥२४॥
तस्यैवं वादिनो विप्राः सर्वे क्रोधसमन्विताः ।
ऊचुः शापं दुराधर्षः क्रूरो व्याघ्रो भविष्यसि ॥२५॥
अवमानात् तु विप्राणां सत्यान्तं स्मरणं तव ।
मृत्युकालेन संमूढ केशवेन भविष्यति ॥२६॥
इत्युक्तोऽहं पुरा तैस्तु ब्राह्मणैर्वेदपारगैः ।
तमेव सर्वं संप्राप्तो ब्रह्मशापं सुपुष्कलम् ॥२७॥
ततस्ते ब्राह्मणा सर्वे प्रणिपत्य महामुने ।
उक्ताऽनुग्रहहेतोर्वै ऊचुस्ते मामिमं पुरा ॥२८॥
षष्ठान्नकालिकस्याग्रे यस्ते स्थास्यति कश्चन ।
स भक्ष्यस्ते तु भविता कंचित्कालं नराधम ॥२९॥
यदेषुघातं लब्ध्वा तु प्राणैः कण्ठगतैर्भवान् ।
श्रोष्यसे द्विजवक्त्रात् तु नमो नारायणेति हि ।
तदा स्वर्गगतिस्तुभ्यं भविता नात्र संशयः ॥३०॥
परवक्त्रगतस्यापि विष्णोर्नाम श्रुतं मया ।
लब्धद्वेषस्य विप्राणां प्रत्यक्षं तव सत्तम ॥३१॥
यः पुनर्ब्राह्मणान् पूज्य स्ववक्त्रेण नमो हरिम् ।
वदन् प्राणं विमुच्येत मुक्तौऽसौ वीतकिल्बिषः॥। ३७.३२॥
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ।
जङ्गमा ब्राह्मणा देवाः कूटस्थः पुरुषोत्तमः ॥३३॥
एवमुक्त्वा गतः स्वर्गं स राजा वीतकल्मषः ।
ब्राह्मणोऽपि सदायुक्तस्तं व्याधं प्रत्यभाषत ॥३४॥
ऋषिरुवाच ।
जिघृक्षोर्मृगराजस्य यत्त्वया रक्षितो ह्यहम् ।
तत्पुत्र तुष्टस्ते दद्मि वरं वरय सुव्रत ॥३५॥
व्याध उवाच ।
एष एव वरो मह्यं यत् त्वं मां भाषसे द्विज ।
अतः परं वरेणाहं किं करोमि प्रशाधि माम् ॥३६॥
ऋषिरुवाच ।
अहं त्वया पुरा पुत्र प्रार्थितोऽस्मि तपोऽर्थिना ।
बहुपातकयुक्तेन घोररूपेण चानघ ॥३७॥
इदानीं तव पापानि देविकाभिषवेण च ।
मद्दर्शनेन च चिरं विष्णुनामश्रुतेन च ।
नष्टानि शुद्धदेहोऽसि सांप्रतं नात्र संशयः ॥३८॥
इदानीं वरमेकं त्वं गृहाण मम सन्निधौ ।
तपः कुरुष्व साधो त्वं चिरकालं यदीच्छसि ॥३९॥
व्याध उवाच ।
य एष भवता प्रोक्तो विष्णुर्नारायणः प्रभुः ।
स कथं प्राप्यते मर्त्यैरेष एव वरो मम ॥४०॥
ऋषिरुवाच ।
तमुद्दिश्य व्रतं कुर्याद् यत्किंचित्पुरुषोऽच्युतम् ।
स परं तमवाप्नोति भक्तया युक्तः पुमानिति ॥४१॥
एवं ज्ञात्वा भवान् पुत्र व्रतमेतत् समाचर ।
न भक्षयामि सकटं न वदाम्यनृतं क्वचित् ॥४२॥
एतत् ते व्रतमादिष्टं मया व्याधवर ध्रुवम् ।
तत्रैवं तपसा युक्तस्तिष्ठ त्वं यावदिच्छसि ॥४३॥
श्रीवराह उवाच ।
एवं चिन्तान्वितं मत्वा वरदो ब्राह्मणोऽभवत् ।
मोक्षार्थिनमथो बुद्ध्वा वञ्चयित्वा गतो मुनिः ॥४४॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तत्रिंशोऽध्यायः ॥३७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:48:40.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

spur

  • स्त्री. Bot. शुंडिका 
  • पु. Zool. प्रसर 
  • पु. बाहु 
  • (प्रावि.) अणि, आर, पादायुध 
More meanings
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site