TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ४१

वराहपुराणम् - अध्यायः ४१

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अध्यायः ४१
दुर्वासा उवाच ।
एवं माघे सिते पक्षे द्वादशीं धरणीभृतः ।
वराहस्य श्रृणुष्वाद्यां मुने परमधार्मिक ॥१॥
प्रागुक्तेन विधानेन संकल्पस्नानमेव च ।
कृत्वा देवं समभ्यर्च्य एकादश्यां विचक्षणः ॥२॥
धूपनैवेद्यगन्धैश्च अर्चयित्वाऽच्युतं नरः ।
पश्चात् तस्याग्रतः कुम्भं जलपूर्णं तु विन्यसेत् ॥३॥
ॐ वाराहायेति पादौ तु माधवायेति वै कटिम् ।
क्षेत्रज्ञायेति जठरं विश्वरूपेत्युरो हरेः ॥४॥
सर्वज्ञायेति कण्ठं तु प्रजानां पतये शिरः ।
प्रद्युम्नायेति च भुजौ दिव्यास्त्राय सुदर्शनम् ।
अमृतोद्भवाय शङ्खं तु एष देवार्चने विधिः ॥५॥
एवमभ्यर्च्य मेधावी तस्मिन् कुम्भे तु विन्यसेत् ।
सौवर्णं रौप्यताम्रं वा पात्रं विभवशक्तितः ॥६॥
सर्वबीजैस्तु संपूर्णं स्थापयित्वा विचक्षणः ।
तत्र शक्त्या तु सौवर्णं वाराहं कारयेद् बुधः ॥७॥
दंष्ट्राग्रेणोद्धृतां पृथ्वीं सपर्वतवनद्रुमाम् ।
माधवं मधुहन्तारं वाराहं रूपमास्थितम् ॥८॥
सर्वबीजभृते पात्रे रत्नगर्भं घटोपरि ।
स्थापयेत् परमं देवं जातरूपमयं हरिम् ॥९॥
सितवस्त्रयुगच्छन्नं ताम्रपात्रं तु वै मुने ।
स्थाप्यार्च्चयेद् गन्धपुष्पैर्नैवेद्यैर्विविधैः शुभैः ॥१०॥
पुष्पमण्डलिकां कृत्वा जागरं तत्र कारयेत् ।
प्रादुर्भावान् हरेस्तत्र वाचयेद् भावयेद् बुधः ॥११॥
एवं सन्नियमस्यान्तं प्रभाते उदिते रवौ ।
शुचिः स्नात्वा हरिं पूज्य ब्राह्मणाय निवेदयेत् ॥१२॥
वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते ।
विष्णुभक्ताय विप्रर्षे विशेषेण प्रदापयेत् ॥१३॥
देवं सकुम्भं तं दत्त्वा हरिं वाराहरूपिणम् ।
ब्राह्मणाय भवेद् यद्धि फलं तन्मे निशामय ॥१४॥
इह जन्मनि सौभाग्यं श्रीः कान्तिस्तुष्टिरेव च ।
दरिद्रो वित्तवान् सद्यः अपुत्रो लभते सुतम् ।
अलक्ष्मीर्नश्यते सद्यो लक्ष्मीः संविशते क्षणात् ॥१५॥
इह जन्मनि सौभाग्यं परलोके निशामय ।
अस्मिन्नर्थे पुरावृत्तमितिहासं पुरातनम् ॥१६॥
इह लोकेऽभवद् राजा वीरधन्वेति विश्रुतः ।
स कदाचिद् वनं प्रायान् मृगहेतोः परंतपः ॥१७॥
व्यापादयन् मृगगणान् तत्रर्षिवनमध्यगः ।
जघान मृगरूपान् सोऽज्ञानतो ब्राह्मणान् नृपः ॥१८॥
भ्रातरस्तत्र पञ्चाशन्मृगरूपेण संस्थिताः ।
संवर्तस्य सुता ब्रह्मन् वेदाध्ययनतत्पराः ॥१९॥
सत्यतपा उवाच ।
कारणं किं समाश्रित्य ते चक्रुर्मृगरूपताम् ।
एतन्मे कौतुकं ब्रह्मन् प्रणतस्य प्रसीद मे ॥२०॥
दुर्वासा उवाच ।
ते कदाचिद् वनं याता दृष्ट्वा हरिणपोतकान् ।
जातमात्रान् स्वमात्रा तु विहीनान् दृश्य सत्तम ।
एकैकं जगृहुस्ते हि ते मृताः स्कन्धसंस्थिताः ॥२१॥
ततस्ते दुःखिताः सर्वे ययुः पितरमन्तिकम् ।
ऊचुश्च वचनं चेदं मृगहिंसामृते मुने ॥२२॥
ऋषिपुत्रका ऊचुः ।
जातमात्रा मृगाः पञ्च अस्माभिर्निहता मुने ।
अकामतस्ततोऽस्माकं प्रायश्चित्तं विधीयताम् ॥२३॥
संवर्त्त उवाच ।
मत्पिता हिंसकस्त्वासीदहं तस्माद् विशेषतः ।
भवन्तः पापकर्माणः संजाता मम पुत्रकाः ॥२४॥
इदानीं मृगचर्माणि परिधाय यतव्रताः ।
चरघ्वं पञ्चवर्षाणि ततः शुद्धा भविष्यथ ॥२५॥
एवमुक्तास्तु ते पुत्रा मृगचर्मोपवीतिनः ।
वनं विविशुरव्यग्रा जपन्तो ब्रह्म शाश्वतम् ॥२६॥
तथा वर्षे व्यतिक्रान्ते वीरधन्वा महीपतिः ।
तत्राजगाम यस्मिंस्ते चरन्ति मृगरूपिणः ॥२७॥
ते चाप्येकतरोर्मूले मृगचर्म्मोपवीतिनः ।
जपन्तः संस्थितास्ते हि राज्ञा दृष्ट्वा मृगा इति ।
मत्वा विद्धास्तु युगपन्मृतास्ते ब्रह्मवादिनः ॥२८॥
तान् दृष्ट्वा तु मृतान् राजा ब्राह्मणान् संशितव्रतान् ।
भयेन वेपमानस्तु देवराताश्रमं ययौ ।
तत्रापृच्छद् ब्रह्मवध्या ममायाता महामुने ॥२९॥
आमूल्य तद् वधं वृत्तं कथयित्वा नराधिपः ।
भृशं शोकपरीतात्मा रुरोद भृशदुःखितः ॥३०॥
स ऋषिर्देवरातस्तु रुदन्तं नृपसत्तमम् ।
उवाच मा भैर्नृपते अपनेष्यामि पातकम् ॥३१॥
पाताले सुतलाख्ये च यथा धात्री निमज्जती ।
उद्धृता देवदेवेन विष्णुना क्रोडमूर्त्तिना ॥३२॥
तद्वद् भवन्तं राजेन्द्र ब्रह्मवध्यापरिप्लुतम् ।
उद्धरिष्यति देवोऽसौ स्वयमेव जनार्दनः ॥३३॥
एवमुक्तस्ततो राजा हर्षितो वाक्यमब्रवीत् ।
कतरेण प्रकारेण स मे देवः प्रसीदति ।
प्रसन्ने चाशुभं सर्वं येन नश्यति सत्तम ॥३४॥
दुर्वासा उवाच ।
एवमुक्तो मुनिस्तेन देवरात इमं व्रतम् ।
आचख्यौ सोऽपि तं कृत्वा भुक्त्वा भोगान्सुपुष्कलान् ॥३५॥
मुत्युकाले मुनिश्रेष्ठ सौवर्णेन विराजता ।
विमानेनागमत् स्वर्गमिन्द्रलोकं स पार्थिवः ॥३६॥
तस्येन्द्रस्त्वर्घ्यमादाय प्रत्युत्थानेन निर्ययौ ।
आयान्तमिन्द्रं दृष्ट्वा तु तमूचुर्विष्णुकिंकराः ।
न द्रष्टव्यो देवराजस्त्वद्धीनस्तपसा इति ॥३७॥
एवं सर्वे लोकपाला निर्ययुस्तस्य तेजसा ।
प्रत्याख्याताश्च तैर्विष्णुकिंकरैर्हीनकर्मणः ।
एवं स सत्यलोकान्तं गतो राजा महामुने ॥३८॥
अपुनर्मारके लोके दाहप्रलयवर्ज्जिते ।
अद्यापि तिष्ठते देवैः स्तूयमानो महानृपः ।
प्रसन्ने यज्ञपुरुषे किं चित्रं येन तद्भवेत् ॥३९॥
इह जन्मनि सौभाग्यमायुरारोग्यसम्पदः ।
एकैका विधिनोपास्ता ददात्यमृतमुत्तमम् ॥४०॥
किं पुनर्वर्षसंपूर्णे स ददाति स्वकं पदम् ।
नारायणश्चतुर्मूर्त्तिः परार्ध्यं च न संशयः ॥४१॥
यथैवोद्धृतवान् वेदान् मत्स्यरूपेण केशवः ।
क्षीराम्बुधौ मथ्यमाने मन्दरं धृतवान् प्रभुः ।
तद्वच्च कूर्मरूपाख्या द्वितीया पश्य वैष्णवी ॥४२॥
यथा रसातलात् क्ष्मां च धृतवान् पुरुषोत्तमः ।
वराहरूपी तद्वच्च तृतीया पश्य वैष्णवी ॥४३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकचत्वारिंशोऽध्यायः ॥४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:48:40.5370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

isolate

  • न. विविक्तक 
  • न. उपांग 
  • विविक्त करणे 
  • न. विविक्त 
More meanings
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site