TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ३३

वराहपुराणम् - अध्यायः ३३

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अध्यायः ३३
श्रीवराह उवाच ।
अथापरां रुद्रसंभूतिमाद्यां
श्रृणुष्व राजन्निति सोऽभ्युवाच ।
महातपाः प्रीतितो धर्म्मदक्षः
क्षमास्त्रधारी ऋषिरुग्रतेजाः ॥१॥
जातः प्रजानां पतिरुग्रतेजा ।
ज्ञानं परं तत्त्वभावं विदित्वा ।
सृष्टिं सिसृक्षुः क्षुभितोऽतिकोपाद-
वृद्धिकाले जगतः प्रकामम् ॥२॥
तपस्यतोऽतः स्थिरकीर्तिः पुराणो
रजस्तमोध्वस्तगतिर्बभूव ।
वरो वरेण्यो वरदः प्रतापी
कृष्णारुणः पुरुषः पिङ्गनेत्रः ॥३॥
रुदन्नुक्तो ब्रह्मणा मा रुद त्वं
रुद्रस्ततोऽसावभवत् पुराणः ।
नयस्व सृष्टिं विततस्वरूपां
भवान् समर्थोऽसि महानुभाव ॥४॥
इत्युक्तमात्रः सलिले ममज्ज
मग्ने ससर्जात्मभवाय दक्षः ।
कस्थे तदा देववरे वितेनुः
सृष्टिं तु ते मानसा ब्रह्मजाताः ॥५॥
तस्यां ततायां तु सुराधिपे तु
पैतामहं यज्ञवरं प्रकामम् ।
मग्नः पुरा यत्सलिले स रुद्रः
उत्सृज्य विश्वं तु सुरान् सिसृक्षुः ॥६॥
सुस्त्राव यज्ञं सुरसिद्धयक्षा-
नुपागतान् क्रोधवशं जगाम ।
मन्युं प्रदीप्तं परिभाव्य केन
सृष्टं जगन्मां व्यतिरिच्य मोहात् ॥७॥
हा हेति चोक्ते ज्वलनार्चिषस्तु
तत्राभवन् क्षुद्रपिशाचसङ्घा
वेतालभूतानि च योगिसङ्घाः ॥८॥
घनं यदा तैर्विततं वियच्च
भूमिश्च सर्वाश्च दिशश्च लोकाः ।
तदा स सर्वज्ञतया चकार
धनुश्चतुर्विंशतिहस्तमात्रम् ॥९॥
गुणं त्रिवृत्तं च चकार रोषा-
दादत्त दिव्ये च धनुर्गुणं च ।
ततश्च पूष्णो दशनानविध्यद्
भगस्य नेत्रे वृषणौ क्रतोश्च ॥१०॥
स विद्धबीजो व्यपयात्क्रतुश्च
मार्गं वायुर्धारधन् यज्ञवाटात् ।
देवाश्च सर्वे पशुपतिमुपेयु-
र्जग्मुश्च सर्वे प्रणतिं भवस्य ॥११॥
आगम्य तत्रैव पितामहस्तु
भवं प्रतीतः संपरिष्वज्य देवान् ।
भक्त्योपेतान् वीक्षयद् देवदेवान्
विज्ञानमन्तः कुरु वीरबाहो ॥१२॥
रुद्र उवाच ।
सृष्टः पूर्वं भवताऽहं न चेमे
कस्मान्न भागं परिकल्पयन्ति ।
यज्ञोद्भवं तेन रुषा मयेमे
हृतज्ञाना विकृता देवदेव ॥१३॥
ब्रह्मा उवाच ।
देवाः शंभुं स्तुतिभिर्ज्ञानहेतोर्
यजध्वमुच्चैरसुराश्च सर्वे ।
येन रुद्रो भगवांस्तोषमेति
सर्वज्ञता तोषमात्रस्य च स्यात् ॥१४॥
इत्युक्तास्तेन ते देवाः स्तुतिं चक्रुर्महात्मनः ॥१५॥
देवा ऊचुः ।
नमो देवातिदेवाय त्रिनेत्राय महात्मने ।
रक्तपिङ्गलनेत्राय जटामुकुटधारिणे ॥१६॥
भूतवेतालजुष्टाय महाभोगोपवीतिने ।
भीमाट्टहासवक्त्राय कपर्दिन् स्थाणवे नमः ॥१७॥
पूष्णो दन्तविनाशाय भगनेत्रहने नमः ।
भविष्यवृषचिह्नाय महाभूतपते नमः ॥१८॥
भविष्यत्रिपुरान्ताय तथान्धकविनाशिने ।
कैलासवरवासाय करिकृत्तिनिवासिने ॥१९॥
विकरालोद्र्ध्वकेशाय भैरवाय नमो नमः ।
अग्निज्वालाकरालाय शशिमौलिकृते नमः ॥२०॥
भविष्यकृतकापालिव्रताय परमेष्ठिने ।
तथा दारुवनध्वंसकारिणे तिग्मशूलिने ॥२१॥
कृतकङ्कणभोगीन्द्र नीलकण्ठ त्रिशूलिने ।
प्रचण्डदण्डहस्ताय वडवाग्निमुखाय च ॥२२॥
वेदान्तवेद्याय नमो यज्ञमूर्ते नमो नमः ।
दक्षयज्ञविनाशाय जगद्भयकराय च ॥२३॥
विश्वेश्वराय देवाय शिवशंभुभवाय च ।
कपर्दिने करालाय महादेवाय ते नमः ॥२४॥
एवं देवैः स्तुतः शंभुरुग्रधन्वा सनातनः ।
उवाच देवदेवोऽहं यत्करोमि तदुच्यताम् ॥२५॥
देवा ऊचुः ।
वेदशास्त्राणि विज्ञानं देहि नो भव माचिरम् ।
यज्ञं सरहस्यं नो यदि तुष्टोऽसि नः प्रभो ॥२६॥
महादेव उवाच ।
भवन्तः पशवः सर्वे भवन्तु सहिता इति ।
अहं पतिर्वो भवतां ततो मोक्षमवाप्स्यथ ।
तथेति देवास्तं प्राहुस्ततः पशुपतिर्भवत् ॥२७॥
ब्रह्मा पशुपतिं प्राह प्रसन्नेनान्तरात्मना ।
चतुर्द्दशी ते देवेश तिथिरस्तु न संशयः ॥२८॥
तस्यां तिथौ भवन्तं ये यजन्ते श्रद्धयान्विताः ।
उपोष्य पश्चाद्भुञ्जीयाद्गोधूमान्नेन वै द्विजान्॥
तस्य त्वं तुष्टिमापन्नो नय स्थानमनुत्तमम् ॥२९॥
एवमक्तस्तदा रुद्रो ब्रह्मणाऽव्यक्तजन्मना ।
दन्तान् नेत्रे फले प्रादाद्भगपूष्णोः क्रतोरपि ।
परिज्ञानं च सकलं स प्रादाच्च सुरेष्वपि ॥३०॥
एवं रुद्रस्य संभूतिः संभूता ब्रह्मणः पुरा ।
अनेनैव प्रयोगेन देवानां पतिरुच्यते ॥३१॥
यश्चैनं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥३२॥
॥ इति श्रीवराहरपुराणे भगवच्छास्त्रे त्रयस्त्रिंशोऽध्यायः ॥३३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:48:40.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तिलोत्तमा

  • n. एक अप्सरा । यह काश्यप तथा अरिष्टा की कन्या थी । पूर्वजन्म में यह कुब्जा नामक स्त्री थी । दीर्घ तपस्या कर यह वैकुंठ गई । देवों के कार्य के लिये ब्रह्माजी ने इसे सुंदोपसुंद के पास भेजा था । प्रत्येक वस्तु का तिलतिल सौंदर्य, इसके सौंदर्य निर्माण के लिये लिया गया था । इसलिये इसे तिलोत्तमा नाम प्राप्त हुआ । सुंदोपसुंद के नाशार्थ जाने के पहले, इसने सब देवों ऋषियों की प्रदक्षिणा की । उस समय इसके मनमोहनी रुप यौवन से, शंकर तथा इंद्र आदि देवसभा के ज्येष्ठ देव भी स्तिमित हो गये । इसे देखते ही, सुंदोपसुंद का आपस में झगडा हो कर, एक ने दूसरे का वध कर दिया । तब ब्रह्मदेव ने इसे वरदान दिया, ‘जहॉं जहॉं सूर्य का प्रवेश होगा, वहॉं तुम भी प्रविष्ट हो सकोगी । तुम्हारे लावण्य का प्रभाव दाहक एवं गहरा होगा । इस कारण कोई भी तुम्हारी ओर ऑख उठा कर देख न सकेगा’ [म.आ.२०३-२०४];[ पद्म. उ.१२६] । यह अश्विन में त्वष्टा सूर्य के साथ घूमती है [भा १२.११] 
RANDOM WORD

Did you know?

मृत व्यक्तिचे वेगवेगळ्या धर्मात वेगवेगळ्या दिवशी संस्कार कसे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site