संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ८७

वराहपुराणम् - अध्यायः ८७

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


रुद्र उवाच ।
अथ क्रौञ्चं भवति चतुर्थं कुशद्वीपाद् द्विगुणमानतः समुद्रः क्रौञ्चेन द्विगुणेनावृतः। तस्मिंश्च सप्तैव प्रधानपर्वताः। प्रथमः कौञ्चो विद्युल्लतो रैवतो मानसः सैव पावकः। तथैवान्धकारः सैवाच्छोदकः। देवावृत्तो स च सुरापो भण्यते। ततो देविष्ठः स एव काञ्चनश्रृङ्गो भवति। देवनन्दात्परो गोविन्दः, द्विविन्द इति। ततः पुण्डरीकः सैव तोषाशयः। एते सप्त रत्नमयाः पर्वताः क्रीञ्चद्वीपे व्यवस्थिताः। सर्वे च परस्परेणोच्छ्रयाः। तत्र वर्षाणि तथा क्रौञ्चस्य कुशलो देशः सैव माधवः स्मृतः वामनस्य मनोऽनुगः सैव संवर्तकस्ततोष्णवान् सोमप्रकाशः। ततः पावकः सैव सुदर्शनः। तथा चान्धकारः सैव संमोहः। ततो मुनिदेशः स च प्रकाशः। ततो दुन्दुभिः सैवानर्थ उच्यते। तत्रापि सप्तैव नद्यः ॥१॥

गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधाः स्मृताः।
गौरी सैव पुष्पवहा कुमुद्वती ताम्रवती रोधसंध्या सुखावहा च मनोजवा च क्षिप्रोदा च ख्यातिः सैव गोबहुला पुण्डरीका चित्रवेगा शेषाः क्षुद्रनद्यः॥ क्रौञ्चद्वीपो घृतोदेनावृतः। घृतोदा शाल्मलेनेति ॥२॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ताशीतितमोऽध्यायः ॥८७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP