संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ६४

वराहपुराणम् - अध्यायः ६४

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अगस्त्य उवाच ।
अथापरं प्रवक्ष्यामि शौर्यव्रतमनुत्तमम् ।
येन भीरोरपि महच्छौर्यं भवति तत्क्षणात् ॥१॥

मासि चाश्वयुजे शुद्धां नवमीं समुपोषयेत् ।
सप्तम्यां कृतसंकल्पः स्थित्वाऽष्टम्यां निरोदनः ॥२॥

नवम्यां पारयेत् पिष्टं प्रथमं भक्तितो नृप ।
ब्राह्मणान् भोजयेद् भक्त्या देवीं चैव तु पूजयेत् ।
दुर्गां देवीं महाभागां महामायां महाप्रभाम् ॥३॥

एवं संवत्सरं यावदुपोष्येति विधानतः ।
व्रतान्ते भोजयेद् धीमान् यथाशक्त्या कुमारिकाः ॥४॥

हेमवस्त्रादिभिस्तास्तु भूषयित्वा तु शक्तितः ।
पश्चात् क्षमापयेत् तास्तु देवी मे प्रीयतामिति ॥५॥

एवं कृते भ्रष्टराज्यो लभेद् राज्यं न संशयः ।
अविद्यो लभते विद्यां भीतः शौर्यं च विदन्ति ॥६॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP