TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः २३

वराहपुराणम् - अध्यायः २३

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अध्यायः २३
प्रजापाल उवाच ।
कथं गणपतेर्जन्म मूर्तिमन्तं च सत्तम ।
एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ॥१॥
महातपा उवाच ।
पूर्वं देवगणाः सर्वे ऋषयश्च तपोधनाः ।
कार्यारम्भं तथा चक्रुः सिध्यन्ते च न संशयः ॥२॥
सन्मार्गवर्तिषु यथा सिद्ध्यन्ते विघ्नतः क्रियाः ।
असत्कारिषु सर्वेषु तद्वदेवमविघ्नतः ॥३॥
ततो देवाः सपितरश्चिन्तयामासुरोजसा ।
असत्कार्येषु विघ्नार्थं सर्व एवाभ्यमन्त्रयन् ॥४॥
ततस्तेषां तदा मन्त्रं कुर्वतस्त्रिदिवौकसाम् ।
बभूव बुद्धिर्गमने रुद्रं प्रति महामतिम् ॥५॥
ते तत्र रुद्रमागम्य कैलासनिलयं गुरुम् ।
ऊचुः सविनयं सर्वे प्रणिपातपुरःसरम् ॥६॥
देवा ऊचुः ।
देवदेव महादेव शूलपाणे त्रिलोचन ।
विघ्नार्थमविशिष्टानामुत्पादयितुमर्हसि ॥७॥
एवमुक्तरस्तदा देवैर्भवः परमया मुदा ।
उमां निरीक्षयामास चक्षुषाऽनिमिषेण ह ॥८॥
देवानां सन्निधौ तस्य पश्यतोमां महात्मनः ।
चिन्ताऽभूद् व्योम्नि मूर्तिभ्यो दृश्यते केन हेतुना ॥९॥
पृथिव्या विद्यते मूर्त्तिरपां मूर्त्तिस्तथैव च ।
तेजसः श्वसनस्यापि मूर्त्तिरेषा तु दृश्यते ।
आकाशं च कथं नेति मत्वा देवो जहास च ॥१०॥
ज्ञानशक्तिमुमां दृष्ट्वा यद् दृष्टं व्योम्नि शंभुना ।
यच्चोक्तं ब्रह्मणा पूर्वं शरीरं तु शरीरिणाम् ॥११॥
यच्चापि हसितं तेन देवेन परमेष्ठिना ।
एतत्कार्यचतुष्केण पृथिव्यादिचतुर्ष्वपि ॥१२॥
मूर्त्तिमानतितेजस्वी हसतः परमेष्ठिनः ।
प्रदीप्तास्यो महादीप्तः कुमारो भासयन् दिशः ।
परमेष्ठिगुणैर्युक्तः साक्षाद् रुद्र इवापरः ॥१३॥
उत्पन्नमात्रो देवानां योषितः सप्रमोहयन् ।
कान्त्या दीप्त्या तथा मूर्त्या रूपेण च महात्मवान् ॥१४॥
तं दृष्ट्वा परमं रूपं कुमारस्य महात्मनः ।
उमाऽनिमेषनेत्राभ्यां तमपश्यत भामिनी ॥१५॥
तं दृष्ट्वा कुपितो देवः स्त्रीभावं चञ्चलं तथा ।
मत्वा कुमाररूपं तु शोभनं मोहनं दृशाम् ।
ततः शशाप तं देवः स्त्रीशङ्कां परमेश्वरः ॥१६॥
कुमार गजवक्त्रस्त्वं प्रलम्बजठरस्तथा ।
भविष्यसि तथा सर्पैरुपवीतगतिर्ध्रुवम् ।
एवं शशाप तं देवस्तीव्रकोपसमन्वितः ॥१७॥
अर्द्धकोट्या च रोमाणामात्मनोऽङ्गे त्रिलोचनः ।
कूपकास्वेदसलिलपूर्णशूलधरस्तथा ।
धुन्वन् शरीरमुत्थाय ततो देवो रुषान्वितः ॥१८॥
यथा यथाऽसौ स शरीरमाद्यं
धुनोति देवस्त्रिशिखास्त्रपाणिः ।
तथा तथा चाङ्गरुहाश्चकासु-
र्जलं क्षितौ संन्यपतंस्तथान्याः ॥१९॥
विनायकानेकविधा गजास्या -
स्तमालनीलाञ्जनसंनिकाशाः ।
उत्तस्थुरुच्चैर्विविधास्त्रहस्ता -
स्ततस्तु देवा मनसाकुलेन ॥२०॥
किमेतदित्यद्भुतकर्मकारी
ह्येकः करोत्यप्रतिमं महच्च ।
कार्यं सुराणां कृतमेतदिष्टं
भवेदथैतं परितं कुतस्तत् ॥२१॥
दिवौकसां चिन्तयतां तथा तु
विनायकैः क्ष्मा क्षुभिता बभूव ।
चतुर्मुखश्चाप्रतिमो विमान -
मारुह्य खे वाक्यमिदं जगाद ॥२२॥
धन्याः स्थ देवाः सुरनायकेन
त्रिलोचनेनाद्भुतरूपिणा च ।
अनुगृहीताः परमेश्वरेण
सुरद्विषां विघ्नकृतां नतौ च ॥२३॥
इत्येवमुक्त्वा प्रपितामहस्ता -
नुवाच देवस्त्रिशिखास्त्रपाणिम् ।
यस्ते विभो वक्त्रसमुद्भवः प्रभु-
र्विनायकानां भवतु त्विमेऽनुगाः ॥२४॥
भवांस्तथाऽस्यात्मवरेण चाम्बरे
त्वया चतुर्ष्वस्तु शरीरचारी ।
आकाशमेतद् बहुधा व्यवस्थितं
त्वया वरेण्यः कृत एव नान्यः ॥२५॥
प्रभुर्भव त्वं प्रतिमास्त्रपाणिना
इमानि चास्त्राणि वरांश्च देहि ।
इत्येवमुक्त्वाऽधिगते पितामहे
त्रिलोचनश्चात्मभवं जगाद ॥२६॥
विनायको विघ्नकरो गजास्यो
गणेशनामा च भवस्य पुत्रः ।
एते च सर्वे तव यान्तु भृत्या
विनायकाः क्रूरदृशः प्रचण्डाः ।
उच्छुष्मदानादिविवृद्धदेहाः
कार्येषु सिद्धिं प्रतिपादयन्तः ॥२७॥
भवांश्च देवेषु तथा मखेषु
कार्येषु चान्येषु महानुभावात् ।
अग्रेषु पूजां लभतेऽन्यथा च
विनाशयिष्यस्यथ कार्यसिद्धिम् ॥२८॥
इत्येवमुक्त्वा परमेश्वरेण
सुरैः समं काञ्चनकुम्भसंस्थैः ।
जलैस्तथासावभिषिक्तगात्रो
रराज राजेन्द्र विनायकानाम् ॥२९॥
दृष्टवाऽभिषिच्यमानं तु देवास्तं गणनायकम् ।
तुष्टुवुः प्रयताः सर्वे त्रिशूलास्त्रस्य सन्निधौ ॥३०॥
देवा ऊचुः ।
नमस्ते गजवक्त्राय नमस्ते गणनायक ।
विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥३१॥
नमोऽस्तु ते विघ्नकर्त्रे नमस्ते सर्पमेखल ।
नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ॥३२॥
सर्वदेवनमस्कारादविघ्नं कुरु सर्वदा ।
एवं स्तुतस्तदा देवैर्महात्मा गणनायकः ।
अभिषिक्तश्च रुद्रस्य सोमस्यापत्यतां गतः ॥३३॥
एतच्चतुर्थ्यां संपन्नं गणाध्यक्षस्य पार्थिव ।
यतस्ततोऽयं महती तिथीनां परमा तिथिः ॥३४॥
एतस्यां यस्तिलान् भुक्त्वा भक्त्या गणपतिं नृप ।
आराधयति तस्याशु तुष्यते नात्र संशयः ॥३५॥
यश्चैतत् पठते स्तोत्रं यश्चैतच्छृणुयात् सदा ।
न तस्य विघ्ना जायन्ते न पापं सर्वथा नृप ॥३६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रयोविंशोऽध्यायः ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:48:39.6000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tropical lake

  • उष्णकटिबंधी सरोवर 
RANDOM WORD

Did you know?

श्राद्धाचें प्रयोजन काय ? आणि श्राद्धाचे चार भेद कोणते आहेत ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site