संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ६०

वराहपुराणम् - अध्यायः ६०

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अगस्त्य उवाच ।
शान्तिव्रतं प्रवक्ष्यामि तव राजन् श्रृणुष्व तत् ।
येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ॥१॥

पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत ।
आरभेद् वर्षमेकं तु भुञ्जीयादम्लवर्जितम् ॥२॥

नक्तं देवं तु संपूज्य हरिं शेषोपरि स्थितम् ।
अनन्तायेति पादौ तु वासुकायेति वै कटिम् ॥३॥

तक्षकायेति जठरमुरः कर्कोटकाय च ।
पद्माय कण्ठं संपूज्य महापद्माय दोर्युगम् ॥४॥

शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः ।
एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत् ॥५॥

क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः ।
तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ॥६॥

एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणभोजनम् ।
नागं तु काञ्चनं कुर्याद् ब्राह्मणाय निवेदयेत् ॥७॥

एवं यः कुरुते भक्त्या व्रतमेतन्नराधिपः ।
तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा ॥८॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP