संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ६६

वराहपुराणम् - अध्यायः ६६

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


भद्राश्व उवाच ।
आश्चर्यं यदि ते किंचिद् विदितं दृष्टमेव वा ।
तन्मे कथय धर्मज्ञ मम कौतूहलं महत् ॥१॥

अगस्त्य उवाच ।
आश्चर्यभूतो भगवानेष एव जनार्दनः ।
तस्याश्चर्याणि दृष्टानि बहूनि विविधानि वै ॥२॥

श्वेतद्वीपं गतः पूर्वं नारदः किल पार्थिव ।
सोऽपश्यच्छङ्खचक्राब्जान् पुरुषांस्तिग्मतेजसः ॥३॥

अयं विष्णुरयं विष्णुरेष विष्णुः सनातनः ।
चिन्ताऽभूत्तस्यतान्दृष्ट्वा कोऽस्मिन्विष्णुरिति प्रभुः ॥४॥

एवं चिन्तयतस्तस्य चिन्ता कृष्णं प्रति प्रभो ।
आराधयामि च कथं शङ्खचक्रगदाधरम् ॥५॥

येन वेद्मि परं तेषां देवो नारायणः प्रभुः ।
एवं संचिन्त्य दध्यौ स तं देवं परमेश्वरम् ॥६॥

दिव्यं वर्षसहस्त्रं तु साग्रं ब्रह्मसुतस्तदा ।
ध्यायतस्तस्य देवोऽसौ परितोषं जगाम ह ॥७॥

उवाच च प्रसन्नात्मा प्रत्यक्षत्वं गतः प्रभुः ।
वरं ब्रह्मसुत ब्रूहि किं ते दद्मि महामुने ॥८॥

नारद उवाच ।
सहस्त्रमेकं वर्षाणां ध्यातस्त्वं भुवनेश्वर ।
त्वत्प्राप्तिर्येन तद् ब्रूहि यदि तुष्टोऽसि मेऽच्युत ॥९॥

देवदेव उवाच ।
पौरुषं सूक्तमास्थाय ये यजन्ति द्विजास्तु माम् ।
संहितामाद्यमास्थाय ते मां प्राप्स्यन्ति नारद ॥१०॥

अलाभे वेदशास्त्राणां पञ्चरात्रोदितेन ह ।
मार्गेण मां प्रपश्यन्ते ते मां प्राप्स्यन्ति मानवाः ॥११॥

ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते ।
शूद्रादीनां न तच्छ्रोत्रपदवीमुपयास्यति ॥१२॥

एवं मयोक्तं विप्रेन्द्र पुराकल्पे पुरातनम् ।
पञ्चरात्रं सहस्त्राणां यदि कश्चिद् ग्रहीष्यति ॥१३॥

कर्मक्षये च मां कश्चिद् यदि भक्तो भविष्यति ।
तस्य चेदं पञ्चरात्रं नित्यं हृदि वसिष्यति ॥१४॥

इतरे राजसैर्भावैस्तामसैश्च समावृताः ।
भविष्यन्ति द्विजश्रेष्ठ मच्छासनपराङ्मुखाः ॥१५॥

कृतं त्रेता द्वापरं च युगानि त्रीणि नारद ।
सत्त्वस्थां मां समेष्यन्ति कलौ रजस्तमोऽधिकाः ॥१६॥

अन्यच्च ते वरं दद्मि श्रृणु नारद साम्प्रतम् ।
यदिदं पञ्चरात्रं मे शास्त्रं परमदुर्लभम् ।
तद्भवान् वेत्स्यते सर्वं मत्प्रसादान्न संशयः ॥१७॥

वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज ।
प्राप्योऽहं नान्यथा वत्स वर्षकोट्यायुतैरपि ॥१८॥

एवमुक्त्वा स भगवान् नारदं परमेश्वरः ।
जगामादर्शनं सद्यो नारदोऽपि ययौ दिवम् ॥१९॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP