संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ६१

वराहपुराणम् - अध्यायः ६१

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अगस्त्य उवाच ।
कामव्रतं महाराज श्रृणु मे गदतोऽधुना ।
येन कामाः समृद्ध्यन्ते मनसा चिन्तिता अपि ॥१॥

षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् ।
पौषमाससिते पक्षे चतुर्थ्यां कृतभोजनः ॥२॥

षष्ठ्यां तु पारयेद् धीमान् प्रथमं तु फलं नृप ।
ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ॥३॥

ब्राह्मणैः सह राजेन्द्र अथवा केवलैः फलैः ।
तमेकं दिवसं स्थित्वा सप्तम्यां पारयेन्नृप ॥४॥

अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् ।
पूजयित्वाभिधानेन वर्षमेकं व्रतं चरेत् ॥५॥

षड्वक्त्र कार्त्तिक गुह सेनानी कृत्तिकासुत ।
कुमार स्कन्द इत्येवं पूज्यो विष्णुः स्वनामभिः ॥६॥

समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् ।
षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ॥७॥

सर्वे कामाः समृद्ध्यन्तां मम देव कुमारक ।
त्वत्प्रसादादिमं भक्त्या गृह्यतां विप्र माचिरम् ॥८॥

अनेन दत्त्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् ।
ततः कामाः समृद्ध्यन्ते सर्वे वै इह जन्मनि ॥९॥

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा ॥१०॥

एतद् व्रतं पुरा चीर्णं नलेन नृपसत्तम ।
ऋतुपर्णस्य विषये वसता व्रतचर्यया ॥११॥

तथा राज्यच्युतैरन्यैर्बहुभिर्नृपसत्तमैः ।
पौराणिकं व्रतं चैव सिद्ध्यर्थं नृपसत्तम ॥१२॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP