TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय २७

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २७
मधुरं लवणं किञ्-चिद् अ-शीतोष्णम् अ-संहतम् ।
पद्मेन्द्रगोप-हेमावि-शश-लोहित-लोहितम् ॥१॥

लोहितं प्रभवः शुद्धं तनोस् तेनैव च स्थितः ।
तत् पित्त-श्लेष्मलैः प्रायो दूष्यते कुरुते ततः ॥२॥

२७.२ - लोहितं प्रवदेच् छुद्धं विसर्प-विद्रधि-प्लीह-गुल्माग्नि-सदन-ज्वरान् ।
मुख-नेत्र-शिरो-रोग-मद-तृड्-लवणास्य-ताः ॥३॥

कुष्ठ-वातास्र-पित्तास्र-कट्व्-अम्लोद्गिरण-भ्रमान् ।
शीतोष्ण-स्निग्ध-रूक्षाद्यैर् उपक्रान्ताश् च ये गदाः ॥४॥

सम्यक् साध्या न सिध्यन्ति ते च रक्त-प्रकोप-जाः ।
तेषु स्रावयितुं रक्तम् उद्रिक्तं व्यधयेत् सिराम् ॥५॥

न तून-षो-डशातीत-सप्तत्य्-अब्द-स्रुतासृजाम् ।
अ-स्निग्धा-स्वेदितात्य्-अर्थ-स्वेदितानिल-रोगिणाम् ॥६॥

२७.६ - न न्यून-षो-डशातीत- गर्भिणी-सूतिका-जीर्ण-पित्तास्र-श्वास-कासिनाम् ।
अतीसारोदर-च्छर्दि-पाण्डु-सर्वाङ्ग-शोफिनाम् ॥७॥

स्नेह-पीते प्रयुक्तेषु तथा पञ्चसु कर्मसु ।
ना-यन्त्रितां सिरां विध्येन् न तिर्यङ् नाप्य् अन्-उत्थिताम् ॥८॥

२७.८ - न तिर्यङ् नाप्य् अन्-उच्छ्रिताम् नाति-शीतोष्ण-वाताभ्रेष्व् अन्य-त्रात्ययिकाद् गदात् ।
शिरो-नेत्र-विकारेषु ललाट्यां मोक्षयेत् सिराम् ॥९॥

२७.९ - लालाट्यां मोक्षयेत् सिराम् २७.९ - लालाट्या मोक्षयेत् सिराः २७.९ - ललाट्या मोक्षयेत् सिराः अपाङ्ग्याम् उपनास्यां वा कर्ण-रोगेषु कर्ण-जाम् ।
नासा-रोगेषु नासाग्रे स्थितां नासा-ललाटयोः ॥१०॥

२७.१० - अपाङ्ग्या उपनास्या वा पीनसे मुख-रोगेषु जिह्वौष्ठ-हनु-तालु-गाः ।
जत्रूर्ध्व-ग्रन्थिषु ग्रीवा-कर्ण-शङ्ख-शिरः-श्रिताः ॥११॥

२७.११ - जत्रूर्ध्वं ग्रन्थिषु ग्रीवा- उरो-ऽपाङ्ग-ललाट-स्था उन्मादे ऽपस्मृतौ पुनः ।
हनु-संधौ समस्ते वा सिरां भ्रू-मध्य-गामिनीम् ॥१२॥

२७.१२ - उरो-ऽपाङ्ग-ललाट-स्थाम् २७.१२ - सिरा भ्रू-मध्य-गामिनीः विद्रधौ पार्श्व-शूले च पार्श्व-कक्षा-स्तनान्तरे ।
तृतीयके ऽंसयोर् मध्ये स्कन्धस्याधश् चतुर्थके ॥१३॥

प्रवाहिकायां शूलिन्यां श्रोणितो द्व्य्-अङ्गुले स्थिताम् ।
शुक्र-मेढ्रामये मेढ्र ऊरु-गां गल-गण्डयोः ॥१४॥

गृध्रस्यां जानुनो ऽधस्-ताद् ऊर्ध्वं वा चतुर्-अङ्गुले ।
इन्द्र-वस्तेर् अधो ऽपच्यां द्व्य्-अङ्गुले चतुर्-अङ्गुले ॥१५॥

ऊर्ध्वं गुल्फस्य सक्थ्य्-अर्तौ तथा क्रोष्टुक-शीर्षके ।
पाद-दाहे खुडे हर्षे विपाद्यां वात-कण्टके ॥१६॥

२७.१६ - ऊर्ध्वं गुल्फस्य संध्य्-अर्तौ चिप्ये च द्व्य्-अङ्गुले विध्येद् उपरि क्षिप्र-मर्मणः ।
गृध्रस्याम् इव विश्वाच्यां यथोक्तानाम् अ-दर्शने ॥१७॥

मर्म-हीने यथासन्ने देशे ऽन्यां व्यधयेत् सिराम् ।
अथ स्निग्ध-तनुः सज्ज-सर्वोपकरणो बली ॥१८॥

कृत-स्वस्त्य्-अयनः स्निग्ध-रसान्न-प्रतिभोजितः ।
अग्नि-तापातप-स्विन्नो जानूच्चासन-संस्थितः ॥१९॥

मृदु-पट्टात्त-केशान्तो जानु-स्थापित-कूर्परः ।
मुष्टिभ्यां वस्त्र-गर्भाभ्यां मन्ये गाढं निपीडयेत् ॥२०॥

२७.२० - मन्ये गाढं प्रपीडयेत् दन्त-प्रपीडनोत्कास-गण्डाध्मानानि चाचरेत् ।
पृष्ठतो यन्त्रयेच् चैनं वस्त्रम् आवेष्टयन् नरः ॥२१॥

२७.२१ - वस्त्रम् आवेष्टयेन् नरः कन्धरायां परिक्षिप्य न्यस्यान्तर् वाम-तर्जनीम् ।
एषो ऽन्तर्-मुख-वर्ज्यानां सिराणां यन्त्रणे विधिः ॥२२॥

२७.२२ - तस्यान्तर् वाम-तर्जनीम् २७.२२ - एषो ऽन्तर्-मुख-वर्जानां ततो मध्यमयाङ्गुल्या वैद्यो ऽङ्गुष्ठ-विमुक्तया ।
ताडयेद् उत्थितां ज्ञात्वा स्पर्शाद् वाङ्गुष्ठ-पीडनैः ॥२३॥

२७.२३ - स्पर्शाङ्गुष्ठ-प्रपीडनैः कुठार्या लक्षयेन् मध्ये वाम-हस्त-गृहीतया ।
फलोद्देशे सु-निष्-कम्पं सिरां तद्-वच् च मोक्षयेत् ॥२४॥

ताडयन् पीडयंश् चैनां विध्येद् व्रीहि-मुखेन तु ।
अङ्गुष्ठेनोन्नमय्याग्रे नासिकाम् उप-नासिकाम् ॥२५॥

२७.२५ - ताडयन् पीडयन् वैनां २७.२५ - ताडयन् पीडयेच् चैनां अभ्युन्नत-विदष्टाग्र-जिह्वस्याधस् तद्-आश्रयाम् ।
यन्त्रयेत् स्तनयोर् ऊर्ध्वं ग्रीवाश्रित-सिरा-व्यधे ॥२६॥

पाषाण-गर्भ-हस्तस्य जानु-स्थे प्रसृते भुजे ।
कुक्षेर् आरभ्य मृदिते विध्येद् बद्धोर्ध्व-पट्टके ॥२७॥

विध्येद् धस्त-सिरां बाहाव् अन्-आकुञ्चित-कूर्परे ।
बद्ध्वा सुखोपविष्टस्य मुष्टिम् अङ्गुष्ठ-गर्भिणम् ॥२८॥

२७.२८ - मुष्टिम् अङ्गुष्ठ-गर्भिणीम् ऊर्ध्वं वेध्य-प्रदेशाच् च पट्टिकां चतुर्-अङ्गुले ।
विध्येद् आलम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम् ॥२९॥

प्रहृष्टे मेहने जङ्घा-सिरां जानुन्य् अ-कुञ्चिते ।
पादे तु सु-स्थिते ऽधस्-ताज् जानु-संधेर् निपीडिते ॥३०॥

२७.३० - पादे तु भू-स्थिते ऽधस्-ताज् गाढं कराभ्याम् आ-गुल्फं चरणे तस्य चोपरि ।
द्वितीये कुञ्चिते किञ्-चिद्-आरूढे हस्त-वत् ततः ॥३१॥

बद्ध्वा विध्येत् सिराम् इत्थम् अन्-उक्तेष्व् अपि कल्पयेत् ।
तेषु तेषु प्रदेशेषु तत् तद् यन्त्रम् उपाय-वित् ॥३२॥

मांसले निक्षिपेद् देशे व्रीह्य्-आस्यं व्रीहि-मात्रकम् ।
यवार्धम् अस्थ्नाम् उपरि सिरां विध्यन् कुठारिकाम् ॥३३॥

२७.३३ - सिरां विध्यन् कुठारया २७.३३ - सिरां विध्येत् कुठारया २७.३३ - सिरां विध्येत् कुठारिकाम् सम्यग्-विद्धा स्रवेद् धारां यन्त्रे मुक्ते तु न स्रवेत् ।
अल्प-कालं वहत्य् अल्पं दुर्-विद्धा तैल-चूर्णनैः ॥३४॥

२७.३४ - सम्यग्-विद्धे स्रवेद् धारा २७.३४ - यन्त्रे मुक्ते च न स्रवेत् २७.३४ - दुर्-विद्धा तैल-चूर्णितैः स-शब्दम् अति-विद्धा तु स्रवेद् दुःखेन धार्यते ।
भी-मूर्छा-यन्त्र-शैथिल्य-कुण्ठ-शस्त्राति-तृप्तयः ॥३५॥

क्षाम-त्व-वेगि-ता-स्वेदा रक्तस्या-स्रुति-हेतवः ।
अ-सम्यग् अस्रे स्रवति वेल्ल-व्योष-निशा-नतैः ॥३६॥

सागार-धूम-लवण-तैलैर् दिह्यात् सिरा-मुखम् ।
सम्यक्-प्रवृत्ते कोष्णेन तैलेन लवणेन च ॥३७॥

२७.३७ - तैलेन लवणेन वा अग्रे स्रवति दुष्टास्रं कुसुम्भाद् इव पीतिका ।
सम्यक् स्रुत्वा स्वयं तिष्ठेच् छुद्धं तद् इति नाहरेत् ॥३८॥

यन्त्रं विमुच्य मूर्छायां वीजिते व्यजनैः पुनः ।
स्रावयेन् मूर्छति पुनस् त्व् अपरे-द्युस् त्र्य्-अहे ऽपि वा ॥३९॥

वाताच् छ्यावारुणं रूक्षं वेग-स्राव्य् अच्छ-फेनिलं ।
पित्तात् पीतासितं विस्रम् अ-स्कन्द्य् औष्ण्यात् स-चन्द्रिकम् ॥४०॥

२७.४० - अ-स्कन्द्य् औष्ण्यात् स-चन्द्रकम् वातिकं शोणितं शीघ्रं भूमिः पिबति चावृतम् ।
मक्षिकाणाम् अ-कान्तं च रक्तं भवति पैत्तिकम् ॥४०-१॥

श्लैष्मिकं मक्षिकाक्रान्तं शुष्यत्य् अपि न चेणयत् ॥४०-२अब् ॥
कफात् स्निग्धम् असृक् पाण्डु तन्तु-मत् पिच्छिलं घनम् ।
संसृष्ट-लिङ्गं संसर्गात् त्रि-दोषं मलिनाविलम् ॥४१॥

अ-शुद्धौ बलिनो ऽप्य् अस्रं न प्रस्थात् स्रावयेत् परम् ।
अति-स्रुतौ हि मृत्युः स्याद् दारुणा वा चलामयाः ॥४२॥

२७.४२ - अ-शुद्धं बलिनो ऽप्य् अस्रं तत्राभ्यङ्ग-रस-क्षीर-रक्त-पानानि भेषजम् ।
स्रुते रक्ते शनैर् यन्त्रम् अपनीय हिमाम्बुना ॥४३॥

प्रक्षाल्य तैल-प्लोताक्तं बन्धनीयं सिरा-मुखम् ।
अ-शुद्धं स्रावयेद् भूयः सायम् अह्न्य् अपरे ऽपि वा ॥४४॥

२७.४४ - अ-शुद्धौ स्रावयेद् भूयः स्नेहोपस्कृत-देहस्य पक्षाद् वा भृश-दूषितम् ।
किञ्-चिद् धि शेषे दुष्टास्रे नैव रोगो ऽतिवर्तते ॥४५॥

स-शेषम् अप्य् अतो धार्यं न चाति-स्रुतिम् आचरेत् ।
हरेच् छृङ्गादिभिः शेषं प्रसादम् अथ-वा नयेत् ॥४६॥

शीतोपचार-पित्तास्र-क्रिया-शुद्धि-विशोषणैः ।
दुष्टं रक्तम् अन्-उद्रिक्तम् एवम् एव प्रसादयेत् ॥४७॥

रक्ते त्व् अ-तिष्ठति क्षिप्रं स्तम्भनीम् आचरेत् क्रियाम् ।
लोध्र-प्रियङ्गु-पत्तङ्ग-माष-यष्ट्य्-आह्व-गैरिकैः ॥४८॥

मृत्-कपालाञ्जन-क्षौम-मषी-क्षीरि-त्वग्-अङ्कुरैः ।
विचूर्णयेद् व्रण-मुखं पद्मकादि-हिमं पिबेत् ॥४९॥

ताम् एव वा सिरां विध्येद् व्यधात् तस्माद् अन्-अन्तरम् ।
सिरा-मुखं वा त्वरितं दहेत् तप्त-शलाकया ॥५०॥

२७.५० - सिरा-मुखं च त्वरितं उन्-मार्ग-गा यन्त्र-निपीडनेन स्व-स्थानम् आयान्ति पुनर् न यावत् ।
दोषाः प्रदुष्टा रुधिरं प्रपन्नास् तावद् धिताहार-विहार-भाक् स्यात् ॥५१॥

नात्य्-उष्ण-शीतं लघु दीपनीयं रक्ते ऽपनीते हितम् अन्न-पानम् ।
तदा शरीरं ह्य् अन्-अवस्थितासृग् अग्निर् विशेषाद् इति रक्षितव्यः ॥५२॥

२७.५२ - तदा शरीरं ह्य् अन्-अवस्थितास्रम् २७.५२ - अग्निर् विशेषाद् इति रक्षणीयः २७.५२ - अग्निर् विशेषेण च रक्षितव्यः प्रसन्न-वर्णेन्द्रियम् इन्द्रियार्थान् इच्छन्तम् अ-व्याहत-पक्तृ-वेगम् ।
सुखान्वितं पुष्टि-बलोपपन्नं विशुद्ध-रक्तं पुरुषं वदन्ति ॥५३॥

रक्त-जा व्यङ्ग-कुष्ठाद्याः कण्ठास्याक्षि-शिरो-गदाः ।
पलितारूंषिकाबाधाः शाम्यन्त्य् एते सिरा-व्यधात् ॥५३-१॥

निर्-व्याधि-नीलोत्पल-पत्त्र-नेत्रं सु-व्यक्त-मूलासित-बद्ध-केशम् ।
चन्द्रोपमं पद्म-सु-गन्धि वक्त्रं भवेल् ललाटे तु सिरा-व्यधेन ॥५३-२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:01.2730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sheet and plate mill

  • पत्रा व पट्टी निर्माणी 
RANDOM WORD

Did you know?

How do I contact you?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.