TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय १२

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १२
पक्वाशय-कटी-सक्थि-श्रोत्रास्थि-स्पर्शनेन्द्रियम् ।
स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः ॥१॥

नाभिर् आमाशयः स्वेदो लसीका रुधिरं रसः ।
दृक् स्पर्शनं च पित्तस्य नाभिर् अत्र विशेषतः ॥२॥

उरः-कण्ठ-शिरः-क्लोम-पर्वाण्य् आमाशयो रसः ।
मेदो घ्राणं च जिह्वा च कफस्य सु-तराम् उरः ॥३॥

प्राणादि-भेदात् पञ्चात्मा वायुः प्राणो ऽत्र मूर्ध-गः ।
उरः-कण्ठ-चरो बुद्धि-हृदयेन्द्रिय-चित्त-धृक् ॥४॥

ष्ठीवन-क्षवथूद्गार-निःश्वासान्न-प्रवेश-कृत् ।
उरः स्थानम् उदानस्य नासा-नाभि-गलांश् चरेत् ॥५॥

१२.५ - नासा-नाभि-गलांश् चरन् वाक्-प्रवृत्ति-प्रयत्नोर्जा-बल-वर्ण-स्मृति-क्रियः ।
व्यानो हृदि स्थितः कृत्स्न-देह-चारी महा-जवः ॥६॥

गत्य्-अपक्षेपणोत्क्षेप-निमेषोन्मेषणादिकाः ।
प्रायः सर्वाः क्रियास् तस्मिन् प्रतिबद्धाः शरीरिणाम् ॥७॥

समानो ऽग्नि-समीप-स्थः कोष्ठे चरति सर्वतः ।
अन्नं गृह्णाति पचति विवेचयति मुञ्चति ॥८॥

अपानो ऽपान-गः श्रोणि-वस्ति-मेढ्रोरु-गो-चरः ।
शुक्रार्तव-शकृन्-मूत्र-गर्भ-निष्क्रमण-क्रियः ॥९॥

पित्तं पञ्चात्मकं तत्र पक्वामाशय-मध्य-गम् ।
पञ्च-भूतात्मक-त्वे ऽपि यत् तैजस-गुणोदयात् ॥१०॥

त्यक्त-द्रव्य-त्वं पाकादि-कर्मणानल-शब्दितम् ।
पचत्य् अन्नं विभजते सार-किट्टौ पृथक् तथा ॥११॥

१२.११ - सार-किट्टे पृथक् तथा तत्र-स्थम् एव पित्तानां शेषाणाम् अप्य् अनुग्रहम् ।
करोति बल-दानेन पाचकं नाम तत् स्मृतम् ॥१२॥

आमाशयाश्रयं पित्तं रञ्जकं रस-रञ्जनात् ।
बुद्धि-मेधाभिमानाद्यैर् अभिप्रेतार्थ-साधनात् ॥१३॥

साधकं हृद्-गतं पित्तं रूपालोचनतः स्मृतम् ।
दृक्-स्थम् आलोचकं त्वक्-स्थं भ्राजकं भ्राजनात् त्वचः ॥१४॥

श्लेष्मा तु पञ्च-धोरः-स्थः स त्रिकस्य स्व-वीर्यतः ।
हृदयस्यान्न-वीर्याच् च तत्-स्थ एवाम्बु-कर्मणा ॥१५॥

१२.१५ - श्लेष्मापि पञ्च-धोरः-स्थः कफ-धाम्नां च शेषाणां यत् करोत्य् अवलम्बनम् ।
अतो ऽवलम्बकः श्लेष्मा यस् त्व् आमाशय-संस्थितः ॥१६॥

१२.१६ - यस् त्व् आमाशय-संश्रितः क्लेदकः सो ऽन्न-संघात-क्लेदनाद् रस-बोधनात् ।
बोधको रसना-स्थायी शिरः-संस्थो ऽक्ष-तर्पणात् ॥१७॥

तर्पकः संधि-संश्लेषाच् छ्लेषकः संधिषु स्थितः ।
इति प्रायेण दोषाणां स्थानान्य् अ-विकृतात्मनाम् ॥१८॥

१२.१८ - छ्लेषकः संधि-संस्थितः व्यापिनाम् अपि जानीयात् कर्माणि च पृथक् पृथक् ।
उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति संचयम् ॥१९॥

शीतेन कोपम् उष्णेन शमं स्निग्धादयो गुणाः ।
शीतेन युक्तास् तीक्ष्णाद्याश् चयं पित्तस्य कुर्वते ॥२०॥

उष्णेन कोपं मन्दाद्याः शमं शीतोपसंहिताः ।
शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश् चयम् ॥२१॥

उष्णेन कोपं तेनैव गुणा रूक्षादयः शमम् ।
चयो वृद्धिः स्व-धाम्न्य् एव प्रद्वेषो वृद्धि-हेतुषु ॥२२॥

विपरीत-गुणेच्छा च कोपस् तून्-मार्ग-गमि-ता ।
लिङ्गानां दर्शनं स्वेषाम् अ-स्वास्थ्यं रोग-संभवः ॥२३॥

स्व-स्थान-स्थस्य सम-ता विकारा-संभवः शमः ।
चय-प्रकोप-प्रशमा वायोर् ग्रीष्मादिषु त्रिषु ॥२४॥

वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु ।
चीयते लघु-रूक्षाभिर् ओषधिभिः समीरणः ॥२५॥

१२.२५ - वर्षादिषु च पित्तस्य तद्-विधस् तद्-विधे देहे कालस्यौष्ण्यान् न कुप्यति ।
अद्भिर् अम्ल-विपाकाभिर् ओषधिभिश् च तादृशम् ॥२६॥

पित्तं याति चयं कोपं न तु कालस्य शैत्यतः ।
चीयते स्निग्ध-शीताभिर् उदकौषधिभिः कफः ॥२७॥

तुल्ये ऽपि काले देहे च स्कन्न-त्वान् न प्रकुप्यति ।
इति काल-स्व-भावो ऽयम् आहारादि-वशात् पुनः ॥२८॥

१२.२८ - स्कन्न-त्वान् न विकुप्यति चयादीन् यान्ति सद्यो ऽपि दोषाः काले ऽपि वा न तु ।
व्याप्नोति सहसा देहम् आ-पाद-तल-मस्तकम् ॥२९॥

निवर्तते तु कुपितो मलो ऽल्पाल्पं जलौघ-वत् ।
नाना-रूपैर् अ-संख्येयैर् विकारैः कुपिता मलाः ॥३०॥

तापयन्ति तनुं तस्मात् तद्-धेत्व्-आकृति-साधनम् ।
शक्यं नैकैक-शो वक्तुम् अतः सामान्यम् उच्यते ॥३१॥

दोषा एव हि सर्वेषां रोगाणाम् एक-कारणम् ।
यथा पक्षी परिपतन् सर्वतः सर्वम् अप्य् अहः ॥३२॥

छायाम् अत्येति नात्मीयां यथा वा कृत्स्नम् अप्य् अदः ।
विकार-जातं विविधं त्रीन् गुणान् नातिवर्तते ॥३३॥

तथा स्व-धातु-वैषम्य-निमित्तम् अपि सर्व-दा ।
विकार-जातं त्रीन् दोषान् तेषां कोपे तु कारणम् ॥३४॥

अर्थैर् अ-सात्म्यैः संयोगः कालः कर्म च दुष्-कृतम् ।
हीनाति-मिथ्या-योगेन भिद्यते तत् पुनस् त्रि-धा ॥३५॥

हीनो ऽर्थेनेन्द्रियस्याल्पः संयोगः स्वेन नैव वा ।
अति-योगो ऽति-संसर्गः सूक्ष्म-भासुर-भैरवम् ॥३६॥

अत्य्-आसन्नाति-दूर-स्थं वि-प्रियं विकृतादि च ।
यद् अक्ष्णा वीक्ष्यते रूपं मिथ्या-योगः स दारुणः ॥३७॥

१२.३७ - मिथ्या-योगः सु-दारुणः एवम् अत्य्-उच्च-पूत्य्-आदीन् इन्द्रियार्थान् यथा-यथम् ।
विद्यात् कालस् तु शीतोष्ण-वर्षा-भेदात् त्रि-धा मतः ॥३८॥

१२.३८ - वर्ष-भेदात् त्रि-धा मतः स हीनो हीन-शीतादिर् अति-योगो ऽति-लक्षणः ।
मिथ्या-योगस् तु निर्दिष्टो विपरीत-स्व-लक्षणः ॥३९॥

काय-वाक्-चित्त-भेदेन कर्मापि विभजेत् त्रि-धा ।
कायादि-कर्मणो हीना प्रवृत्तिर् हीन-संज्ञकः ॥४०॥

१२.४० - कायादि-कर्मणां हीना १२.४० - प्रवृत्तिर् हीन-संज्ञिका अति-योगो ऽति-वृत्तिस् तु वेगोदीरण-धारणम् ।
विषमाङ्ग-क्रियारम्भ-पतन-स्खलनादिकम् ॥४१॥

१२.४१ - अति-योगो ऽति-वृत्तिश् च भाषणं सामि-भुक्तस्य राग-द्वेष-भयादि च ।
कर्म प्राणातिपातादि दश-धा यच् च निन्दितम् ॥४२॥

मिथ्या-योगः समस्तो ऽसाव् इह वामु-त्र वा कृतम् ।
निदानम् एतद् दोषाणां कुपितास् तेन नैक-धा ॥४३॥

१२.४३ - इह चामु-त्र वा कृतम् कुर्वन्ति विविधान् व्याधीन् शाखा-कोष्ठास्थि-संधिषु ।
शाखा रक्तादयस् त्वक् च बाह्य-रोगायनं हि तत् ॥४४॥

१२.४४ - बाह्य-रोगायनं हि सा तद्-आश्रया मष-व्यङ्ग-गण्डालज्य्-अर्बुदादयः ।
बहिर्-भागाश् च दुर्-नाम-गुल्म-शोफादयो गदाः ॥४५॥

अन्तः कोष्ठो महा-स्रोत आम-पक्वाशयाश्रयः ।
तत्-स्थानाः छर्द्य्-अतीसार-कास-श्वासोदर-ज्वराः ॥४६॥

अन्तर्-भागं च शोफार्शो-गुल्म-विसर्प-विद्रधि ।
शिरो-हृदय-वस्त्य्-आदि-मर्माण्य् अस्थ्नां च संधयः ॥४७॥

१२.४७ - मर्माण्य् अस्थ्नां तु संधयः तन्-निबद्धाः सिरा-स्नायु-कण्डराद्याश् च मध्यमः ।
रोग-मार्गः स्थितास् तत्र यक्ष्म-पक्ष-वधार्दिताः ॥४८॥

मूर्धादि-रोगाः संध्य्-अस्थि-त्रिक-शूल-ग्रहादयः ।
स्रंस-व्यास-व्यध-स्वाप् अ-साद-रुक्-तोद-भेदनम् ॥४९॥

सङ्गाङ्ग-भङ्ग-संकोच-वर्त-हर्षण-तर्पणम् ।
कम्प-पारुष्य-सौषिर्य-शोष-स्पन्दन-वेष्टनम् ॥५०॥

स्तम्भः कषाय-रस-ता वर्णः श्यावो ऽरुणो ऽपि वा ।
कर्माणि वायोः पित्तस्य दाह-रागोष्म-पाकि-ताः ॥५१॥

स्वेदः क्लेदः स्रुतिः कोथः सदनं मूर्छनं मदः ।
कटुकाम्लौ रसौ वर्णः पाण्डुरारुण-वर्जितः ॥५२॥

श्लेष्मणः स्नेह-काठिन्य-कण्डू-शीत-त्व-गौरवम् ।
बन्धोपलेप-स्तैमित्य-शोफा-पक्त्य्-अति-निद्र-ताः ॥५३॥

वर्णः श्वेतो रसौ स्वादु-लवणौ चिर-कारि-ता ।
इत्य् अ-शेषामय-व्यापि यद् उक्तं दोष-लक्षणम् ॥५४॥

दर्शनाद्यैर् अवहितस् तत् सम्यग् उपलक्षयेत् ।
व्याध्य्-अवस्था-विभाग-ज्ञः पश्यन्न् आर्तान् प्रति-क्षणम् ॥५५॥

अभ्यासात् प्राप्यते दृष्टिः कर्म-सिद्धि-प्रकाशिनी ।
रत्नादि-सद्-अ-सज्-ज्ञानं न शास्त्राद् एव जायते ॥५६॥

१२.५६ - अभ्यासाज् जायते दृष्टिः १२.५६ - अभ्यासात् केवलं दृष्टिः दृष्टापचार-जः कश्-चित् कश्-चित् पूर्वापराध-जः ।
तत्-संकराद् भवत्य् अन्यो व्याधिर् एवं त्रि-धा स्मृतः ॥५७॥

१२.५७ - कश्-चित् पूर्वापचार-जः १२.५७ - व्याधिर् एवं त्रि-धा मतः यथा-निदानं दोषोत्थः कर्म-जो हेतुभिर् विना ।
महारम्भो ऽल्पके हेताव् आतङ्को दोष-कर्म-जः ॥५८॥

विपक्ष-शीलनात् पूर्वः कर्म-जः कर्म-संक्षयात् ।
गच्छत्य् उभय-जन्मा तु दोष-कर्म-क्षयात् क्षयम् ॥५९॥

द्वि-धा स्व-पर-तन्त्र-त्वाद् व्याधयो ऽन्त्याः पुनर् द्वि-धा ।
पूर्व-जाः पूर्व-रूपाख्या जाताः पश्चाद् उपद्रवाः ॥६०॥

यथा-स्व-जन्मोपशयाः स्व-तन्त्राः स्पष्ट-लक्षणाः ।
विपरीतास् ततो ऽन्ये तु विद्याद् एवं मलान् अपि ॥६१॥

ताō̃ लक्षयेद् अवहितो विकुर्वाणान् प्रति-ज्वरम् ।
तेषां प्रधान-प्रशमे प्रशमो ऽ-शाम्यतस् तथा ॥६२॥

पश्चाच् चिकित्सेत् तूर्णं वा बल-वन्तम् उपद्रवम् ।
व्याधि-क्लिष्ट-शरीरस्य पीडा-कर-तरो हि सः ॥६३॥

१२.६३ - पश्चाच् चिकित्सेत् पूर्वं वा विकार-नामा-कुशलो न जिह्रीयात् कदा-च-न ।
न हि सर्व-विकाराणां नामतो ऽस्ति ध्रुवा स्थितिः ॥६४॥

स एव कुपितो दोषः समुत्थान-विशेषतः ।
स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून् ॥६५॥

तस्माद् विकार-प्रकृतीर् अधिष्ठानान्तराणि च ।
बुद्ध्वा हेतु-विशेषांश् च शीघ्रं कुर्याद् उपक्रमम् ॥६६॥

दूष्यं देशं बलं कालम् अनलं प्रकृतिं वयः ।
सत्-त्वं सात्म्यं तथाहारम् अवस्थाश् च पृथग्-विधाः ॥६७॥

सूक्ष्म-सूक्ष्माः समीक्ष्यैषां दोषौषध-निरूपणे ।
यो वर्तते चिकित्सायां न स स्खलति जातु चित् ॥६८॥

गुर्व्-अल्प-व्याधि-संस्थानं सत्-त्व-देह-बला-बलात् ।
दृश्यते ऽप्य् अन्य-था-कारं तस्मिन्न् अवहितो भवेत् ॥६९॥

गुरुं लघुम् इति व्याधिं कल्पयंस् तु भिषग्-ब्रुवः ।
अल्प-दोषाकलनया पथ्ये विप्रतिपद्यते ॥७०॥

१२.७० - कलयंस् तु भिषग्-ब्रुवः १२.७० - कल्पयंस् तु भिषग् ध्रुवम् ततो ऽल्पम् अल्प-वीर्यं वा गुरु-व्याधौ प्रयोजितम् ।
उदीरयेत्-तरां रोगान् संशोधनम् अ-योगतः ॥७१॥

शोधनं त्व् अति-योगेन विपरीतं विपर्यये ।
क्षिणुयान् न मलान् एव केवलं वपुर् अस्यति ॥७२॥

१२.७२ - केवलं वपुर् अप्य् अति अतो ऽभियुक्तः सततं सर्वम् आलोच्य सर्व-था ।
तथा युञ्जीत भैषज्यम् आरोग्याय यथा ध्रुवम् ॥७३॥

१२.७३ - आरोग्याय यथा भवेत् वक्ष्यन्ते ऽतः परं दोषा वृद्धि-क्षय-विभेदतः ।
पृथक् त्रीन् विद्धि संसर्गस् त्रि-धा तत्र तु तान् नव ॥७४॥

१२.७४ - पृथक् त्रीन् विद्धि संसर्गं त्रीन् एव समया वृद्ध्या षड् एकस्यातिशायने ।
त्रयो-दश समस्तेषु षड् द्व्य्-एकातिशयेन तु ॥७५॥

१२.७५ - षड् द्व्य्-एकातिशयेन च एकं तुल्याधिकैः षट् च तारतम्य-विकल्पनात् ।
पञ्च-विंशतिम् इत्य् एवं वृद्धैः क्षीणैश् च तावतः ॥७६॥

१२.७६ - पञ्च-विंशतिर् इत्य् एवं एकैक-वृद्धि-सम-ता-क्षयैः षट् ते पुनश् च षट् ।
एक-क्षय-द्वन्द्व-वृद्ध्या स-विपर्यययापि ते ॥७७॥

भेदा द्वि-षष्टिर् निर्दिष्टास् त्रि-षष्टिः स्वास्थ्य-कारणम् ॥७८अब् ॥
संसर्गाद् रस-रुधिरादिभिस् तथैषां ॥७८च् ॥
१२.७८ - संसर्गाद् रस-रुधिरादिभिस् तथैतान् दोषांस् तु क्षय-सम-ता-विवृद्धि-भेदैः ॥७८द् ॥
१२.७८ - दोषाणां क्षय-सम-ता-विवृद्धि-भेदैः आनन्त्यं तर-तम-योगतश् च यातान् ॥७८ए ॥
जानीयाद् अवहित-मानसो यथा-स्वम् ॥७८f ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:57.2770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पोटांत सलणें

  • मत्सर, हेवा वाटणें 
  • अत्यत द्वेष वाटणें. 
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site