TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - अध्याय १९

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १९
वातोल्बणेषु दोषेषु वाते वा वस्तिर् इष्यते ।
उपक्रमाणां सर्वेषां सो ऽग्रणीस् त्रि-विधस् तु सः ॥१॥

१९.१ - सो ऽग्रणीस् त्रि-विधश् च सः निरूहो ऽन्वासनं वस्तिर् उत्तरस् तेन साधयेत् ।
गुल्मानाह-खुड-प्लीह-शुद्धातीसार-शूलिनः ॥२॥

जीर्ण-ज्वर-प्रतिश्याय-शुक्रानिल-मल-ग्रहान् ।
वर्ध्माश्मरी-रजो-नाशान् दारुणांश् चानिलामयान् ॥३॥

अन्-आस्थाप्यास् त्व् अति-स्निग्धः क्षतोरस्को भृशं कृशः ।
आमातीसारी वमि-मान् संशुद्धो दत्त-नावनः ॥४॥

श्वास-कास-प्रसेकार्शो-हिध्माध्मानाल्प-वह्नयः ।
शून-पायुः कृताहारो बद्ध-च्छिद्रोदकोदरी ॥५॥

१९.५ - बद्ध-च्छिद्र-दकोदरी कुष्ठी च मधु-मेही च मासान् सप्त च गर्भिणी ।
आस्थाप्या एव चान्वास्या विशेषाद् अति-वह्नयः ॥६॥

रूक्षाः केवल-वातार्ता नानुवास्यास् त एव च ।
ये ऽन्-आस्थाप्यास् तथा पाण्डु-कामला-मेह-पीनसाः ॥७॥

निर्-अन्न-प्लीह-विड्-भेदि-गुरु-कोष्ठ-कफोदराः ।
अभिष्यन्दि-भृश-स्थूल-कृमि-कोष्ठाढ्य-मारुताः ॥८॥

१९.८ - गुरु-कोष्ठः कफोदरी १९.८ - अभिष्यन्दि-कृश-स्थूल- पीते विषे गरे ऽपच्यां श्लीपदी गल-गण्ड-वान् ।
तयोस् तु नेत्रं हेमादि-धातु-दार्व्-अस्थि-वेणु-जम् ॥९॥

गो-पुच्छाकारम् अ-च्छिद्रं श्लक्ष्णर्जु गुटिका-मुखम् ।
ऊने ऽब्दे पञ्च पूर्णे ऽस्मिन्न् आ-सप्तभ्यो ऽङ्गुलानि षट् ॥१०॥

सप्तमे सप्त तान्य् अष्टौ द्वा-दशे षो-डशे नव ।
द्वा-दशैव परं विंशाद् वीक्ष्य वर्षान्तरेषु च ॥११॥

वयो-बल-शरीराणि प्रमाणम् अभिवर्धयेत् ।
स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया ॥१२॥

पूर्णे ऽब्दे ऽङ्गुलम् आदाय तद्-अर्धार्ध-प्रवर्धितम् ।
त्र्य्-अङ्गुलं परमं छिद्रं मूले ऽग्रे वहते तु यत् ॥१३॥

मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात् ।
मूल-च्छिद्र-प्रमाणेन प्रान्ते घटित-कर्णिकम् ॥१४॥

वर्त्याग्रे पिहितं मूले यथा-स्वं द्व्य्-अङ्गुलान्तरम् ।
कर्णिका-द्वितयं नेत्रे कुर्यात् तत्र च योजयेत् ॥१५॥

१९.१५ - यथा-स्वं द्व्य्-अङ्गुलान्तरे १९.१५ - कुर्यात् तत्र प्रयोजयेत् १९.१५ - कुर्यात् तत्र तु योजयेत् अजावि-महिषादीनां वस्तिं सु-मृदितं दृढम् ।
कषाय-रक्तं निश्-छिद्र-ग्रन्थि-गन्ध-सिरं तनुम् ॥१६॥

१९.१६ - गो-ऽजावि-महिषादीनां ग्रथितं साधु सूत्रेण सुख-संस्थाप्य-भेषजम् ।
वस्त्य्-अ-भावे ऽङ्क-पादं वा न्यसेद् वासो ऽथ-वा घनम् ॥१७॥

१९.१७ - ग्रन्थितं साधु सूत्रेण निरूह-मात्रा प्रथमे प्रकुञ्चो वत्सरे परम् ।
प्रकुञ्च-वृद्धिः प्रत्य्-अब्दं यावत् षट् प्रसृतास् ततः ॥१८॥

१९.१८ - प्रकुञ्चो वत्सरात् परम् प्रसृतं वर्धयेद् ऊर्ध्वं द्वा-दशाष्टा-दशस्य तु ।
आ-सप्ततेर् इदं मानं दशैव प्रसृताः परम् ॥१९॥

१९.१९ - द्वा-दशाष्टा-दशस्य च यथा-यथं निरूहस्य पादो मात्रानुवासने ।
आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्ध-बलं पुनः ॥२०॥

अन्वासनार्हं विज्ञाय पूर्वम् एवानुवासयेत् ।
शीते वसन्ते च दिवा रात्रौ के-चित् ततो ऽन्य-दा ॥२१॥

१९.२१ - रात्रौ के-चित् ततो ऽन्य-था अभ्यक्त-स्नातम् उचितात् पाद-हीनं हितं लघु ।
अ-स्निग्ध-रूक्षम् अशितं सानु-पानं द्रवादि च ॥२२॥

१९.२२ - सानु-पानं द्रवादि वा कृत-चङ्क्रमणं मुक्त-विण्-मूत्रं शयने सुखे ।
नात्य्-उच्छ्रिते न चोच्-छीर्षे संविष्टं वाम-पार्श्वतः ॥२३॥

संकोच्य दक्षिणं सक्थि प्रसार्य च ततो ऽपरम् ।
अथास्य नेत्रं प्रणयेत् स्निग्धे स्निग्ध-मुखं गुदे ॥२४॥

१९.२४ - स्निग्धं स्निग्ध-मुखे गुदे उच्छ्वास्य वस्तेर् वदने बद्धे हस्तम् अ-कम्पयन् ।
पृष्ठ-वंशं प्रति ततो नाति-द्रुत-विलम्बितम् ॥२५॥

नाति-वेगं न वा मन्दं सकृद् एव प्रपीडयेत् ।
सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति ॥२६॥

१९.२६ - सावशेषं प्रकुर्वीत दत्ते तूत्तान-देहस्य पाणिना ताडयेत् स्फिजौ ।
तत्-पार्ष्णिभ्यां तथा शय्यां पादतश् च त्रिर् उत्क्षिपेत् ॥२७॥

ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके ।
आहन्यान् मुष्टिनाङ्गं च स्नेहेनाभ्यज्य मर्दयेत् ॥२८॥

वेदनार्तम् इति स्नेहो न हि शीघ्रं निवर्तते ।
योज्यः शीघ्रं निवृत्ते ऽन्यः स्नेहो ऽ-तिष्ठन्न् अ-कार्य-कृत् ॥२९॥

दीप्ताग्निं त्व् आगत-स्नेहं सायाह्ने भोजयेल् लघु ।
निवृत्ति-कालः परमस् त्रयो यामस् ततः परम् ॥३०॥

अहो-रात्रम् उपेक्षेत परतः फल-वर्तिभिः ।
तीक्ष्णैर् वा वस्तिभिः कुर्याद् यत्नं स्नेह-निवृत्तये ॥३१॥

अति-रौक्ष्याद् अन्-आगच्छन् न चेज् जाड्यादि-दोष-कृत् ।
उपेक्षेतैव हि ततो ऽध्युषितश् च निशां पिबेत् ॥३२॥

प्रातर् नागर-धान्याम्भः कोष्णं केवलम् एव वा ।
अन्वासयेत् तृतीये ऽह्नि पञ्चमे वा पुनश् च तम् ॥३३॥

यथा वा स्नेह-पक्तिः स्याद् अतो ऽत्य्-उल्बण-मारुतान् ।
व्यायाम-नित्यान् दीप्ताग्नीन् रूक्षांश् च प्रति-वासरम् ॥३४॥

आध्मान-संकोच-पुरीष-बन्ध-क्षीणेन्द्रिय-त्वा-रुचि-भङ्ग-शूलाः ।
पाङ्गुल्य-शाखाश्रित-वात-भग्न-बन्धाश् च साध्या ह्य् अनुवासनेन ॥३४-१॥

१९.३४-१ - वाताश् च साध्या ह्य् अनुवासनेन इति स्नेहैस् त्रि-चतुरैः स्निग्धे स्रोतो-विशुद्धये ।
निरूहं शोधनं युञ्ज्याद् अ-स्निग्धे स्नेहनं तनोः ॥३५॥

पञ्चमे ऽथ तृतीये वा दिवसे साधके शुभे ।
मध्याह्ने किञ्-चिद्-आवृत्ते प्रयुक्ते बलि-मङ्गले ॥३६॥

अभ्यक्त-स्वेदितोत्सृष्ट-मलं नाति-बुभुक्षितम् ।
अवेक्ष्य पुरुषं दोष-भेषजादीनि चादरात् ॥३७॥

१९.३७ - अवेत्य पुरुषं दोष- वस्तिं प्रकल्पयेद् वैद्यस् तद्-विद्यैर् बहुभिः सह ।
क्वाथयेद् विंशति-पलं द्रव्यस्याष्टौ फलानि च ॥३८॥

१९.३८ - तद्-वेद्यैर् बहुभिः सह १९.३८ - तद्-विधैर् बहुभिः सह ततः क्वाथाच् चतुर्थांशं स्नेहं वाते प्रकल्पयेत् ।
पित्ते स्वस्थे च षष्ठांशम् अष्टमांशं कफे ऽधिके ॥३९॥

१९.३९ - स्नेहं वाते ऽनु कल्पयेत् १९.३९ - स्नेहं वाते तु कल्पयेत् सर्व-त्र चाष्टमं भागं कल्काद् भवति वा यथा ।
नात्य्-अच्छ-सान्द्र-ता वस्तेः पल-मात्रं गुडस्य च ॥४०॥

मधु-पट्व्-आदि-शेषं च युक्त्या सर्वं तद् एकतः ।
उष्णाम्बु-कुम्भी-बाष्पेण तप्तं खज-समाहतम् ॥४१॥

प्रक्षिप्य वस्तौ प्रणयेत् पायौ नात्य्-उष्ण-शीतलम् ।
नाति-स्निग्धं न वा रूक्षं नाति-तीक्ष्णं न वा मृदु ॥४२॥

नात्य्-अच्छ-सान्द्रं नोनाति-मात्रं ना-पटु नाति च ।
लवणं तद्-वद् अम्लं च पठन्त्य् अन्ये तु तद्-विदः ॥४३॥

१९.४३ - वदन्त्य् अन्ये तु तद्-विदः मात्रां त्रि-पलिकां कुर्यात् स्नेह-माक्षिकयोः पृथक् ।
कर्षार्धं माणिमन्थस्य स्वस्थे कल्क-पल-द्वयम् ॥४४॥

सर्व-द्रवाणां शेषाणां पलानि दश कल्पयेत् ।
माक्षिकं लवणं स्नेहं कल्कं क्वाथम् इति क्रमात् ॥४५॥

आवपेत निरूहाणाम् एष संयोजने विधिः ।
उत्तानो दत्त-मात्रे तु निरूहे तन्-मना भवेत् ॥४६॥

कृतोपधानः सञ्जात-वेगश् चोत्कटकः सृजेत् ।
आगतौ परमः कालो मुहूर्तो मृत्यवे परम् ॥४७॥

१९.४७ - वेगश् चोत्कटुकः सृजेत् १९.४७ - वेगश् चोत्कुटकः सृजेत् १९.४७ - मुहूर्तो मृत्यवे परः तत्रानुलोमिकं स्नेह-क्षार-मूत्राम्ल-कल्पितम् ।
त्वरितं स्निग्ध-तीक्ष्णोष्णं वस्तिम् अन्यं प्रपीडयेत् ॥४८॥

१९.४८ - तत्रानुलोमिक-स्नेह- विदद्यात् फल-वर्तिं वा स्वेदनोत्त्रासनादि च ।
स्वयम् एव निवृत्ते तु द्वितीयो वस्तिर् इष्यते ॥४९॥

१९.४९ - स्वेदनोत्रासनादि वा तृतीयो ऽपि चतुर्थो ऽपि यावद् वा सु-निरूढ-ता ।
विरिक्त-वच् च योगादीन् विद्याद् योगे तु भोजयेत् ॥५०॥

१९.५० - यावद् वा सु-निरूह-ता १९.५० - विद्याद् योगे तु योजयेत् कोष्णेन वारिणा स्नातं तनु-धन्व-रसौदनम् ।
विकारा ये निरूढस्य भवन्ति प्रचलैर् मलैः ॥५१॥

१९.५१ - कोष्णेन वारिणा स्नानं १९.५१ - विकारा ये निरूहस्य ते सुखोष्णाम्बु-सिक्तस्य यान्ति भुक्त-वतः शमम् ।
अथ वातार्दितं भूयः सद्य एवानुवासयेत् ॥५२॥

सम्यग्-धीनाति-योगाश् च तस्य स्युः स्नेह-पीत-वत् ।
किञ्-चित्-कालं स्थितो यश् च स-पुरीषो निवर्तते ॥५३॥

१९.५३ - किञ्-चित्-कालं स्थितो यस्य सानुलोमानिलः स्नेहस् तत् सिद्धम् अनुवासनम् ।
एकं त्रीन् वा बलासे तु स्नेह-वस्तीन् प्रकल्पयेत् ॥५४॥

१९.५४ - स्नेह-वस्तीन् प्रयोजयेत् पञ्च वा सप्त वा पित्ते नवैका-दश वानिले ।
पुनस् ततो ऽप्य् अ-युग्मांस् तु पुनर् आस्थापनं ततः ॥५५॥

कफ-पित्तानिलेष्व् अन्नं यूष-क्षीर-रसैः क्रमात् ।
वात-घ्नौषध-निःक्वाथ-त्रिवृता-सैन्धवैर् युतः ॥५६॥

वस्तिर् एको ऽनिले स्निग्धः स्वाद्व्-अम्लोष्णो रसान्वितः ।
न्यग्रोधादि-गण-क्वाथ-पद्मकादि-सिता-युतौ ॥५७॥

१९.५७ - स्वाद्व्-अम्लोष्ण-रसान्वितः पित्ते स्वादु-हिमौ साज्य-क्षीरेक्षु-रस-माक्षिकौ ।
आरग्वधादि-निःक्वाथ-वत्सकादि-युतास् त्रयः ॥५८॥

रूक्षाः स-क्षौद्र-गो-मूत्रास् तीक्ष्णोष्ण-कटुकाः कफे ।
त्रयस् ते संनिपाते ऽपि दोषान् घ्नन्ति यतः क्रमात् ॥५९॥

१९.५९ - त्रयश् च संनिपाते ऽपि त्रिभ्यः परं वस्तिम् अतो नेच्छन्त्य् अन्ये चिकित्सकाः ।
न हि दोषश् चतुर्थो ऽस्ति पुनर् दीयेत यं प्रति ॥६०॥

१९.६० - नाचार्य-चरकस्यातो १९.६० - वस्तिस् त्रिभ्यः परं मतः उत्क्लेशनं शुद्धि-करं दोषाणां शमनं क्रमात् ।
त्रि-धैव कल्पयेद् वस्तिम् इत्य् अन्ये ऽपि प्रचक्षते ॥६१॥

१९.६१ - त्रि-धैवं कल्पयेद् वस्तिम् दोषौषधादि-बलतः सर्वम् एतत् प्रमाणयेत् ।
सम्यङ्-निरूढ-लिङ्गं तु ना-संभाव्य निवर्तयेत् ॥६२॥

प्राक् स्नेह एकः पञ्चान्ते द्वा-दशास्थापनानि च ।
सान्वासनानि कर्मैवं वस्तयस् त्रिंशद् ईरिताः ॥६३॥

कालः पञ्च-दशैको ऽत्र प्राक् स्नेहो ऽन्ते त्रयस् तथा ।
षट् पञ्च-वस्त्य्-अन्तरिता योगो ऽष्टौ वस्तयो ऽत्र तु ॥६४॥

त्रयो निरूहाः स्नेहाश् च स्नेहाव् आद्य्-अन्तयोर् उभौ ।
स्नेह-वस्तिं निरूहं वा नैकम् एवातिशीलयेत् ॥६५॥

उत्क्लेशाग्नि-वधौ स्नेहान् निरूहान् मरुतो भयम् ।
तस्मान् निरूढः स्नेह्यः स्यान् निरूह्यश् चानुवासितः ॥६६॥

स्नेह-शोधन-युक्त्यैवं वस्ति-कर्म त्रि-दोष-जित् ।
ह्रस्वया स्नेह-पानस्य मात्रया योजितः समः ॥६७॥

मात्रा-वस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः ।
बाल-वृद्धाध्व-भार-स्त्री-व्यायामासक्त-चिन्तकैः ॥६८॥

१९.६८ - बाल-वृद्धाध्व-भाष्य-स्त्री- वात-भग्ना-बलाल्पाग्नि-नृपेश्वर-सुखात्मभिः ।
दोष-घ्नो निष्-परीहारो बल्यः सृष्ट-मलः सुखः ॥६९॥

१९.६९ - नृपैश्वर्य-सुखात्मभिः वस्तौ रोगेषु नारीणां योनि-गर्भाशयेषु च ।
द्वि-त्रास्थापन-शुद्धेभ्यो विदध्याद् वस्तिम् उत्तरम् ॥७०॥

आतुराङ्गुल-मानेन तन्-नेत्रं द्वा-दशाङ्गुलम् ।
वृत्तं गो-पुच्छ-वन् मूल-मद्ययोः कृत-कर्णिकम् ॥७१॥

सिद्धार्थक-प्रवेशाग्रं श्लक्ष्णं हेमादि-संभवम् ।
कुन्दाश्वमार-सुमनः-पुष्प-वृन्तोपमं दृढम् ॥७२॥

तस्य वस्तिर् मृदु-लघुर् मात्रा शुक्तिर् विकल्प्य वा ।
अथ स्नाताशीतस्यास्य स्नेह-वस्ति-विधानतः ॥७३॥

१९.७३ - मात्रा शुक्तिर् विकल्प्य च १९.७३ - मात्रा शुक्तिः प्रकल्प्य वा ऋजोः सुखोपविष्टस्य पीठे जानु-समे मृदौ ।
हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतो-विशुद्धये ॥७४॥

सूक्ष्मां शलाकां प्रणयेत् तया शुद्धे अनु-सेवनि ।
आ-मेहनान्तं नेत्रं च निष्-कम्पं गुद-वत् ततः ॥७५॥

१९.७५ - तया शुद्धे अनु-सेवनीम् पीडिते ऽन्तर्-गते स्नेहे स्नेह-वस्ति-क्रमो हितः ।
वस्तीन् अनेन विधिना दद्यात् त्रींश् चतुरो ऽपि वा ॥७६॥

१९.७६ - पीडिते ऽनुगते स्नेहे अनुवासन-वच् छेषं सर्वम् एवास्य चिन्तयेत् ।
स्त्रीणाम् आर्तव-काले तु योनिर् गृह्णात्य् अपावृतेः ॥७७॥

विदधीत तदा तस्माद् अन्-ऋताव् अपि चात्यये ।
योनि-विभ्रंश-शूलेषु योनि-व्यापद्य् असृग्-दरे ॥७८॥

नेत्रं दशाङ्गुलं मुद्ग-प्रवेशं चतुर्-अङ्गुलम् ।
अपत्य-मार्गे योज्यं स्याद् द्व्य्-अङ्गुलं मूत्र-वर्त्मनि ॥७९॥

मूत्र-कृच्छ्र-विकारेषु बालानां त्व् एकम् अङ्गुलम् ।
प्रकुञ्चो मध्यमा मात्रा बालानां शुक्तिर् एव तु ॥८०॥

उत्तानायाः शयानायाः सम्यक् संकोच्य सक्थिनी ।
ऊर्ध्व-जान्वास् त्रि-चतुरान् अहो-रात्रेण योजयेत् ॥८१॥

वस्तींस् त्रि-रात्रम् एवं च स्नेह-मात्रां विवर्धयन् ।
त्र्य्-अहम् एव च विश्रम्य प्रणिदध्यात् पुनस् त्र्य्-अहम् ॥८२॥

१९.८२ - स्नेह-मात्रां विवर्धयेत् पक्षाद् विरेको वमिते ततः पक्षान् निरूहणम् ।
सद्यो निरूढश् चान्वास्यः सप्त-रात्राद् विरेचितः ॥८३॥

यथा कुसुम्भादि-युतात् तोयाद् रागं हरेत् पटः ।
तथा द्रवी-कृताद् देहाद् वस्तिर् निर्हरते मलान् ॥८४॥

शाखा-गताः कोष्ठ-गताश् च रोगा मर्मोर्ध्व-सर्वावयवाङ्ग-जाश् च ।
ये सन्ति तेषां न तु कश्-चिद् अन्यो वायोः परं जन्मनि हेतुर् अस्ति ॥८५॥

१९.८५ - ये सन्ति तेषां न हि कश्-चिद् अन्यो विट्-श्लेष्म-पित्तादि-मलोच्चयानां विक्षेप-संहार-करः स यस्मात् ।
तस्याति-वृद्धस्य शमाय नान्यद् वस्तेर् विना भेषजम् अस्ति किञ्-चित् ॥८६॥

१९.८६ - विट्-श्लेष्म-पित्तादि-मलाचयानां १९.८६ - विट्-श्लेष्म-पित्तादि-मलाशयानां १९.८६ - विण्-मूत्र-पित्तादि-मलाशयानां १९.८६ - विक्षेप-संहार-करो हि वायुः १९.८६ - वस्तेः समं भेषजम् अस्ति यस्मात् तस्माच् चिकित्सार्ध इति प्रदिष्टः कृत्स्ना चिकित्सापि च वस्तिर् एकैः ।
तथा निजागन्तु-विकार-कारि-रक्तौषध-त्वेन सिरा-व्यधो ऽपि ॥८७॥

१९.८७ - तस्माच् चिकित्सार्धम् इति प्रदिष्टः १९.८७ - कृत्स्ना चिकित्सापि च वस्तिर् एके

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:58.6870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

विंध्यशक्ति

  • n. (पौर. भविष्य.) एक राजा, जो किलकिल नामक राजा का पुत्र, एवं पुरंजय राजा का पिता था [ब्रह्मांड. ३.७४.१७८] 
RANDOM WORD

Did you know?

Is there any reference in Vedas or puranas for eating non-veg food?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site